५९२ कथासरित्सागरः [ आदितस्तरङ्ग अर्धमागे च साश्वाया अचरुथैव मे वधूः । अम्बुपानापदेशेन नदीकच्छमगात्किल । चिरं नायाति यावत्सा तावच्च तदवेक्षणे । सह स्थितं तं तत्रैव भृत्यमस्मि विमृष्टवान् । सोऽपि नायाति यावच्च तावदस्मि गतः स्वयम् । तच्चेटिकां स्थापयिस्वा तुरगीरक्षणाय ताम् । गत्वा पश्यामि यावत्स भृत्यो मद्भार्यया तया । भक्षयित्वास्थिशेषो मे कृतो रक्ताक्तवक्रया । वित्रस्तश्च ततो याबद्च्छामि तुरगीं प्रति । तावत्सापि तया तद्वत्तश्चेट्या भक्षिता सम ।। ततः पळाय्य यातोऽहं तत्रासेनाधुनापि मे । नैवोर्धरोमकेशत्वमन्तःस्थेन निवर्तते । तदत्र में गतिर्देव इति तं वादिनं द्विजम् । आज्ञया विक्रमादित्यो गतत्रासं व्यधत्त सः । अहो धिङ्नास्ति विश्वासः स्त्रीषु साहसभूमिषु । इति राज्ञि बत्यस्मिन्नेकोऽमात्योऽब्रवीदिदम तादृश्य एव दुर्जाताः स्त्रियो देव तथा च किम्। न श्रुतं वृत्तमिह यद्राह्मणस्याग्निशर्मणः । इहैवास्त्यग्निशर्माख्यः सोमशर्मसुतो द्विजः । पित्रोः प्राणसमो मूर्वः सर्वविद्यास्वशिक्षितः । वर्धमानपुरान्तेन परिणीता द्विजात्मजा । बालेति सा च न त्यक्ता पित्रा धनवता गृहात् । तस्यां च यौवनस्थायामग्निशर्मणमूचतुः । पितरौ पुत्र भार्या तां नानयस्यधुनापि किम् । श्रुत्वैवैतदनापृच्छय पितरौ स जडाशयः । अग्निशर्मा ततः प्रायादेकाकी गृहिणीं प्रति । निर्गतस्य गृहात्तस्य दक्षिणोऽभूत्कपिञ्जळः । दक्षिणा च विरौति स्म शिवा वामैकशंसिनी । सोऽपि मूर्खाऽभ्यनन्दत्तजीव जीवेत्युदीरयन् । अदृश्या च जहासास्य श्रुत्वा शकुनदेवता । संप्राप्य श्वशुरं स्थानं तस्य च प्रविविक्षतः। वामः कपिञ्जलो वामा शिवाभूत्कथिताशिवा । भूयोऽपि चाभ्यनन्दत्स जीवजीवेत्युदीर्य तैन् । अचिन्तयच्च शकुनाधिष्ठात्री देवतापि सा । अहो मूर्वोऽयमशुभं शुभमित्यभिनन्दति । तत्कार्यं जीवयति यद्रक्ष्यो जीवोऽस्य तन्मया ॥ इत्यस्यां चिन्तयन्त्यां च देवताय विवेश सः । दत्तप्रहर्षः श्वशुरस्याग्निशर्मा निवेशनम् । आगतोऽसि किमेकाकीत्युक्तोऽत्र श्वशुरादिभिः। आयातोऽस्मि गृहेऽनुक्त्वा सर्वेषामिति सोऽब्रवी ततः कृतोचितनानभोजनस्य निशागमे । शय्यागृहेऽन्तिकं भार्या तस्योपागाप्रसाधिता ॥ पथिश्रमाच सुम्नस्य तस्य निर्गत्य सा बहिः। चौरस्योपपतेः शूळविद्धस्याष्यन्तिकं ययौ । आलिङ्गन्ती च तद्देहं दशनैश्छिन्ननासिका । भूतेन तत्प्रविष्टेन पलायत ततो भयात् । गत्वा च पत्युः सुप्तस्य तस्य न्यस्यासिधेनुकाम् । पार्श्व विकोषामक्रन्ददेवं श्रावितबान्धवा । हा हा मृता मृतास्म्येषा निष्कारणमनेन से । किमप्युत्थाय यत्नं कृतं नासानिकर्तनम् । तच्छुत्वा स्वजनस्तस्या एत्य तां छिन्ननासिकाम् । दृष्टा तमग्निशर्माणं लगुडावताडयत् । प्रातश्च विज्ञप्य नृपं तदादेशाद्वधाय तम् । निर्दोषभार्याद्रोहीति वधकेभ्यः समर्पयत् । नीते वध्यभुवं तस्मिन्सा तच्छकुनदेवता । तद्भार्यानैशवृत्तान्तदर्शनी समचिन्तयत् ॥ अनिमित्तफलं तावप्राप्तमेतेन यत्स्वयम् । उक्तवाजीव जीवेति तेन रक्ष्याम्यमुं वधात् ॥ इत्यालोच्यान्तरिक्षात्सा निगूढ़ा देवताभ्यधात् । निदष एष वधका न वध्यो विप्रपुत्रकः । शूलस्थचौरदन्तान्तर्गत्वा पश्यत नासिकाम् । इत्युक्त्वा तद्वधूरात्रिवृत्तान्तं तं जगाद सा ॥ ततस्तत्प्रत्ययारक्षतुमुखेन वधकैर्नूपः । विज्ञानो वीक्ष्य नासां तां चौरदन्तान्तरस्थिताम् । वधात्तमग्निशर्माणं निर्माच्य व्यसृजद्रुहम् । कुत्रीं तां च निजग्राह तद्वन्द्वंश्चाप्यदण्डयत् ।। एवंविधाः स्त्रियो राजन्नित्युक्ते तेन मन्त्रिणा । स राजा विक्रमादित्यस्तत्तथेत्यन्वमोदत ॥ ततोऽब्रवीन्मूलदेवो धूर्ता राजान्तिकस्थितः । देव साध्व्यो न सन्येव किमसाध्वीषु कासुचित् ।। किं न चूतलताः सन्ति सतीषु विषवलिषु । तथा च भूयतामेतदनुभूतं मयैव यत् । १ ब्रोकॉस्मुद्रितपुस्तकेऽस्मादनन्तरम् ‘अदृश्या च जहासास्य श्रुत्वा शकुनदेवता । ॥’ इति त्रुटितोत्तरार्धः श्लोकोऽधिकोऽस्ति
पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४९६
दिखावट