सामग्री पर जाएँ

पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
60
[ आदितस्तरङ्गः
कथासरित्सागरः

एतन्निजश्वशुरदूतवचो निशम्य वत्सेश्वरस्य हृदये सपदि प्रमोदः।
देव्यां च कोऽपि ववृधे प्रणयप्रकर्षों भूयांश्च मत्रिवृषभे प्रणयानुबन्धः..

ततस्तं देवीभ्यां सममुचितसस्कारविधिना
कृतातिथ्यं दूतं सरभसमनाः प्रेष्य मुदितम् ।
विधास्यन्नद्योगं त्वरितमथ संमन्त्रय' सचिवैः
स चक्रे कौशाम्बीं प्रति गमनबुद्धि नरपतिः ॥

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे लावाणकलम्बके तृतीयस्तरः।

*****



चतुर्थस्तरङ्गः



ततो लावणकात्तस्मादन्येद्युः सचिवैः सह । वत्सराजः स कौशाम्बीं प्रतस्थे दयितान्वितः ॥

प्रसस्त्रे च लसन्नादैस्तस्यापूरितभूततै। बलैरसमयोद्वेलजलराशिजलैरिव ॥

उपमा नृपतेस्तस्य गजेन्द्रस्थस्य गच्छतः । भवेद्यदि रविर्यायाद्गने सोदयाचलः ॥

स सितेनातपत्रेण कृतच्छायो बभौ नृपः। जितार्कतेजःप्रीतेन सेव्यमान इवेन्दुना ॥

तेजस्विनं स्वकक्षाभिस्तं सर्वोपरिवर्तनम् । समन्ताः परेितो भृमुधैवं ग्रहंगणा इव ॥

पश्चात्करेणुकारूढे देव्यौ द्वे तस्य रेजतुः । श्रीभुबावनुरागेण साक्षादनुगते इव ॥

त्वङ्गतुरंगसंघात खुराग्राङ्कनखक्षता । पथि तस्याभवद्भमिरुपभुक्तेव भूपतेः ॥

एवं वसेश्वरो गच्छन्स्तूयमानः स बन्दिभिः । दिनैः कतिपयैः प्राप कौशाम्बीं विततोत्सवाम् ॥

ध्वजरक्तांशुकच्छन्ना गयाक्षोत्फुल्ललोचना । प्रद्वारदर्शतोत्तुङ्गपूर्णकुम्भकुचद्वया ॥

जनकोलाहलानन्दसंलापा सौधहासिनी। सा प्रबसागते पयौ तत्कालं शुशुभे पुरी ॥

देवीद्वयानुयातश्च स राजा प्रविवेश ताम् । पौरस्त्रीणां च कोऽयासीत्तत्र तद्दर्शनोत्सवः ॥

अपूरि हरिहर्यस्थरामाननशतैर्नभः । देवीमुखजितस्येन्दोः सैन्यैः सेवागतैरिव ॥

वातायनगताश्चन्याः पश्यन्त्योऽनिमिषेक्षणाः । चक्रुः सकौतुकायातविमानस्थाप्सरोभ्रमम् ॥

काश्चिद्वाजालाग्रलग्नपक्ष्मललोचनाः। अमृजन्निव नाराचपञ्जराणि मनोभुवः ॥

एकस्याः सोत्सुका दृष्टिर्नुपालोकविकस्वरा । शृतेः पार्श्वमपश्यन्त्यास्तदाख्यातुमिचाययौ ॥

दुसगतायः कस्याश्चिन्मुहुरुच्छंसितौ स्तनौ । कधृकादिव निर्गन्तुमीषतुस्तद्दिदृक्षया ॥

अन्यस्याः संभ्रमच्छिन्नहामुक्ताकणा बभुः। गलन्तो हृदयस्येव हर्षबाष्पाम्बुसीकराः ॥

यद्यस्यामाचरेत्पापमग्निर्यावाणके ततः । प्रकाशकोऽप्यसावन्धं तमो जगति पातयेत् ॥

इति वासवदतां च दृष्ट्वा स्मृत्वा च तत्तथा। दाहप्रवादं सोत्कण्ठा इव काश्चिद्वभाषिरे ॥

दिष्ट्या न लज्जिता देवी सपत्या सखितुल्यया । इति पद्मावतीं वीक्ष्य बयस्या जगदेऽन्यया ॥

नूनं हरमुरारिभ्यां न दृष्टं रूपमेतयोः । किमन्यथा भजेतां तौ बहुमानमुमाश्रियौ ॥

इत्यूचुरपरास्ते द्वे दृष्ट्वा देव्यौ परस्परम् । क्षिपन्त्यः प्रमदोत्फुल्ललोचनेन्दीवरस्रजः ॥

एवं वत्सेश्वरः कुर्वञ्जनतानयनोत्सवम् । स्वमन्दिरं सदेवीक प्राविशङ्कतमङ्गलः ॥

प्रभाते याब्जसरसो याब्धेरिन्दूदये तथा। तत्काळं तस्य सा कापि शोभाभूद्राजवेश्मनः ॥

क्षणादपूर सामन्तमङ्गलोपायनैश्च तत् । सूचयद्भिरिवाशेषभूपालापायनागमम् ॥

संमान्य राजलोकं च वत्सराजः कृतोत्सवः । चित्तं सर्वजनस्येव विवेशान्तःपुरं ततः ॥

देव्योर्मध्यस्थितस्तत्र रतिप्रीत्योरिव स्मरः। पानादिलीलया राजा दिनशेषं निनाय सः ॥

अपरेद्युश्च तस्यैको नृपस्यास्थानवर्तिनः । मत्रिणां संनिधौ विप्रो द्वारि चक्रन्द कश्चन ॥

अब्रह्मण्यमटव्यां मे पापैर्गोपालकैः प्रभो । पुत्रस्य चरणोच्छेदो विहितः कारणं विना ॥

तच्छुत्वा तत्क्षणं द्वित्रान्वष्टभ्यानाय्य भूपतिः। गोपालकन्स पप्रच्छ ततस्तेऽप्येवमब्रुवन् ॥