पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३८
[ आदितस्तरङ्गः १२ ।
कथासरित्सागरः।

सोऽहं दारियसंतप्तस्तत्र नारायणाग्रतः । निराहारः स्थितोऽकार्ष गत्वा देवकुलं तपः ॥ १२७

विभीषणान्तिकं गच्छ सद्भक्तः स हि ते धनम् । दास्यतीत्यादिशत्स्वप्ने ततो मां भगवान्हरिः ॥ १२८

काहं बिभीषणः केति मयोक्ते स पुनः प्रभुः । समादिशद्रजायैव तं द्रक्ष्यसि विभीषणम् ॥ १२९

इत्युक्तः प्रभुणा सद्यः प्रबुद्धोऽहमिहाम्बुधेः । परेऽवस्थितमास्मानमपश्यं वेद्मि नापरम् ॥ १३०

इत्युक्तो लोहदोन लक्झामालोक्य दुर्गमाम् । सत्यं दिव्यप्रभावोऽयमिति मेने विभीषणः ॥ १३१

तिष्ठ दास्यामि ते वित्तमित्युक्त्वा ब्राह्मणं च तम् । मत्वा च रक्षसां हस्ते तमप्रेष्यं नृघातिनाम् ॥ १३२

तत्रस्थात्स्वर्णमूलाख्याद्रेिः संप्रेष्य राक्षसन्। आनाययत्पक्षिपोतं गरुडान्वयसंभवम् ॥ १३३

तं चास्मै लोहजबलय मथुरायां गमिष्यते । तत्कालमेव प्रददौ वशीकाराय वाहनम् ॥ १३४

लोहजङ्गोऽपि लङ्कायां वाहयन्नधिरुह्य तम् । कंचित्कालं विशश्राम स विभीषणसत्कृतः ॥ १३५

एकदा तं च पप्रच्छ राक्षसेन्द्रं सकौतुकः। लङ्कायां काष्ठमय्येषा कथं सचैव भूरिति ॥ १३६

तच्छुत्वा स चं तवृत्तं तमुवाच विभीषणः । यदि ते कौतुकं ब्रह्मांस्तदिदं श्रुणु वच्मि ते ॥ १३७

पुरा प्रतिज्ञोपनतां नागानां दासभावतः। निष्क्रष्टुकामो जननीं गरुडः कश्यपात्मजः ॥ १३८

तन्मूल्यभूतां देवेभ्यः सुधामाहर्तुमुद्यतः । बलस्य हेतोर्भक्ष्यार्थी स्वपितुर्निकटं ययौ ॥ १३९

स चैनं याचितोऽवादीन्महान्तौ गजकच्छपौ । अव्धौ स्तः पुत्र तौ भुङ्क्ष्व गच्छ शापच्युताविति ॥ १४०

ततः स गरुडो गत्वा भक्ष्यावादाय तावुभौ । महतः कल्पवृक्षस्य शाखायां समुपाविशत् ॥ १४१

तां च शाखां भरात्सद्यो भग्नां चध्वा बभार सः। अधःस्थिततपोनिष्ठवालखिल्यानुरोधतः। १४२

लोकोपमर्दभीतेन तेनाथ पितुराज्ञया । आनीय विजने त्यक्ता सा शाखेह गरुत्मता ॥ १४३

तस्याः पृष्ठे कृता ळका तेन काष्ठमयीह भूः । एतद्विभीषणाच्छुत्वा लोहब्रस्तुतोष सः ॥ १४४

ततस्तस्मै महार्घाणि रत्नानि सुबहूनि च । विभीषणो ददाति स्म मथुरां गन्तुमिच्छते ॥ १४५

भक्त्या च देवस्य हरेर्मथुरावर्तिनः कृते । हस्तेऽस्याब्जगदाशङ्कचक्रान्हेममयान्ददौ॥ १४६

ततृहीत्वाखिलं तस्मिन्विभीषणसमर्पिते । आरुह्य विहगे लक्ष योजनानां प्रयातरि ॥ १४७

उत्पत्य व्योममार्गेण लङ्कायास्तीर्णवारिधि । स लोहजद्वले मथुरामक्लेशेनाजगाम ताम् ॥ १४८

तस्यां शून्ये विहारे च बाहू व्योम्नोऽवतीर्य सः । स्थापयामास रत्नौघं तं बबन्ध च पक्षिणम् ॥ १४९

आपणे रत्नमेकं च गत्वा विक्रीतवांस्ततः । अथ वस्त्राङ्गरागादि क्रीतवान्भोजनं तथा ॥ १५०

तद्धिहारे च तत्रैव भुक्त्वा दत्त्वा च पक्षिणे । वस्राङ्गरागपुष्पाचैरात्मानं तैरभूषयत् ॥ १५१

प्रदोषे चाययौ तस्यास्तत्रैवारुह्य पक्षिणि । गृहं रूपणिकायास्ताः शङ्कचक्रगदा बहन् ॥ १५२

तत्रोपरि ततः स्थित्वा स्थानवित्खे चरंश्च सः। शब्दं चकार गम्भीरं रहःस्थां श्रावयन्प्रियाम् ॥ १५३

तं च श्रुत्वैव निर्याता सापश्यद्रनराजितम् । एनं नारायणाकल्पं व्योम्नि रूपणिका निशि ॥ १५४

अहं हरिरिहयातस्त्वदर्थमिति तेन सा। उक्ता प्रणम्य वक्ति स्म यां देवः करोत्विति ॥ १५५

अथावतीर्य संयम्य लोहजचे विहंगमम् । विवेश वासभवनं स तया कान्तया सह ॥ १५६

तत्र संप्राप्तसंभोगः स निष्क्रम्य क्षणान्तरे । तथैव विहगारूढो जगाम नभसा ततः ॥ १५७

देवता विष्णुभार्याहं मयैः सह न सत्रये । इति रूपणिका प्रातस्तस्थौ मौनं विधाय सा ॥ १५८

कस्मादेवंविधं पुत्रि वर्तसे कथ्यतां त्वया । इत्यपृच्छत सा मात्रा ततो मकरदंष्ट्रया ॥ १५९

निर्बन्धपृष्टा तस्यै च सा मात्रे मौनकारणम् । शशंस रात्रिवृत्तान्तं दापयित्वान्तरे पटम् ॥ १६०

सा तच्छुत्वा ससंदेहा स्वयं तं कुट्टनी निशि । शं विहगारूढं लोहजवं ततः क्षणम् ॥ १६१

प्रभाते च पदान्तःस्थामेत्य रूपणिकां रहः। प्रह्मा मकरवंष्ट्रा सा कुट्टनीति व्यजिज्ञपत् ॥ १६२

देवस्यानुग्रहात्पुत्रि त्वं देवत्वमिहागता । अहं च तेऽत्र जननी तन्मे देहि सुताफलमू ॥ १६३

वृद्धानेनैव देहेन यथा स्वर्ग प्रजाम्यहम् । तथा देवस्य विज्ञानिं कुरुष्वानुगृहाण माम् ॥ १६४

तथेति सा रूपणिका तमेवार्थं व्यजिज्ञपत् । व्याजविष्णु पुनर्नक्तं लोहजङ्गमुपागतम् ॥ १६५