उन्मादिनीति नाम्ना च कन्यका सापि पप्रथे । उन्माद्यति यतस्तथा रूपं दृष्टाखिळो जनः ॥
तनयेयमनावेद्य राज्ञे देया क्कचिन्न मे । स हि कुष्येदिति पिता तस्याः सोऽचिन्तयद्वणि ॥
ततश्च गत्वा राजानं देवसेनं व्यजिज्ञपत् । देवास्ति कन्यारत्नं मे गृह्यतामुपयोगि चेत् ॥
तच्छुत्वा व्यसृजद्राजा सोऽथ प्रत्ययितान्द्विजन् न । गत्वा सुलक्षणा सा वा त्यालोच्यतामिति ॥
तथेति ते द्विजा गत्वा तां ह त्रैव वणिक्सुताम् । उन्मादिनीं ययुः क्षोभं सद्यः संजातमन्मथाः ॥
राजास्यां परिणीतायामेतदेकमनास्यजेत् । राजकार्याणि नश्येच्च सर्वं तस्मात्किमेतया ॥
इति च प्रकृतिं प्राप्त द्विजाः संमञ्जय ते गताः । कुलक्षणा सा कन्येति मिथ्या राजानमब्रुवन् ॥
ततो राज्ञा परित्यक्तां स तामुन्मादिनीं वणिजें । तत्सेनापतये प्रादादन्तर्जातविमाननाम् ॥
भर्तृवेश्मनि हऍस्था साथ जातु तमागतम् । राजानं तेन मार्गेण बुद्वमानमदर्शयत् ॥
दृष्टैव च स तां राजा जगत्संमोहनौषधिम् । प्रयुक्तामिव कामेन जातोन्माद इवाभवत् ॥
गत्वा स्वभवनं ज्ञात्वा तां च पूर्वावधीरिताम् । उन्मना ज्वरसंतापपीडां गाढमवाप सः॥
सा दासी न परस्त्रीति गृह्यतां यदि चाप्यहम् । त्यजामि तां देवकुले स्वीकरोतु ततः प्रभुः ॥
इति तेन च तद्धनं स्वसेनापतिना ततः । अभ्यर्चमानो यत्नेन जगादैवं स भूपतिः ॥
Iहं परस्त्रीमादास्ये त्वं वा त्यक्ष्यसि तां यदि । ततो नह्यति ते धर्म दण्ड्यो मे च भविष्यसि ॥
तच्छुत्वा मत्रिणोऽन्ये च तूष्णीमासन्स च क्रमात्। स्मरज्वरेण तेनैव नृपः पञ्चत्वमाययौ ॥
एवं स राजा नष्टोऽभूद्धीरोऽप्युन्मादिनीं विना । विना वासवदत्तां तु वत्सराजः कथं भवेत् ॥
एतद्रुमण्वतः श्रुत्वा पुनर्योगन्धरायणः। उवाच सह्यते क्लेशो राजभिः कार्यदर्शिभिः ॥
रावणोच्छित्तये देवैः कृत्वा युक्तिं वियोजितः। सीतादेव्या न किं रामो विषेहे विरहव्यथाम् ॥
एतच्छुत्वा च भूयोऽपि रुमण्वानभ्यभाषत । ते हि रामादयो देवास्तेषां सर्वंसहं मनः ॥
असहं तु मनुष्याणां तथा च यतां कथा । अस्तीह बहुरत्नाढ्य मथुरेति महापुरी ॥
तस्यामभूद्वणिक्पुत्रः कोऽपि नाम्ना यइलकः । तस्य चाभूत्प्रिया भार्या तदेकबद्धमानसा ।।
तया सह वसन्सोऽथ कदाचित्कार्यगौरवात् । द्वीपान्तरं वणिक्पुत्रो गन्तुं व्यवसितोऽभवत् ॥
तनयंषि च तेनैव सह गन्तुमियेष सा। स्त्रीणां भावानुरक्तं हि विरहासहनं मनः ॥
ततः स च वणिक्पुत्रः प्रतस्थे कृतमङ्गलः । न च तां सह जनाह भाय कृतप्रसाधनाम् ॥
सथ तं प्रस्थितं पश्चात्पश्यन्ती साश्रुलोचना । अतिष्ठत्प्राङ्गणद्वारकवाटान्तविलम्बिनी ॥
गते दृष्टिपथात्तस्मिन्सा वियोगासहा ततः । निर्यातुं नाशकन्मुग्धा प्राणास्तस्या विनिर्ययुः ॥
तद्वद्या च वणिक्पुत्रः प्रत्यावृत्य च तत्क्षणम् । शं विह्वलां कान्तामेतामुत्क्रान्तजीविताम् ॥
सुन्दरापाण्डुरच्छायां विलोलालकलाञ्छनाम् । भुवि चान्द्रमसीं लक्ष्मीं दिवः सुप्तच्युतामिव ॥
अङ कृत्वा च तां सद्यः क्रन्दुतस्तस्य निर्ययुः । शोकाग्निज्वलिताद्देहङ्कतं भीत इवासवः ॥
एवमन्योन्यविरहार्हपती तौ विनेशतुः। अतोऽस्य राज्ञो देव्याश्च रक्ष्यान्योन्यवियोगिता ॥
इत्युक्त्वा विरते तस्मिन्बद्धाशी रुमण्वति । जगाद धैर्यजलधिर्धामान्यौगन्धरायणः ॥
मयैतन्निश्चितं सर्वं कार्याणि च महीभृताम् । भवन्त्येवंविधान्येव तथा चात्र कथां श्रुणु ॥
उज्जयिन्यामभूत्पूर्वं पुण्यसेनाभिधो नृपः स जातु बलेनान्येन राज्ञा गत्वाभ्ययुज्यत ॥
अथ तन्मत्रिणो धीरास्तमरिं वीक्ष्य दुर्जयम् । मिथ्या राजा मृत इति प्रवादं सर्वतो व्यधुः ॥
प्रच्छन्नं स्थापयामासुः पुण्यसेनं नृपं च ते । अन्यं कंचिदधानुश्च राजार्हविधिना शवम् ॥
अराजकनामधुना भव राजा त्वमेव नः । इति दूतमुखेनाथ तमरिं जगदुश्च ते ॥
तथेत्युक्तवतस्तस्य रिपोस्तुष्टस्य ते ततः । मिलित्वा सैन्यसहिताः कटकं विभिदुः क्रमात् ॥
भिन्ने च सैन्ये राजानं पुण्यसेनं प्रकाश्य तम्। ते संप्राप्तबलाः शठं तं निजघ्नुः स्वमत्रिणः ॥
ईदृशि राजकार्याणि भवन्ति तदिदं वयम् । देवीहप्रवादेन कार्यं धैर्येण कुर्महे ॥
पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/५२
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५०
[ आदितस्तर
कथासरित्सागरः ।