पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४८६
[ आदितस्तरङ्ग
कथासरित्सागरः ।

एवं मृगाङ्कवतेन सा शशाङ्कवती तद । उक्ता जगाद वसुधाविन्यस्तनयना शनैः ॥
अयं तावदुणक्रीतो जनः स्वाधीन एव ते । तदार्यपुत्र कुशलं यद्वैषि कुरुध्य तत् ॥
इति वाक्सुधया तस्याः कृती निर्वापितोऽथ सः । मृगाङ्कदत्तो देवीं तां गौरीं स्तुत्वा प्रणम्य च ॥
आरोप्य राजपुत्रीं च तां तुरंगे स्वपृष्ठतः । तत्सखीभिः समारूढ पश्चाद्भागाश्वपृष्ठगैः ॥
दशभिः सहितो वीरैः सचिवैः शस्त्रपाणिभिः । उच्चचाळ ततो रात्रौ राजपुत्रो धृतायुधः ॥
ते चैकादश दृष्टापि तत्र रोटुं न शेकिरे । नगरीरक्षिभिः क्रुद्धा रुद्रा इव दुरासदाः ॥
विनिर्गत्योजयिन्याश्च जग्मुर्मायाबटोटेंहम् । सशशाङ्कवतीकास्ते यथा श्रुतधिनोदितम् ॥
क एते क प्रयाताश्चेत्युद्धान्तेष्वत्र रक्षिषु। सा चोज्जयिन्यां बुबुधे क्रमाद्राजसुता हृता ॥
तच्चाख्यातुं महादेवी कर्मसेनाय भूभृते । सत्वरं नगराध्यक्षे प्राहिणोत्कटकं प्रति ॥
अत्रान्तरे च कटके तत्र रात्रावुपेत्य तम् । चाराधिकारी राजानं कर्मसेनं व्यजिज्ञपत् ॥
देव प्रदोष एवाद्य गुप्तं निर्गत्य सैन्यतः । मृगाङ्गदत्तः सामात्यो हयैरुज्जयिनीं गतः ॥
तां शशाङ्कवतीं हतुं गैौर्यायतनवर्तिनीनीम् । इति सम्यङ् मया ज्ञातं प्रभुर्जानात्यतः परम् ॥
इत्याकर्यं समाहूय कर्मसेनः स भूपतिः । रहः स्वसेनापतये यथाश्रुतमवर्णयत् ॥
जगाद च वराश्वनां सहितः पञ्चभिः शतैः। शूराधिरूढेः प्रच्छन्नं दूतमुज्जयिनीं व्रज ॥
मृगाङ्कत्तं जहि तं पापं प्राप्य बधान वा । विद्धि मामागतं पश्चात्पृष्ठस्थापितसैनिकम् ॥
इत्युक्तस्तेन राज्ञा स यथादिष्टबलान्वितः । प्रायात्सेनापती रात्रौ तथेत्युजयिनीं प्रति ॥
मार्गे तन्नगराध्यक्षान्मिलितादथ्णोच्च सः । राजपुत्रीं हृतां वीरैः यथान्येनैव कैश्चन ॥
ततः सनगराध्यक्षः प्रत्यागत्य तथैव तत् । कर्मसेनं स राजानं यथावृत्तमबोधयत् ॥
स तद्वद्वा विचिन्त्यैव तदशक्यं ततो नृपः। अवस्कन्दनिवृत्तस्तां तूष्णीमेवानयन्निशाम् ॥
मृगाङ्कदत्तसैन्येऽपि मायबटुमुखा नृपाः । निन्युस्तथैव तां रात्रिं संनद्धाः श्रुतधेर्गिरा ॥
प्रातश्चान्विष्टवृत्तान्तः कर्मसेननृपः सुधीः । मृगाङ्कदत्तकटके राज्ञां दूतं विसृष्टवान् ॥
मृगाङ्कदत्तेन हृता सुता तावच्छलेन मे । तदस्तु कोऽपरो ह्यस्यास्तादृशः सदृशः पतिः ॥
तदिदानीं स युष्माभिः सममायातु मद्वद्दम् । करोमि यावदुद्धाहं तनयाया यथाविधि ॥
एवं स संदिदेशास्य मुखे दूतस्य भूपतिः । तच्च ते सघृतधयो राजानः श्रद्दधुस्तदा ॥
ऊचुश्च दूतं स्वपुरीं तर्हि यात्वेष वः प्रभुः । यावत्तमानयामोऽत्र गत्वा राजसुतं वयम् ॥
तच्छुत्वैव तथा तेन गत्वा दूतेन वर्णिते । स कर्मसनेः सबलस्तथेत्युज्जयिनीमगात् ॥
तद्वंश्च तेऽपि राजानो मायाबदुपुरःसराः। सृगाकदत्तं प्रति तं चेलुः श्रुतधिना सह ॥
तावन्मृगाङ्कदत्तोऽपि स शशाङ्कवतीयुतः । मायाबटुगृहं प्राप तत्काञ्चनपुरं पुरम् ॥
तत्र सोऽन्तःपुरैस्तस्य यथार्हकृतसत्क्रियः । सवयस्यो विशश्राम सिद्धकार्यः प्रियासखः ॥
अन्येद्युः सश्रुतधयो नृपास्तेऽत्र समाययुः । स किरातपतिर्वीरः ससैन्यः शक्तिरक्षितः ॥
शबराधिपतिः सोऽपि राजा मायाबटुर्बी । शूरो दुर्गपिशाचश्च स मातङ्गचमूपतिः ॥
सर्वे शशाङ्कवत्या ते युक्तं रात्र्येव कैरवम् । मृगाङ्कदत्तं दृष्ट्वा तमभ्यनन्दन्छुतोत्सवाः ॥
यथार्हकृतमानाय तस्मै तं च न्यवेदयन् । संदेशं कर्मसेनीयं प्रवेशं च निजे गृहे ॥
संनिवेश्याथ कटकं चन्नगरसंनिभम् । मृगाङ्कदत्तो मत्राय समं सवैरुपाविशत् ॥
विवाहयोज्जयिन्यां किं गन्तव्यमुत नो मया । उच्यतामिति पप्रच्छ नृपतीन्सचिवांश्च सः ॥
दुष्टः स राजा तद्देहगमने कुशठं कुतः । कार्यं च तत्र नास्येव प्रतैव हि तदात्मजा ॥
इत्यैकमत्येन नृषाः सचिवाश्चाब्रुवन्यदा । तदा मृगाङ्कत्तस्तमपृच्छच्छुतधिं द्विजम् ॥
उदासीन इव प्रीस्तूष्णीमेवं स्थितोऽसि किम् । किमेतदेवाभिमतं तवाप्युत न वा वद ॥
ततः श्रुतधिराह स्म यदि श्रोष्यसि वलिम तत् । गन्तव्यं कर्मसेनस्य गृहे ष्विति मतिर्मम ॥