पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दशमः सर्गः सरिति मरकताश्मभासि दृश्या ब्रुडिततनुर्विरराज गौरगात्री । कषदृषदि नवप्रमृष्टनिर्यन्महसि महारजतस्य राजिकेव ॥ २७॥ उदरभुवि तनूदरीरुदारं सचिररुचीश्चिरमीक्षितुं चरन्तीः । अजनि जलमित्तस्ततो विसर्पच्छफरविवृत्तविलोचनप्रचारम् ॥ २८ ॥ तततनुरनुदीर्घवारिमार्गप्रथिमपुरःप्रसरप्रवृत्तमग्ने । न्ययमयत निपत्य केशपाशस्तरलतरङ्गतुरङ्गमङ्गनायाः ॥ २९॥ विकचकचमशीर्णशैवलौवे परिमलितं नलिनोत्थरेणुरक्ते । पयसि पटुन निश्चिकाय कायं चलति चलावयवं युवा युवत्याः ॥ ३०॥ उपरि परिगलद्भयं पतन्त्या प्रतततरङ्गभुजस्य वारिराशेः । अविदितपरिखेदया सखेदं रतिपरया पुरुषायितं कयापि ॥ ३१ ॥ प्रसभकरभरापनुन्ननीरप्रतिकणत्कणकूणिताक्षिकोणाः । असहत सहचारिणा सहैका स्मितरुचिशारितवारि वारिलीलाः॥३२॥ स्तनजघनविमर्दमङ्गनानां सुकृतशतैरपि दुर्लभं तदाप्य । अदधत कलुषत्वमम्बुनेगो विगतविवेकमिदं हि तज्जडत्वम् ।। ३३ ।। स्रुतवसनपयाकणापदेशात् सुचिरमनुव्रजिता इवाम्बुभिस्ताः । (सपदि) तटगतप्रियात्तहस्ताः समुदतरन्समुदस्तरङ्गवत्याः ।। ३४ ॥ परिहितपरिमाण्डरोत्तरीया नवसलिलप्लुतिनिर्मलत्विषस्ताः । हिमपटलजुषामनीषदस्थु श्रियम स्तनजघनसमागमच्युतानां विषमदशान्वयिनोां वनं श्रितानाम् । युवतिभिरतिमात्रपीडितानां परमुपादि निरागिताम्बराणाम् ।। ३६ ।। lings at one time on the other in 27, MS omits. sion of stanzas due to the loss of b, Mr for fortes 31d Id,N कयाचित् tor कयापि the banding dowi of MSS. 32bM कुण्ठित for कूणित 94,38, V omits. The readings of N a.M सीरित: for शारित show taat there wore other stanzas d.N लीहाम् for लीला alter 98, but they are lost in M and 93After this there is a confusion in are found in N as given here. the three MS8 in regard to the div. 35.N breaks after foran...