सामग्री पर जाएँ

पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८६ कथासरित्सागरः । [ आदितस्तरङ्गः १२३॥ ततस्तत्र स्थितं दिष्ठीवरवेधं विलेयमाम्। अयं तावद्वरः प्राप्त इति सर्वेऽब्रवीज्जनः २१७ ततो नीत्वैव मां वेदीमानीयात्रुकृतां सुताम् । गृहस्थोऽत्र स विप्रस्तां सत्रं प्रादाद्यथाविधि । २१८ दिष्ट्या तुल्यचरप्राप्तेरस्याः सुमनसोऽधुना। सौन्दर्यं सफलीभूतमित्यन्योन्यं स्त्रियोऽभ्यधुः । २१९ ततः कृतविवाहोऽत्र तया सुमनसा सह । महोपचारसुखितः प्रासादे सुप्तवानहम् ॥ २२० अथास्मिन्पश्चिमे यामे योगिन्यश्चक्रमेलकात् । आगत्य ताः स्वयुक्त्या सां हृत्वैवोपतन्नभः । २२१ यान्तीनां नभसा तासामन्याभिर्मजिहीर्षभिः । साकं प्रवृत्तयुद्धानामहं हस्तदिह च्युतः । २२२ न च तद्वेद्मि नगरं यत्र सा सुमना मया । परिणीता न जाने च किमिदानीं भविष्यति ।। २२३ इयेष विधिना दत्ता या मे दुःखपरम्परा । सा सुखान्तैव संपन्ना ममाद्य वरसमागमात् ॥ २२४ इत्युक्तवन्तं कंधे केसटतमुवाच खः । सा भैषीर्भञ्ज नेदानीं योगिन्यः प्रभवन्ति ते । २२५ अस्ति मे तादृशी शक्तिः काप्यप्रतिहता यसः । सहैव व' भ्रमिष्यावो विधिः श्रेयो विधास्यति ।। २२६ अन्योन्यं वदतोरेवं व्यतीयाय तयोर्निशा । प्रातस्ततः प्रयातः स्म तौ च तीर्णाम्बुधी उभौ ॥ २२७ क्रमाद्भीमपुरं नाम नगरं प्रापतुश्च तौ। सह केसटकंदपं रत्ननद्याः समीपगम् । २२८ तत्र तौ तन्नदीतीरे ध्रस्वा कलकलं तदा । गत्वा ददृशतुर्मरस्यमापूरिततटद्वयम् २२९ समुद्रवेलया क्षिप्तं बद्धं कायमहत्तथा। सांसार्थिभिः पाट्यमानं नानाशमकरैर्जनैः । २३० पाट्यमानस्य निरगदुदात्तस्य चाङ्गना । साश्चर्यजनदृष्टा च सा भीताशिश्रियतटम् । २३१ ततस्तां वीक्ष्य कंप हृष्टोऽभाषत केसटम् । वयस्य सेयं सुमना यासही परिणीतवान् । २३२ न जाने पुनरेतस्या वाखो सत्योद्रे कथम्। तन्तूष्णीभिह तिष्ठावो याबब्यक्तिर्भविष्यति ॥ २३३ तथेति केसटेनोक्ते तत्रावस्थितयोस्तयोः । का त्वं किमेतदिति सा पृष्टाभूवसुमना जनैः । २३४ ततः कृच्छेण सावादीदहं रत्नाकरे पुरे । जयदत्ताभिधानस्य विप्रचूडामणेः सुता । २३५ सुमना इति नाम्नास्मि साहं भयेन केनचित् । परिणीतानुरूपेण निशि ब्राह्मणस्सूनुना । २३६ तद्रात्रावेव सुप्ताया गतः कापि स मे पतिः । यत्नान्बिष्टोऽपि मत्पित्रा न च प्राप्तः कुतोऽपि सः ॥ २३७ ततोऽस्मि पतिता नद्यां तद्वियोगाग्निशान्तये । निगीर्णानेन मत्स्येन संप्राप्तेह विधेर्वशात् ॥ २३८ इति तां वादिनीमेव निर्गत्य जनमध्यतः। आश्लिष्य यज्ञस्वामीति विप्र एकोऽब्रवीदिदम्। । २३९ एहि पुत्रि भवती भगिनीदुहिता मम । यज्ञस्वामीति हि प्राण सोदर्यो मातुरस्मि ते ।। २४० तच्छुत्वा मुखमुद्धाट्य सुमनास्तमवेक्ष्य सा । मातुलं प्रयभिज्ञाय साना जनाह पादयोः । २४१ क्षणं त्यक्त्वाशु चवीतं तु काष्ठानि देहि मे । आर्यपुत्रवियुक्तया अनेग्न्या न से गतिः । २४२ बोध्यमानापि सा तस्मान्निश्चयान्न चचाल यत् । तत्परीक्षिततच्चिसः कंषंस्तामुपाययैौ । २४३ तमुपागतमालोक्य प्रत्यभिज्ञाय धीमती । सुमनाः पादयोस्तस्य पतित्वा प्ररुरोद सा । २४४ जनेन पृच्छयमाना च तेन सा मातुलेन च । अयं स मम भर्तेति निजगाद मनस्विनी । २४५ हृष्टेषु यज्ञस्वामी निनाय ताम् । स्वगृहं तत्पतिं तं च कं केसटान्वितम् ।। २४६ तत्र तान्वर्णतस्वस्ववृत्तान्तान्खकुङश्यकः । उपचारेण महता प्रीत्या परिचचार सः । गतेष्वहःसु कं” केसटोऽत्र जगद् तम् । अभीष्टभयप्राश्या त्वं प्राप्तस्तावत्कृतार्थताम् । २४८ तत्सभार्योऽधुना गच्छ निजं रत्नपुरं पुरम् । अकृतार्थो गमिष्यामि न स्वदेशमहं पुनः । २४९ तीर्थान्येव भ्रमन्देहं क्षपयिष्याम्यमुं सखे । तच्छुत्वा केसटं यज्ञस्वासी त ऽवदत् २५० किमुद्वेगाद्वदस्येवं सर्वं जीवद्भिराप्यते । कुसुमायुधवृत्तान्तं तथा च शृणु वच्मि ते !। २५१ देवस्वमीत्यभूचण्डपुराख्ये नगरे द्विजः । तस्यातिरूपा कन्याभून्नाम्ना कमललोचना । २५२ शिष्यश्च विप्रपुत्रोऽभून्नान्नास्य कुसुमायुधः। स शिष्यः सा च तत्कन्या प्रीतावास्तां परस्परम्॥ २५३ एकदा निश्चिता दातुं पित्रान्यस्मै वराय सा । कन्या सखीमुखेनाशु तं स्माह कुसुमायुध्रम् । २५१ तातो मां दातुमन्यस्मै प्रतिपन्नो भवांश्च से । पूर्वसंकल्पितो भर्ता लङ्क्या हरु मासितः । २५५ २४७