सामग्री पर जाएँ

पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तरङ्गः २। ]
५३
वाणकलम्बकः ३ ।

आकृल्या सौकुमार्येण शयनाशनसौष्टवैः । शरीरसौरभेणापि नीलोत्पलसुगन्धिना ॥ २८

तामुत्तमां विनिश्चित्य महादैरात्मनः समैः। पद्मावती यथाकाममुपचारैक्षपाचरत् ॥ २९

अचिन्तयच्च काप्येषा छन्ना नूनमिह स्थिता । गूढ़ा किं द्रौपदी नासीद्विराटवसताविति ॥ ३०

अथ वासवदत्तास्याश्चक्रे देव्याः प्रसङ्गतः। अम्लानमालातिलकौ बरसेशात्पूर्वशिक्षितौ ॥ ३१

तषितां च दृष्ट्वा तां माता पद्मावतीं रहः। पप्रच्छ मालातिलकौ केनेमौ निर्मिताविति ॥ ३२

ऊचे पद्मावती चैनामत्र मन्मन्दिरे स्थिता । काचिदावन्तिका नाम तया कृतमिदं मम ॥ ३३

तच्छुत्वा सा बभाषे तां माता पुत्रि न तर्हि सा । मानुषी कापि देवी सा यस्या विज्ञानमीदृशम् ॥ ३४

देवता मुनयश्चापि वञ्चनार्थं सतां गृहे । तिष्ठन्त्येव तथा चैतामत्र पुत्रि कथां श्रुणु ॥ ३५

बभूव कुन्तिभोजाख्यो राजा तस्यापि वेश्मनि । आगत्य तस्थौ दुर्वासा वञ्चनैकरसो मुनिः॥ ३६

स तस्य परिचर्यार्थं राजा कुन्तीं निजां सुताम् । आदिदेश मुनिं सापि यत्नेनोपचचार तम् ॥ ३७

एकदा स मुनिः कुन्तीं जिज्ञासुः सन्नभाषत । परमान्नं पचेः शीघ्र स्नात्वा यावदुपैस्यहम् ॥ ३८

इत्युक्त्वा त्वरितं स्नात्वा स चर्षभमाययौ । कुन्ती तदन्नपूर्णा च तस्मै पात्रीमढौकयत् ॥ ३९

अतितप्तेन चान्नेन ज्वलन्तीमिव तां मुनिः । मत्वा हस्तग्रहायोग्यां कुन्त्या पृष्ठे दृशं ददौ ॥ ४०

सापि पृष्ठेन तां पात्रीं दधौ लब्धाझ्या मुनेः। ततः स बुभुजे स्वेच्छं कुन्तीपृष्टं त्वदह्यत ॥ ४१

दह्यमानापि गाढं सा यत्तस्थावविकारिणी । तेन तुष्टो मुनेभुक्त्वा ददौ तस्यास्तत वरम् ॥ ४२

इत्यासीत्स मुनिस्तत्र तदेषावन्ति कापि ते । तद्वदेव स्थिता कापि तस्यमाराधयेरिमाम् ॥ ४३

इति मातुर्मुखाच्छुत्वा पद्मावत्यन्यरूपिणीम् । तत्र वासवदत्तां तां सुतरां बहुमन्यत ॥ ४४

सापि वासवदत्तात्र निजनाथविनाकृता । तस्थौ विधुरविच्छाया निशीथस्थेव पद्मिनी ॥ ४५

वसन्तक विकाराश्च ते ते बाणोचिता मुहुः । मुखे तस्या वियोगिन्याः स्मितस्यावसरं ददुः ॥ ४६

अत्रान्तरेऽतिदूरासु भ्रान्स्वाखेटकभूमिषु । वनराजश्चिराद्गात्सायं लावाणकं पुनः । ४७

भस्मीकृतमपश्यच्च तत्रान्तःपुरमग्निना । देवीं दग्धां च शुश्राव मत्रिभ्यः सवसन्तकाम् ॥ ४८

श्रुत्वैव चापतद्रुमौ मोहेन हृतचेतनः । तदुःखानुभवश्चैशमपाकर्तुमिच्छता ॥ ४९

क्षणाच्च लब्धसंज्ञः सञ्जज्वाल हृदये शुचा । आविष्ट इव तत्रस्थदेवीदाहेक्षणाग्निना ॥ ५०

विलपन्नथ दुःखार्ता देहत्यागैकसंमुखः । क्षणान्तरे स नृपतिः संस्मृत्यैतचिन्तयत् ॥ ५१

विद्याधराधिपः पुत्रो देव्यास्तस्या भविष्यति । एतन्मे नारदमुनिर्वक्ति स्म न च तन्मृषा ॥ ५२

कंचित्कालं च दुःखं मे तेनैव मुनिनोदितम् । गोपालकस्य चैतस्य शोकः स्खलप इवेक्ष्यते ॥ ५३

यौगन्धरायणादीनां न चैषामतिदुःखिता । दृश्यते तेन जाने सा वेवी जीवेत्कथंचन ॥ ५४

इयं किमपि नीतिस्तु प्रत्युक्ता मन्त्रिभिर्भवेत् । अतो मम भवेज्जातु तया देव्या समागमः ॥ ५५

तत्पश्याम्यत्र पर्यन्तमित्यालोच्य स भूपतिः। निदधे हृदये धैर्यं बोध्यमानश्च मन्त्रिभिः ॥ ५६

गोपालकश्च संदिश्य तद्यथावस्तु तत्क्षणम् । प्रजिघाय ततश्चारं धृतिहेतोरलक्षितम् ॥ ५७

एवं गते स्ववृत्तान्ते लावणकगतैस्तदा । गत्वा मगधराजाय चारैः सर्वे निवेदितम् ॥ ४८

<<स तदुचैव कालज्ञो वत्सराजाय तां सुताम् । दातुं पद्मावतीमैच्छत्पूर्वं तन्त्रमार्गताम् ॥ ५९

ततो दूतमुखेनैनमर्थं वत्सेश्वराय सः । यौगन्धरायणायापि संदिदेश यथेप्सितम् ॥ ६०

यौगन्धरायणोक्त्या च वत्सेशोऽङ्गीचकार तत् । प्रच्छादितैतदर्थं स्याद्देवी जात्त्रिति चिन्तयन् ॥ ६१

ततो लग्नं विनिश्चित्य तूर्णं यौगन्धरायणः । तस्मै मगधराजाय प्रतिदूतं व्यसर्जयत् ॥ ६२

त्वदिच्छाङ्गीकृतास्माभिस्सादितः सप्तमे दिने । पझावतीविवाहाय वत्सेशोऽत्रागमिष्यति ॥ ६३

शीघ्र वासवदत्तां च येनासौ विस्मरिष्यति । इति चास्मै महामन्त्री संदिदेश स भूभृते ॥ ६४

प्रतिदूतः स गत्वा च यथासंदिष्टमभ्यधात् । ततो मगधराजाय स चाप्यभिननन्द तम् ॥ ६५

ततः स दुहितृस्नेहनिजेच्छाविभवोचितम् । विवाहोत्सवसंभारं चकार मगधेश्वरः ॥ ६६