पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५८० कथासरित्सागरः । [ आदितस्तरङ्गः जय निजतेजःसाधितभूतगण म्लेच्छविपिनद्वने। जय देव सप्तसागरसीममहीमानिनीनाथ । जय विजितसकलपार्थिवविनतशिरोधरितातिगुर्वाज्ञा । जय विषमशील विक्रमवारिनिधे विक्रमादित्य । इत्युक्ते बन्दिना तं स विक्रमादित्यसागतम् । बुद्धा मलयासिंहोऽत्र राजा जग्राह पादयोः । विवेश च कृतातिथ्यस्तेन साकं स्वमन्दिरम् । तया मलयवत्या च दुहित्रा मृत्युमुक्तया । ददौ च तां सुतां तस्मै विक्रमादित्यधृते । स राजा तेन जामात्रा मन्वानः कृतकृयताम् ॥ यथा चित्रे तथा स्वप्ने यथा स्वप्ने तथैव ताम् । विलोक्य साक्षान्मलयवतीमङ्कगतां प्रियाम् । स चापि विक्रमादित्यस्तदद्भुतममन्यत । फळे शैलसुताकान्तप्रसदसुरशाखिनः । अथ तामादाय बधं निधृतिमिव रूपिणीं स मलयवतीम् । उत्तीर्य वारिराशिं खोस्कळिकं सुचिरबिरहमिव ।। तत्तत्प्राभृतहस्तैः प्रणम्यमानः पदे पदे भूपैः । निजनगरीमुज्जयिनीं प्रत्यागाद्विमादित्यः । प्रभावमालोक्य च तत्र तस्य तं यथेच्छसत्यीकृतचित्रकौतुकम् । विसिस्मिये को न जहर्ष को न वा चकार को वा न महोत्सवं जनः । इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे विषमशीललम्बके तृतीयस्तरङ्गः । चतुर्थस्तरङ्गः । ततोऽस्य विक्रमादित्यस्यैकदात्र कथान्तरे । राज्ञे कलिङ्गसेनाख्या सपत्नीरेयमब्रवीत् । राज्ञा मलयवत्यर्थे यकृतं न तदद्भुतम् । सदा विषमशीलो हि देवोऽयं प्रथितो भुवि । अहं न परिणीता किमवस्कन्द्यामुना बलात् । मङ्कपां पुत्रिकां वृद्धा गतेनानङ्गनिन्नताम् । एतन्निमित्तमाख्याता कथा कार्पटिफेन या। देवसेनेन मे तां व: कथयामि निशम्यताम् ।। परिणीतास्म्यविधिना कथं रातिदुःखिताम् । मामेत्याश्वासयन्नेवं स हि कार्पटिकोऽब्रवीत् । मा स्म मन्थं कृथा देवि श्रद्धया परया ह्यसि । परिणीतातिसंरम्भात्रामूलाकथां श्रुणु । हं. कार्पटिको भूत्वा सेवां कुर्वन्भवत्प्रभोः । अटव्यां दूरतोऽद्राक्षे महान्तं क्रोडमेकदा । दंष्ट्राविशङ्कटमुखं तमालश्यामलच्छविम् । कृष्णपक्षी शशिकलाः खदन्तमिव रूपिणम् ॥ एत्य चावेदितो देवि मया राशे तथैव सः । राजापि तद्रसाकृष्टो निरगान्मृगयाकृते । फुटवीं च संप्राप्य कुर्वन्व्याघ्रमृगक्षयम् । आवेदितं मया दूराद्वराहं पश्यति स्म तम् । दृष्ट्वाद्भुतं च तं मत्वा कंचित्कारणसूकरम् । रत्नाकराख्यमारोहश्वमुचैःश्रवःसुतम् । मध्याहूं हि सदा भानुर्मुहूर्ते व्योम्नि तिष्ठति । तत्कालं चारुणेनाश्वा मुच्यन्ते स्नानपानयोः ।। एकदीचैःश्रवा मुक्तस्तदा रविरथाद्वने । दृष्टामुपेत्य राज्ञोऽश्वां तं तुरंगमजीजनत् ।। तस्मिन्नारुह्य वातावे जवादन्वपतश्च तम् । वराहं विदुद्रुतं राजा भूमिं दूराद्दवीयसीम् ॥ तन्न दृष्टिपथात्सोऽस्य नष्टोऽभूत्काषि सूकरः। उचैःश्रवःसुताश्वात्तस्मादपि जवाधिकः । ततो राजा तमप्राप्य दूरोज्झितपरिच्छदः। एकमन्वागतं दृष्ट्वा मामेवं परिपृष्टवान् । अपि जानासि कियतीं वयं भूमिमुपागतः । तच्छुत्वा देवि राजानं प्रत्यवोचमहं तदा । योजनानां शतानि त्रीण्यागताः स्मः प्रभो इति । ततो राजाश्रवीत्तर्हि त्वं पयां कथमागतः । एवं सविस्मयेनाहं राज्ञा धृष्टस्तमब्रवम् । देवास्ति पादलेपो मे वृत्तान्तं चात्र तं श्रुणु । पूर्व भार्यावियोगेन तीर्थयात्राविनिर्गतः। पथि देवकुलं सायं सोद्यानं प्राप्तवानहम् तत्र चाहं निशां नेतुं प्रविष्टोऽपश्यमन्तरे । स्त्रियमेकामतिटं च तत्रातिथ्यादृतस्तया ।