पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीः ॥


महाकविश्रीसोमदेवभट्टविरचितः


कथासरित्सागरः।


*****


सुरतमञ्जरी नाम षोडशो लम्यकः।


*****


इदं गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलना


पुरा किल कथामृतं हरमुखाम्बुधेरुन्नतम् ।


प्रसव रसयन्ति ये विगतचिन्नलब्धर्डयो


धुरं दधति वैखुधीं भुवि भवप्रसादेन ते ।


*****


प्रथमस्तरङ्गः ।


पातु वस्ताण्डवोद्दीनगण्डसिन्दूरमण्डनः। वान्ताभिपीतप्रत्यूहप्रताप इव विन्नजित् ॥
एवं तस्मिन्नृषभके पर्वते तस्य तिष्ठतः । नरवाहनदत्तस्य सभार्यस्य समत्रिणः ॥
प्राप्य विद्याधराधीशचक्रवर्तिश्रियं पराम् । भुञ्जानस्याययौ पुष्णन्मुखानि मधुरेकदा ॥
प्रससाद चिराचारु चन्द्रिका मृगलक्ष्मणः । नवीनशाद्वलालिष्टा सस्वेदाभूद्वसुंधरा ॥
आसन्नालिङ्गयमानाश्च मुहुर्मलयमारुतैः। कम्पाकुलाः कण्टकिताः सरसा वनराजयः॥
पुष्पचापप्रतीहारभृतयष्टिं विलोकयन् । कणन्मानवतीमानं निषिषेधेव कोकिलः ॥
निष्पेतुः पुष्पवल्लीभ्यः सशब्दा भृङ्गराजयः । मारवीरधनुर्मुक्ता इव नाराचपञ्जयः॥
एवं मधुप्रवृत्तिं तां तदा वीक्ष्य व्यजिज्ञपन् । नरवाहनदत्तं तं सचिवा गोमुखादयः ॥
देव पश्यान्य एवायं जातः पुष्पमयोऽधुना । त्रषभाद्रिर्मधूत्फुल्लकाननालीनिरन्तरः ॥
अन्योन्यघट्टितैः पुष्पैः कांस्यतालवतीरिव । संगीता इव भृङ्गीनां विरुतैर्वातवेपिताः ॥
वसन्तसजिलोद्यानमन्मथास्थानगामिनीः। विलोकय लता राजन्परागपटमालिनीः ॥
अलिमालालथज्येयं दृश्यतां चूतमञ्जरी । विश्रान्तस्य जगज्जित्वा कामस्येव धनुर्लता ॥
तदत्र रुचिरोद्याने देव मन्दाकिनीतटे । मथुत्सवमिमं तावदेहि गत्वोपभुज्महे ॥
इत्युक्तः सचिवैः सोऽथ सावरोधवधूजनः । नरवाहनदत्तस्तद्ययौ मन्दाकिनीतटम् ॥
तत्र चिक्रीड चोद्याने नानाविहगनादिते । एलालवङ्गबकुलाशोकमन्दारमण्डिते ॥
उपविष्टा विपुले चन्द्रकान्तशिलातले । पार्श्व कृस्वा महादेवीं वामे मदनमञ्चकाम् ॥
अन्याचरोधसहितस्तैस्तैर्विद्याधरेश्वरैः। चण्डसिंहामितगतिप्रमुखैः परिवारितः॥
आपानं सेवमानोऽत्र तास्ताः कुर्वन्कथास्तथा । विचार्य तमृतें सम्राट् सचिवान्स्वानुवाच सः ॥
सुखस्पर्धा मृदुर्वातो दक्षिणो विमला दिशः । पुडिपतानेि सुगन्धीनि काननानि पदे पदे ॥
मधुराः कोकिलालापाः पानलीलासुखानि च । सुखं किं न मधौ प्रेयोवियोगस्त्वत्र दुःसहः ॥
अन्यस्यास्तां तिरश्वामप्यत्र कष्टा वियोगिता । तथा च विरहछान्तामेतां पश्यत कोकिलाम् ॥
एषा हि नष्टमन्विष्य कूजन्ती सुचिरं प्रियम् । अप्राप्य तं स्थिता चूते मृतेखालीय निःस्वना ॥
इत्युक्तवन्तं सम्राजं मी तं गोमुखोऽब्रवीत् । सत्यं कालेऽत्र विरहो दुःसहः सर्वदेहिनाम् ॥
तथाहि देव आवस्यां यदृत्तं वच्मि तच्छुणु । तत्रैको राजपुत्रोऽभूद्वामनुग्राजंसेवकः ॥
शूरसेनाभिधानस्य तस्य मालवदेशजा । अनुरूपा सुषेणेति भार्याभूज्जीविताधिका ॥