पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दशमः सर्गः श्रुतिमधुररथाङ्गनाममादस्मृतरसस्मरसीत्कृतस्वनानाम् । स्मितचलदधरं ससञ्ज दृष्टिर्मुखकमलेषु परस्परं प्रियाणाम् ॥ १७ ॥ सममनुभवितुं प्रियैर्विलासानपरिचितं परमार्थमीरवोऽपि । प्रसभमपभियः पयोऽभ्ययुस्ताः किमिव हि दुष्करमस्ति रागवृत्तेः॥१८॥ पयसि परिणता व्यधत्त वध्वाः प्रतिकृतिरुत्तटकोटिसङ्गतायाः । जलनिधिजलजालजायमानप्रतिनवविष्णुवधूपपुर्विलासम् ॥ १९ ॥ श्रवणकुवलयेन कोमलाङ्गयाः पयसि परिप्लुतिभीयुषा चलोर्मौ । अधिगतनिजजन्मभूप्रभूतप्रमदरशादशनैरनृत्यतेव ॥ २० ॥ प्रतिनववनिता नितान्ततान्तेर्जलमवतीर्य ततस्तरङ्गभीरु । अगलितमलगद् गले स्वभर्तुर्द्विषदपि कुत्रचिदावहेत्फलाढ्यम् ।। २१ ॥ प्रियकृतपरनामपूर्वसेका शिशिरजलैरथ भोहमाप कापि तनुरपि विषमं तनोति तापं समुपचितप्रणयस्य खण्डनांशः॥ २२ ॥ युवतिमुखसरोजलोलुभा मां बत लियमेन निरंशमुज्झति श्रीः । इति पयसि वधूनितम्बभिन्ने बिसकुसुमेन विषादिनेव ममे ॥ २३ ॥ गुरुमपि गुरुणा कृतां कृशाङ्गी न कमलकुङ्मलमालिकां न दध्रे । जनयति हि किमप्यनल्पमोजो दृढतरभावकृतः प्रियप्रसादः ॥ २४ ॥ सरभसललनादृढायगूढैरतनुतरं समवाप्य रागमाभ्यः । वियुतिमिव पुरो विशङ्कमानैरविषहशक्तिमकम्पि वारिपूरैः ॥ २५ ॥ गिरितटविकटैर्नितम्बबिम्बैः प्रसरनिरोधसवाप्य वारि तासाम् । निरुपमतमरूपदृष्टिजातस्मयमिव रूद्धगति क्षणस्य तस्थौ ।। २६ ।। 279M3 forra bN सरसस्मर for रससस्मर C,M ससर्ज for ससा -18, MS omite. 196.Nउट for उत्तर --208,M प्रचल for श्रवण leअगनितमलमलेश्वभर्तुः 28th,M चिर समुज्झति: निरंशमुमति: -24b,M निदधे tor नदधे 25b.N समवार्य for समनाम्य -25d,N रविषवेशक्तिमकस्थि Mरिव सइसत किम् Mरिक सहसा विषहशक्ति 260,M नात for जात d,M क्षण से tor:क्षणस्य