सामग्री पर जाएँ

पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८८
[ आदितस्तरङ्गः
कथाधारित्शगरः ।

तत्साधयामि भद्रं वस्तीर्णः शापो मयैष सः । इत्युक्त्वा सोऽभ्युदपतत्सद्यो विद्याधरो नभः ॥ १४४

ततस्तद्विस्मयाक्रान्तो नन्दत्स्वजनबान्धवः । श्लाघ्यसंबन्धहृष्टो मे पिताकार्षीन्महोत्सवम् ॥ १४५

को हि नित्यजामित्राणां चरितं चिन्तयिष्यति । सुहृत्सु नैव तुष्यन्ति प्राणैरत्युपकृत्य ये॥ १४६

इति चात्र न को नाम सचमत्कारमभ्यधात् । ध्यायं ध्यायमुदारं तच्छबराधिपचेष्टितम् ॥ १४७

राजापि तत्तथा बुवा तत्रत्यस्तस्य सन्मतेः । अतुष्यदस्सस्नेहेन शयराधिपतेः परम् ॥ १४८

तुष्टश्च तस्मै मपित्रा दापितः सहसैव च। अशेषमटवीराज्यं रत्नोपायनदायिना ॥ १४९

ततस्तया मनोवत्या परन्या मित्रेण तेन च । कृतार्थः शबरेन्द्रेण तत्रातिष्ठमहं सुखी ॥ १५०

स च श्लथीकृतात्मीयदेशवासरसस्ततः। भूयसास्मद्महेष्वेव न्यवसच्छबराधिपः ॥ १५१

परस्परोपकारेषु खर्चकालमतृप्तयोः । स द्वयोरगमत्कारो मम सस्य च मित्रयोः॥ १५२

अचिराच्च मनोवत्यां तस्यामजनि से सुतः। बहिष्कृतः कुलस्येव कृत्स्नस्य हृदयोत्सवः ॥ १५३

हिरण्यदत्तनामा च स शनैवृद्धिमाययौ । कृतविद्यो यथावच्च परिणीतोऽभवत्ततः ॥ १५४

तदृष्ट्वा जीवितफलं पूर्णं मत्वा च मत्पिता । वृद्धो भागीरथीं प्रायात्सदारो देहमुज्झितुम् ॥ १५५

ततोऽहं पितृशोकार्तः कथंचिद्वन्धवैधृतिम् । प्राहितो गृहभारं स्वमुद्वोढं प्रतिपन्नवान् ॥ १५६

तदा मनोवतीसुग्धमुखदर्शनमेकतः । अन्यतः शघरेन्द्रेण संगमो मां व्यनोदयत् ॥ १५७

ततः सपुत्रसानन्दाः सुकलत्रमनोरमाः । सुहृत्समागमसुख गतास्ते दिवसा मम ॥ १५८

कालेनाथ प्रवृद्धं मामप्रहीचिबुके जरा । किं गृहेऽद्यापि पुत्रेति प्रीत्येव ब्रुवती हितम् ॥ १५९

तेनाहं सहसोत्पन्नवैराग्यस्तनयं निजम् । कुटुम्बभारोद्वहने वनं वाञ्छन्नयोजयम् ॥ १६०

सदारश्व गतोऽभूवं गिरिं कालंजरं ततः । मत्स्नेहत्यक्तराज्येन समं शबरभूभृता ॥ १६१

तत्र प्राप्तेन चरमया जातिर्वेद्याधरी मया । शापश्च प्राप्तपर्यन्तः स शार्वः सहसा स्मृतः ॥ १६२

तच पत्न्यै मनोवत्यै तदैवाख्यातवानहम् । सख्ये च शघरेन्द्राय मुमुक्षुर्मानुषीं तनुम् ॥ १६३

भार्यामित्रे इमे एव भूयास्तां स्मरतो मम । अन्यजन्मन्यपीत्युक्त्वा हृदि कृत्वा च शंकरम् ॥ १६४

मया गिरितटात्तस्मान्निपत्य प्रसभं ततः । ताभ्यां स्वपत्नीमित्राभ्यां सह मुक्तं शरीरकम् ॥ १६५

सोऽहं ततः समुत्पन्नो नाम्ना जीमूतवाहनः । विद्याधरकुलेऽमुष्मिन्नेष जातिस्मरोऽधुना ॥ १६६

ख चापि शबरेन्द्रस्वं जातो मित्रावसुः पुनः । यज्ञप्रसादात्सिद्धानां राज्ञो विश्वावसोः सुतः ॥ १६७

सापि विद्याधरी मित्र मम भार्या मनोवती । तब स्वसा समुत्पन्ना नाम्ना मलयवत्यसौ ॥ १६८

एवं मे पूर्वपत्येषा भगिनी ते भवानषि । पूर्वमित्रमतो युक्ता परिणेतुमसौ मम ॥ १६९

किं तु पूर्वमितो गवा मम पित्रोर्निवेदय । तयोः प्रमाणीकृतयोः सिध्यत्येतत्तवेप्सितम् ॥ १७०

इत्थं निशम्य जीमूतवाहनात्प्रीतमानसः । गत्वा मित्रावसुः सर्वे तत्पितृभ्यां शशंस तत् ॥ १७१

अभिनन्दितवाक्यश्च ताभ्यां हृष्टस्तदैव सः । उपगम्य तमेवार्थं स्वपितृभ्यां न्यवेदयत् ॥ १७२

तयोरीप्सितसंपतितुष्टयोः सत्वरं च सः । युवशजो विवाहय संभारमकरोत्स्वसुः ॥ १७३

ततो जग्राह विधिवत्तस्या जीमूतवाहनः। पाणिं मलयवत्याः स सिद्धराजपुरस्कृतः ॥ १७४

बभूव चोत्सवस्तत्र च चद्दयुचरचरणः। संमिलत्सिद्धसंघातो वर्गद्विद्याधरोडुरः॥ १७५

कृतौद्वाहस्ततस्तस्थौ तस्मिजीमूतवाहनः। मळयाद्रौ महार्वेण विभवेन वधूसखः ॥ १७६

एकदा च श्वशुर्येण स मित्रावसुना सह । वेलावनानि जलधेरवलोकयितुं ययौ ॥ १७७

तत्रापृश्यच्च पुरुषं युधानं विस्रमागतम् । निवर्तयन्तं जननीं ह्रा पुत्रेति विराविणीम् ॥ १७८

अपरेण परित्यक्तं भटेनेवानुयायिना । पुरुषेण पूज्ञानं प्रापय्यैकं शिलातलम् ॥ १७९

कस्त्वं किमीहसे किं च माता स्वां शोचतीति तम्। स पप्रच्छ ततः सोऽपि तस्मै वृत्तान्तमब्रवीत् ॥ १८०

पुरा कश्यपभार्ये हे कदूश्च विनता तथा । मिथः कथाप्रसङ्गन विवादं किल चक्रतुः॥ १८१

आद्या श्यामान्रवेरश्वनवादीपरा सितान् । अन्योन्यदासभावं च पणसत्र बबन्धतुः॥ १८२