सामग्री पर जाएँ

पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५४
[ आदितस्तरङ्गः १६ ।
कथासरित्सागरः ।

सा चाभीष्टवरश्रुत्या मुदं पद्मावती ययौ। प्राप वासवदत्ता च तद्वातकर्णनाच्छुचम् ॥ ६७

सा वार्ता कर्णमागत्य तस्या वैवर्यदायिनी । प्रच्छन्नवासवैरूप्यसहायकमिवाकरोत् ॥ ६८

इत्थं मिश्रीकृतः शत्रुर्न च भर्तान्यथा त्वयि । वसन्तकोक्तिरित्यस्याः सखीव विदधे धृतिम् ॥ ६९

अथासन्नविवाहायाः पद्मावत्या मनस्विनी । आम्लानमालातिलकौ दिव्यौ भूयश्चकार सा ॥ ७०

ततो वत्सेश्वरस्तत्र संप्राप्ते सप्तमेऽहनि । ससैन्यो मद्रिभिः साकं परिणेतुं किलाययौ ॥ ७१

मनसापि तदुद्योगं विरही स कथं स्पृशेत् । देवीं लभेय तामेवमित्याशा न भवेद्यदि ॥ ७२

प्रत्युद्ययौ च तं सद्यः सानन्दो मगधेश्वरः। प्रजानेत्रोत्सवं चन्द्रमुदयस्थमिवाम्बुधिः ॥ ७३

विवेशाथ स वत्सेशो मगधाधिपतेः पुरम् । समन्तात्पौरलोकस्य मानसं च महोत्सवः ॥ ७४

विरहक्षामवपुषं मनःसंमोहदायिनम् । ददृशुस्तत्र नार्यस्तं रतिहीनमिव स्मरम् ॥ ७५

प्रविश्य मगधेशस्य वरलेशोऽप्यथ मन्दिरम् । सनाथं पतिवत्नीभिः कौतुकागारमययौ ॥ ७६

तन्न पझावतीमन्तर्दशी कृतकौतुकाम् । स राजा पूर्णवकेन्दुजितपूर्णेन्दुमण्डलम् ॥ ७७

तस्याश्च मालातिलकौ दिव्यावालोक्य तौ निजौ । एतौ कुतोऽस्या इत्येवं विममर्श स भूपतिः ॥ ७८

ततः स वेदीमारुह्य तस्या जग्राह यस्करम् । तदेवारम्भतां प्राप तस्य पृथ्व्याः करग्रहे ॥ ७९

प्रियवासवदत्तोऽयमिदं शक्नोति नेक्षितुम् । इतीव वेदीधूमोऽस्य बाष्पेण पिदधे दृशौ ॥ ८०

अग्निप्रदक्षिणे तानं तदा पद्मावतीमुखम् । विज्ञातभर्नाभिप्रायं कोपाकुलमिवाबभौ ॥ ८१

मुमोच स कृतोद्वाहः कराद्वत्सेश्वरो. वधूम् । न तु वासवदत्तां तां तत्याज हृदयाक्षणम् ॥ ८२

ततस्तथा ददौ तस्मै रत्नानि मगधाधिपः । निडुधरनरिक्तेव पृथिवी बुबुधे यथा ॥ ८३

साक्षीकृत्य च तत्कालमग्निं यौगन्धरायणः । अद्रोहप्रत्ययं राज्ञो भगशमकारयत् ॥ ८४

प्रदत्तवस्त्राभरणः प्रगीतवरचरणः । प्रनृत्तवरनारीकः प्रससार महोत्सवः ॥ ८५

उदयपेक्षिणी पत्युः सुनेबालक्षितस्थिता । तदा वासवदत्ताभूद्दिवा कान्तिरिवैन्दवी ॥ ८६

अन्तःपुरमुपायाते राज्ञि वसेश्वरे ततः । देवीसंदर्शनाशी कृती यौगन्धरायणः ॥ ८७

मन्त्रभेदभयादेवं मगधेश्वरमभ्यधात् । अत्रैव नाथ वत्सेशः प्रयाति त्वदृहादिति ॥ ८८

तथेत्यङ्गीकृतं तेन तमेवार्थं तदैव सः । व्यजिज्ञपद्वत्सराजं सोऽपि तच्छूद्दधे तथा ॥ ८९

अथोचचाल वत्सेशो भुक्तपीतपरिच्छदः। मन्त्रिभिः सममाद्य वधं पद्मावतीं ततः ॥ ९०

पलावस्या विस्तृष्टं च सुखमारुह्य वाहनम् । तथैव च समादिष्टैरतान्महत्तरकैः सह ॥ ९१

आगाद्वासवदत्तापि गुप्त सैन्यस्य पृष्ठतः । कृतरूपविवर्त तं पुरस्कृत्य वसन्तकम् ॥ ९२

क्रमालावाणकं प्राप्य बरसेशो वसतिं निजाम् । प्रविवेश समं वध्वा देवीचित्तं तु केवलः ॥ ९३

एत्य वासवदत्तापि सा गोपालकमन्दिरम् । विवेशाथ निशीथे च परिस्थाप्य महत्तरान् ॥ ९४

तत्र गोपालकं दृष्ट्वा भ्रातरं र्शितादरम् । कण्ठे जग्राह रुदती बाष्पव्याकुललोचनम् ॥ ९५

तरक्षणे स्थितसंविच्च तत्र यौगन्धरायणः । आययौ सरुमण्वत्कस्तया देव्या कृतादरः ॥ ९६

सोऽस्याः प्रोत्साह विश्लेषदुःखं यावव्यपोहति । तावत्पद्मावतीपार्श्व प्रययुस्ते महत्तराः ॥ ९७

आगतावन्तिका देवि किमप्यस्मान्विहाय तु । प्रविष्टा राजपुत्रस्य गृहं गोपालकस्य सा ॥ ९८

इति पद्मावती सा तैर्विज्ञप्ता स्वमहत्तरैः। वत्सेश्वराने साशङ्का तानेवं प्रत्यभाषत ॥ ९९

गच्छतावान्तिकां बूथ निक्षेपस्त्वं हि मे स्थिता । तत्र किं ते यत्राहं तत्रैवागम्यतामिति ॥ १००

तच्छुत्वा तेषु यातेषु राजा पद्मावतीं रहः। पप्रच्छ मालातिलकौ केनेमौ ते कृतावित॥ १०१

सावोचथ मद्देहे न्यस्ता विप्रेण केनचित् । आवन्तिकाभिधा यैषा तस्याः शिल्पमिदं महत् ॥ १०२

व च वत्सेशो गोपालगृहमाययौ । नूनं वासवदत्ता सा भवेदत्रेति चिन्तयन् ॥ १०३

प्रविवेश च गत्वा तद्दरस्थितमहत्तरम् । अन्तस्थदेवीगोपालमन्निद्वयवसन्तकम् ॥ १०४

तत्र वासवदत्तां तां ददर्श प्रोषितागताम् । उपप्लवविनिर्मुक्तां मूर्तेि चान्द्रमसीमित्र ॥ १०५