पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५१८
[ आदितस्तरङ्ग
कथासरित्सागरः ।

ततः स मुनिराह स्म तं प्रीत्या चक्रवर्तिनम् । पुत्र सिद्धमहाचक्रवार्तरनो व्रजाधुना ॥
जय मन्दरदेवं तं कैलासोत्तरपार्श्वगम् । भुङ्क्ष्व चोभयतत्पार्श्वसाम्राज्यश्रियमूर्जिताम् ॥
इत्युक्तस्तेन मुनिना सिद्धकार्यः प्रणम्य तम् । चक्रवर्ती ततो व्योम्ना स ययौ साधुतप्रभः ॥
प्राप गोविन्दकूटस्थं तच्च स्वशिबिरं क्षणात् । महाप्रभावया श्वश्रेष्ठ धनवत्याभिरक्षितम् ॥
तत्र मार्गान्मुखैर्दष्टं निजैर्विद्याधराधिपैः। भार्याभिः सचिवैश्चैव प्रहृयैः सोऽभ्यनन्द्यत ॥
अथोपविष्टः पृच्छद्रयो वामदेवर्षिदर्शनम् । गुहाप्रवेशं रत्नानां सिद्धिं चैभ्यः शशंस सः ॥
सतस्तत्र हतानन्ददिव्ययं महोत्सवः । नृत्यद्विद्याधरीकोऽभूत्पानमत्तजनस्तथा ॥
अन्येद्युश्च रिपुस्थानस्थितासौम्यग्रहेण सः। आक्रान्तकण्टकस्थानसौम्येनात्मसमद्धिना ॥
सर्वान्यसंपद्युक्तेन जनेन कृतमङ्गलः। आरुह्य शर्वदत्तं तद्विमानं ब्रह्मनिर्मितम् ॥
जेतुं मन्दरदेवं तं ससैन्योऽन्तःपुरान्वितः । नरवाहनदत्तोऽत्र प्रतस्थे नभसा ततः ॥
चेलुश्चानुचरास्ते ते प्रवीराः परिवार्य तम् । भक्ता भीताश्च गन्धर्वराजविद्याधराधिपाः॥
सेनापतेर्हरिशिखस्यादेशानुविधायिनः । चण्डसिंहः समं मात्रा धनवत्या सुमेधसा ॥
वीरः पिङ्गलगान्धारस्तथा वायुपथो बली । विद्युत्पुजोऽमितगतिः कालकूटपतिश्च सः॥
मन्दरः समहादंष्ट्रः स्वसखा चामृतप्रभः । समं सागरदत्तेन वीरश्चित्राङ्गदोऽपि सः ॥
एते चान्ये च येऽत्रासगौरिमुण्डय्यपाश्रिताः । समप्रास्तेऽन्वधावंस्तं विजिगीषं बलान्विताः ॥
तदा तत्सेनया छन्ने गगने कापि भास्करः । ममज्ज लज्जयेवात्र तत्तेजोनिङ्गतप्रभः ॥
अथ मानसमुल्लङ्घय देवर्षित्रातसेवितम् । अतीत्य गण्डशैलं च लीयोद्यानं युयोषिताम् ॥
स चक्रवर्ती संप्राप स्फटिकापाण्डुरत्विषः । मूलं निजयशोराशेरिव कैलासभूभृतः ॥
तत्र मन्दाकिनीतीरे निषण्णं निजगाद तम् । विद्याधराधिपो धीमान्मन्दरो बन्धुरं वचः ॥
इहैव तावद्देवाद्य स्थीयतां शुनदीतटे । न युक्तमिममुल्लङय कैलासं गन्तुमग्रतः ॥
इरास्पदस्य तस्य विद्या नश्यन्ति लङ्घनात् । त्रिशीर्षगुइया तस्य गन्तव्यं पार्श्वमुत्तरम् ॥
देवमायाभिधानेन सा च राज्ञाभिरक्ष्यते । स चातिदृप्तस्तस्मात्तमजित्वा गम्यते कथम् ॥
मन्दरेणैवमुदिते धनवत्यानुमोदिते । नरवाहनदत्तस्तं तत्रैवासीत्स वासरम् ॥
तत्रस्थो देवमायाय दूतं साम्ना व्यसर्जयत् । स च सान्त्वेन नैवास्य शासनं प्रत्यपद्यत ॥
ततोऽपरेद्युः संनद्धेस्तैस्तैः स्वै राजभिः सह । स चक्रवर्ती तं प्रायाद्देवमायं प्रति प्रभुः ॥
देवमायोऽपि तद्वड् ससैन्यो योळुमाययौ। वराहवजमुष्यादिभूरिराजान्वितोऽग्रतः ॥
ततः प्रववृते तत्र सङ्कामः सेनयोस्तयोः। कैलासे सुरसंघातविमानाच्छादिताम्बरः ॥
छिन्नभूरिशिरःश्रेणिकरकावर्षभीषणः। सवीरगर्जतः सोऽभूद्धोरो रणधैनागमः ॥
देवमायस्य सेनान्यमनयोधं जघान यत् । वराहं चण्डसिंहोऽत्र न नामाभूत्तदाद्भुतम् ॥
चित्रं तु यत्स्वयं बद्धो देवमायोऽप्यमायिना । नरवाहनदत्तेन प्रहारैर्मुछितो रणे ॥
बद्धे च तमिस्तत्सैन्यमभज्यत महारथैः। वजमुष्टिमहाबाहुतीक्ष्णदंष्ट्रादिभिः सह ॥
ततः सुरैर्विमानस्थैः साधु साध्वियुदीरिते । सर्वेऽप्यभिननन्दुस्तं जयिनं चक्रवर्तिनम् ॥
अथ तं संयतानीतं समाश्वास्य महाप्रभुः । प्रसादेनानुजग्राह देवमायं मुमोच च ॥
सोऽपि बाहुजितस्तस्य शासनं चक्रवर्तिनः। बभ्रमुध्यादिभिः सखी प्रणतः प्रत्यपद्यत ॥
ततो निवृत्ते सङ्ग्रामे तस्मिन्व्यपगतेऽहनि । प्रातरास्थानमायातः पार्श्वस्थश्चक्रवर्तिनः ॥
तं त्रिशीर्षगुहान्नायं तेन पृष्टो विविक्षुणा । देवमायो यथातत्वमेवं कथयति स्म सः ॥
कैलासस्य पुरा देव विद्याधरवराश्रिते । अभूतां भिन्नसाम्राज्ये हे पार्श्व दक्षिणोत्तरे ॥
त्रपुषभाख्योऽथ देवेन तपस्तुष्टेन शंभुना । चक्रवर्ती प्रदिष्टोऽभूदेक एव तयोर्द्धयोः ॥
स गन्तुमुत्तरं पार्श्व कैलासं जातु लयन् । अधःस्थितद्रक्रोधाद्धष्टविद्योऽपतद्दिवः ॥