पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४८८
[ आदितस्तरङ्ग
कथासरित्सागरः

राजास्थाने श्रुते तस्मिन्संदेशे राजसूनुना। तत्पिता तस्य दूतस्य स राजैवोत्तरं ददौ ॥
कर्मसेननृपात्कोऽन्यो वक्त्येतत्तस्य सन्मतेः । स्नेहोऽस्ति काममस्मासु तदेनं प्रेषयत्वितः ॥
सुषेणं स निजं पुत्रं करिष्यामस्तथा वयम् । यथा संतोषकृत्तस्य सुतोद्वाहो भविष्यति ॥
इत्युक्त्वा प्रतिसंदेशं दूतं तं प्रेष्य सत्कृतम् । राजा सभृतधिं पुत्रं नृपतींश्च जगाद सः॥
अयोध्यामधुना यामो विवाहस्तत्र शोभते । सुषेणस्य च सत्कारो यथावत्तत्र सिद्धयति ॥
राजा मायाबदुश्चेह सुषेणं संप्रतीक्षताम् । तेनागतेन सहितोऽयोध्यां पश्चादुपैष्यति ॥
वयं विवाहसंभारहेतोर्यामोऽग्रतः पुनः। इति राजवचस्तत्र ते सर्वेऽप्यनुमेनिरे ॥
ततोऽन्येद्युः समं देव्या सैन्यैश्च स महीपतिः । मृगाङ्कदत्तश्च युतौ राजभिः सचिवैश्च तैः ॥
मायाबडं निधायात्र सुषेणागमनावधि । शशाङ्कवत्या सहितौ चेलतुः कृतिनौ ततः ॥
वासुरंगसंघाततरङ्गशतसंकुलः। असंख्यसर्पत्पादातंपाथःपूरितदिङ्मुखः ॥
तुमुलप्रोल्लसच्छब्दपिहितान्यरवश्रवः । चचाळ स बलाम्भोधिस्तयोर्गम्भीरभीषणः ॥
कुर्वाणौ च रजश्छन्नां बसुधाविभ्रमां दिवम् । गर्जद्भजघनाकीर्णा वसुधां च धूविभ्रमाम् ॥
मार्गे क्रमेण गच्छन्तौ शक्तिरक्षितकस्य तौ। गृहं किरातराजस्य पितापुत्राववापतुः ॥
तत्र तेन महारत्नहेमसद्वनराशिभिः । सदारेण कृतोदरसपय सपरिग्रहौ ॥
दिनमेकं कृताहारौ विश्रम्य सबलौ ततः । प्रस्थाय च स्वनगरीमयोध्यां प्रापतुः क्रमात् ॥
हर्यवातायनारूढचञ्चपौराङ्गनाननैः । कान्तिपवितैः फुल्लविलोलकमलामिव ॥
सवधूकचिरायातराजपुत्रेक्षणोत्सुकैः । नेत्रैः पारिप्लवैश्वासां चलकुवलयैरिव ॥
संपतद्भिर्युतां राजहंसैर्विविशतुश्च ताम् । तरङ्गितां पताकाभिः प्रवाते सरसीमिव ॥
तत्राभ्यनन्दन्पौरास्त दीयमानाशिषौ द्विजैः । बन्दिभिः स्तूयमानौ च गीयमानौ च चारणैः ॥
कर्मसेनस्य तनयामिमामालोकयेद्यदि । न पुनः सुतया लक्ष्म्या दर्प कुर्यान्महोदधिः ॥
न च गौर्यापि हिमवानिस्यत्र च जगौ जनः । शशाङ्कवत्या लावण्यसंपदं वीक्ष्य विस्मितः ॥
तदा च मङ्गलमहातूर्यप्रतिरवैर्दिशः। उत्सवाधिगमे राज्ञां संवेदनमिव व्यधुः ॥
बहिः सृतेनेव भरादनुरागेण निर्भरा । सिन्दूरेण प्रनृत्ता सा सर्वोभूत्सोत्सबा पुरी ॥
अन्येद्युर्गणकैः सूनोर्लप्ताहे निश्चिते नृपः। चकारामरदत्तोऽत्र तद्विवाहय संभृतिम् ॥
अपूरि तस्य नगरी तैस्तैर्नानादिगागतैः। रत्नैस्तथा यथा चक्रे सा कुबेरपुरीमधः ॥
अथागत्यचिरादेको हृष्टद्वाःस्थानिवेदितः । दूतो मायाबटोरत्र नृपतिं तं व्यजिज्ञपत् ॥
देवागतो राजपुत्रः सुषेणो नृपतिश्च सः । मायाबदुरयोध्यायाः सीमान्तेऽस्याः स्थितावुभौ ॥
श्रुत्वैवामरदत्तस्तद्राजा सैन्यैः समं निजम् । सेनापतिं सुषेणस्य तस्याने विससर्ज सः ॥
तेन साकमयोध्यातो राजपुत्रमुपगतम् । मृगाङ्कदत्तः ससुहृत्प्रीत्या प्रत्युद्ययौ ततः॥
दूराद्वाहाबतीणं च कृतकण्ठग्रहौ मिथः । तावुभौ पृष्टकुशलौ मिलतः स्म नृपात्मजौ ॥
प्रेम्णा चैकरथारूढौ नगरीं विशतः स्म ताम् । दिशन्तौ पौरनारीणां विलोचनमहोत्सवम् ॥
सुषेणश्चात्र राजानं दृष्ट्वा तद्रङमानितः । शशाङ्कवत्यास्तदनु स्वसुवासगृहं ययौ ॥
तत्रोत्थाय कृताश्लेषस्तया बाष्पायमाणया । उपविश्य स सनीडां राजपुत्रीं जगाद ताम् ॥
तातस्त्वामाह नायुक्तं पुत्रि किंचित्वया कृतम् । अत्रैतद्धि मया ज्ञातं यत्स्वप्नेऽम्बिकया तव ॥
मृगाङ्कत्तो भर्तासौ समादिष्टो नृपात्मजः । भर्तृमार्गानुसरणं स्त्रीणां च परमं व्रतम् ॥
इत्युक्ता तेन सा बाळा हृदयं स्वमधोमुखी । सिद्धमिष्टं तवेत्येवं पश्यन्ती विजहौ त्रपाम् ॥
अथ तस्यै सुषेणोऽसौ नीत्वा राजाग्रतो ददौ । धनं शशाङ्कवत्यै तद्यत्तस्या निजसंचितम् ॥
हेस्रो भारसहने हे रत्नाभरणभारकम् । सुश्रुतान्पञ्च करभान्भाण्डं चान्यद्धिरण्मयम् ॥



१ अयं श्लोको बोकॉस्मुद्रित पुस्तके त्रुटितोऽस्ति,