सामग्री पर जाएँ

पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७२ कथासरित्सागरः । [ आदितस्तरङ्गः १ इत्युक्तास्तेन तास्तूष्णीं यत्तस्थुस्तदपातयत् । ठिण्ठाकरालः स पणं कृत्वा चित्रा वराटिकाः । अङ्गीकृतं पातनं स्यात्कितवेनानिषेधता । इति श्रुते हि सर्वत्र स्थितिर्दूतकृतां सदा ततो जित्वा बहु स्वर्ण देवतास्ता जगाद सः। जितं प्रयच्छत धनं मह्यमाभाषितं यथा ॥ इत्युच्यमानाः कितवेनासकृत्तेन ता यदा। देवता नालपन्किचित्तदा वक्ति स्म स क्रुधा यदि स्थिताः स्थ तूष्णीं तत्क्रियते कितवस्य यत् । अदत्तहारितार्थस्य शिलाभूतस्य तिष्ठतः यमदंष्ट्रप्रतीक्ष्णेन क्रकचेनाङ्गपाटनम् । तदहं वः करिष्यामि नापेक्षास्ति कापि मे इत्युक्त्वा याबदाय क्रकचं सोऽभिधावति । तावत्तस्मै ददुः स्वर्ण देवतास्ता यथाजितम् हारयित्वा च तत्प्रातर्नक्तमेत्य तथैव सः । आचकर्ष हठधृतेनार्थे मातृगणास्पुनः । एवं स कुरुते यावत्प्रत्यहं तावदेकदा । जगाद देवी चामुण्डा मातृस्ताः खिन्नमानसाः ।। इतोऽहं निर्गतो घृतादित्याहूतो ब्रवीति यः । स नाक्षेप्य इति ब्रूते शैीयं मातृदेवताः तस्मादाहूयमानं तं तदेवोक्त्वा निरस्यत । इति चामुण्डयोक्तास्ता देव्यश्चेतसि तद्वयथुः निशि प्राप्तं कृताङ्कनं कितवं तं च देवने । निर्गताः स्म इतो घृतादित्यूचुः सर्वदेवताः एवं निराकृतष्ठिण्ठकरालस्ताभिरेव सः तटप्रभं तं महाकालमेवाह्वयत देवितुम् सोऽपि लब्धावकाशं तं मत्वा हळदुरोदरे । निर्गतोऽहमितो घृतादिति देवः किलाब्रवीत् अक्षीणदोषाद्विषमादिष्टानिष्टभयोज्झितात् । दुर्जनाद्वत देवा अप्यशक्ता इव बिभ्यति ।। तथा दुरोदराचारभग्नकैतवयुक्तिना । तेन ठिण्ठाकराळेन खिन्नेनैवमचिन्त्यत अहो धृतस्थितिं दैवैः शिक्षित्वास्मि निराकृतः । तदेतमेव देवेशमिदानीं शरणं श्रये इत्याकलय्य हृदये परिगृथैव पादयोः। स्तुवंटिण्ठाकरालस्तं महाकाढं व्यजिज्ञपत् देव्या यूतजितेष्विन्दुद्युपकुञ्जरचर्मख । जानुन्यस्तकपोलं ते नौमि नम्झमासितम् यदिच्छामात्रतस्तास्ता विभूतीर्ददते सुराः । यो निरीहो जटाभस्मकपालैकपरिग्रहः स सलोभोऽद्य जातस्त्वं मन्दपुण्ये कथं मयि । यदल्पहेतोर्मामेवं हा वञ्चयितुमीहसे कल्पवृक्षोऽप्यधन्यानां नाशां पूरयति ध्रुवम् । यद्विभर्षि न मां नाथ भृतविश्वोऽपि भैरव तत्प्रपन्नस्य मे कष्टव्यसनाविष्टचेतसः । व्यतिक्रममपि स्थाणो भगवन्क्षन्तुमर्हसि यक्षस्त्वं तादृगेवाहं भस्माङ्गं ते ममापि तत् । त्वं कपाले यथा भुईं तथैवाहं दयस्व मे युष्माभिः सममालष्य कथं नु कितवैरहम् । सहाळलपिष्यामि पुनस्तन्मामापन्नमुद्धर इत्यादि तावदस्तौषीत्कितवस्तं स भैरवम् । यावत्स परितुष्यैवं देवः साक्षादुवाच तम् ठिण्ठाकराळ तुष्टोऽस्मि तव मा स्माधृतिं कृथाः अहं दास्यामि ते भोगानिहैवास्स्व ममान्तिके इति देवाज्ञया तत्र तस्थौ स कितवस्तदा । तत्प्रसादादुपनतां भुजानो भोगसंपदम् एकदा च महाकालतीर्थेऽत्र स्नातुमागताः। रात्रावप्सरसो दृष्ट्वा स देवो व्यादिदेश तम् आसां स्नातुं प्रवृत्तानां सर्वासां सुरयोषिताम् । तटन्यस्तानि वासांसि लघु हृत्वा त्वमानय यावदेता न दास्यन्ति तुभ्यमेतां कलावतीम् । अप्सरःकन्यकां तावदासां वस्त्राणि मा मुचः एवं स भैरवेणोक्तो गत्वामरमृगीदृशाम् । ठिण्ठाकरालः स्नान्तीनां तासां वस्त्राण्यपाहरत् मुञ्च मुञ्चाम्बराण्यस्मान्मा स्म कार्षीदिगम्बराः । इति ब्रुवाणाश्च स ता व्याजहार हरौजसा कन्यां कलावतीमेतां यदि मां प्रयच्छथ । तदहं वो विमोक्ष्यामि वासांस्येतानि नान्यथा तच्छुत्वा तं दुराधर्षे दृष्ट्वा स्मृत्वा च तादृशम् । शक्रशापं कलावत्यास्ताश्चैतत्प्रतिपेदिरे ददुः कलावतीं तां च तस्माद्युज्झितवाससे । ठिण्ठाकरालाय ततो विधिनालम्बुषासुताम् अथाप्सरःसु यातासु कलावत्या तया सह । तस्थौ ठिण्ठाकरालोऽसौ देवेच्छानिमितास्पदः कळावती च देवेन्द्रमुपस्थातुमगाद्दिवा । त्रिदिवं रजनौ तं च सदा पतिमुपाययौ त्वत्प्राप्तिहेतुना शक्रशापेन मम वल्लभ । वरायितमिति प्रीत्या कचिडूबती च सा