पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८६
[ आदितस्तरङ्गः २
कथासरित्सागरः ।

स दृथैवार्द्रहृदयः शघरोऽप्यभवन्मयि । वक्ति जन्मान्तरप्रीतिं मनः स्निह्यदकारणम् ॥ ६५

ततो मां सोचयित्वैव बधासशबराधिपः । ऐच्छदारमोपहारेण कथं पूजासमापनम ॥ ६६

मैवं कृथाः प्रसन्नास्मि तब याचस्व मां वरम् । इत्युक्तो दिव्यया वाचा प्रहृष्टश्च जगाद सः ॥ ९७

वं प्रसन्ना बरः कोऽन्यस्तथाप्येतावर्थये । जन्मान्तरेऽपि में सख्यमनेन वणिजास्त्विति ॥ ९८

एवमस्त्विति शान्तायां वाचि मां शबरोऽथ सः । प्रदत्तसबिशेषार्थं प्रजिघाय निजं गृहम् ॥ ६९

मृत्योर्मुखात्प्रत्रासाच ततः प्रत्यागते मयि । अकरोऽज्ञातवृत्तान्तः पिता मम महत्सवम॥ ७०

कालेन तत्र चापश्यमहं सार्थाबलुण्ठनात् । वष्टभ्यानायितं राज्ञा तमेव शयराधिपम् ॥ ७१

तक्षणं पितुरावेध विज्ञाष्य च महीपतिम्। मोचितः स्वर्णलक्षेण स मया वधनिग्रहात् ॥ ७२

प्राणदानोपकारस्य क्रुस्वैवं प्रत्युपक्रियाम् । आनीय च गृहं प्रीत्या पूर्ण संसानितश्चिरम् ॥ ७३

सत्कृत्य प्रेषितश्चाथ हृद्यं प्रेमपेशलम् । निधाय सथि पल स्वां प्रायात्स शबराधिपः ॥ ७४

तत्र प्रत्युपकारार्थं चिन्तयन्प्राभृतं मम । स्वरूपं स मेने स्वाधीनं मुक्ताकस्तूरिकाद्यपि ॥ ७५

rतः सातिशयं प्राप्तं मुक्तसारं स मत्कृते । धनुद्वितीयः प्रययौ गजान्हन्तुं हिमाचलम् ॥ ७६

भ्रमंश्च तत्र तीरस्थदेवागारं सहत्सरः । प्राप तुल्यैः कृतप्रीतिस्तद्घ्जैर्मिश्ररागिभिः ॥ ७७

तत्राशङ्कयाम्बुपानार्थमागमं वन्यहस्तिनास्। छन्नः स तस्थावेकान्ते सचापस्तज्जिघांसया ॥ ७८

तावत्तत्र सरस्तीरगतं पूजयितुं हरम्। आगताभङ्ताकारो ङमारी सिंहवाहनाम् ॥ ७९

स ददर्श तुषाराद्रिराजपुत्रीमिवापराम्। परिचर्यापरां शंभोः कन्यकाभाववर्तिनीम् ॥ ८०

दृष्ट्वा च विस्मयाक्रान्तः शबरः स व्यचिन्तयत् । केयं स्याद्यदि मर्यत्री तटकथं सिंहवाहना ॥ ८१

अथ दिव्या कथं दृश्या सादृशैस्तदियं ध्रुवम् । चक्षुषोः पूर्वपुण्यानां मूर्ती परिणतिर्मम ॥ ८२

अनया यदि मित्रं तं योजयेयमहं ततः। काप्यन्यैव मया तस्य कृता स्यात्प्रत्युपक्रिया ॥ ८३

तदेतामुपसर्पमि तावज्जिज्ञासितुं वरम् । इत्यालोच्य स मित्रं मे शबरस्तामुपाययौ ॥ ८४

तावच्च सावतीर्येव सिंह च्छायानिषादिनः । कन्यागस्य' सरः पद्मन्यवचेतुं प्रचक्रमे ॥ ८५

तं च दृष्टान्तिकप्राप्तं शबरं सा कृतानतिम् । अपूर्वमतिथिप्रीत्या स्वागतेनान्वरजयत् ॥ ८६

करस्त्वं किं चागतोऽभ्येतां भूमिमत्यन्तदुर्गमाम् । इति पृष्टवतीं सां च श्बरः प्रत्युवाच सः॥ ८७

अहं भवानीपादैकशरणः शबराधिपः । आगतोऽस्मि च मातङ्गमुक्ताहेतोरिदं वनम् ॥ ८८

त्वां च दृष्टाधुनात्मीयो देवि प्राणप्रदः सुहृत् । सार्थवाहसुतः श्रीमान्वसुदत्तो मया स्मृतः ॥ ८९

हि त्वमिव रूपेण यौवनेन च सुन्दरि । अद्वितीयोऽस्य विश्वस्य नयनामृतनिर्हरः ॥ ९०

सा धन्या कन्यका लोके यस्यास्तेनेह गृह्यते । मैत्रीद नद्याधैर्यनिधिना कङ्कणी करः ॥ ८१

तवदाकृतिरेषा चेतादृशेन न युज्यते । व्यर्थ वहति तत्कामः कोदण्डमिति मे व्यथा ॥ ९२

इति व्याधेन्द्रवचनैः सद्योऽपहृतमानसा । सकुमारी कंदर्पमोहमन्त्राक्षरैरिव ॥ ९३

उवाच तं च शबरं प्रेर्यमाणा मनोभुचा। क्क स ते सुहृदानीय तावन्मे दर्यतामिति ॥ ९४

तच्छुत्व च तथेत्युक्त्वा ताममत्रय तदैव सः । कृतार्थमानी मुदितः प्रतस्थे शबरस्ततः॥ ९५

स्वपल्लीमादाय मुक्तामृगमदादिकम्। भूरि भारशतैर्दार्यमस्मद्वाहमथाययौ ॥ ९६

सवैः पुरस्कृतस्तत्र प्रविश्य प्राभृतं च तत् । मतिपत्रे स बहुस्वर्णलक्षमूल्यं न्यवेदयत् ॥ ९७

उत्सवेन च यातेऽस्मिन्दिने रात्रौ स से रहः। कन्यादर्शनवृत्तान्तं तमा मूळवर्णयत् ॥ ९८

एहि तत्रैव गच्छाब इत्युक्त्वा च समुत्सुकम् । सामद्य निशि स्वैरं स प्रयाच्छबराधिपः ॥ ९९

प्रातश्च मां गतं कापि बुद्ध सशबराधिपम् । तस्फीतिप्रत्ययात्तस्थौ धृतिमालम्ब्य मत्पिता ॥ १००

च प्रापितोऽभूवं क्रमात्तेन तरखिना । शबरेण तुषाराद्रिं कृताध्वपरिकर्मणा ॥ १०१

तच्च प्राप्य सरः सायं स्नात्वा स्वादुफलाशनौ । अहं च स च तामेकां वने तत्रोषितै निशाम् ॥ १०२

लताभिः कीर्णकुसुमं भृङ्गीसंगीतसुन्दरम् । शुभगन्धवहं हरि ज्वलितौषधिदीपिकम् ॥ १०३

रतेस्तद्वसवेश्मेव विश्रन्थं गिरिकाननम् । आवयोरभवन्नक्तं पिबतस्तस्ररोजछम् ॥ १०४