पृष्ठम्:कपीनामुपवासः.pdf/3

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
श्रीः ।
कपीनामुपवासः ।
पुरा कदाचित् कपिसार्वभौमः
कश्चित्समाहूय जनान् स्वकीयान् ।
प्रवर्त्य सम्मेलनमात्मनीना-
मुवाच वाचं वदतां वरेण्यः ॥ १ ॥


ज्ञातं हि वो वानरवंशवृद्धाः
प्राञ्चो यदस्मत्कुलजा महान्तः ।
शौर्येण वीर्येण च विद्यया च
लोकत्रयेऽपि प्रथिता बभूवुः ।। २ ।।


प्रियोपलम्भाय वृतः सहायो
यः कोसलेन्द्रस्य कुमारकेण |
कस्यात्र लोके विदितो न जन्तोः
सुग्रीवनामा स कपिप्रवीरः ॥ ३ ॥