सामग्री पर जाएँ

पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४६६
[ आदितस्तरः
कथासरित्सागरः ।

आचकर्ष च हृत्पद्ममुद्रादस्य पाटितम् । वेताळाय च तस्मै तच्छिरोहृत्कम्ठं ददौ ॥
साधुवादे ततो दत्ते प्रतैर्भूतगणैस्ततः। तुष्टोऽब्रवीत्स वेतालो नृपं तं नृकलेवरात् ॥
राजन्विद्याधरेन्द्रत्वं भिक्षोरासीद्यदीप्सितम् । तत्तावद्धेभिसाम्राज्यभोगान्ते ते भविष्यति ॥
क्छेशितोऽसि मया यत्त्वं तदभीष्टं वरं वृणु । इत्युक्तवन्तं वेतालं स राजा तमभाषत ॥
त्वं चेत्प्रसन्नः को नाम न सिद्धोऽभिमतो वरः। तथाप्यमोघवचनादिदं त्वत्तोऽहमर्थये ॥
आद्याः प्रश्नकथा एता नानाख्यानमनोरमाः। चतुर्विंशतिरेषा च पञ्चविंश समाप्तिगा ॥
सर्वाः ख्याता भवन्त्वेताः पूजनीयाश्च भूतळे । इति तेनार्थितो राज्ञा वेतालो निजगाद सः॥
एवमस्तु विशेषं च शृणु वचम्यत्र भूतले । याश्चतुर्विंशतिः पूर्वो यैषा चैका समापिनी ॥
कथाबीयं वेतालपञ्चविंशतिकाख्यया । ख्याता जगति पूज्य च शिवा चैव भविष्यति ॥
यः श्लोकमात्रमप्यस्याः कथयिष्यति सादरः। यो वा श्रोष्यति तौ सद्यो मुक्तपापैौ भविष्यतः ॥
यक्षवेतालकूष्माण्डडाकिनीराक्षसाद्यः । न तत्र प्रभविष्यन्ति यत्रैषा कीर्तयिष्यते ॥
इत्युक्त्वा स ययौ तस्मान्निर्गत्य नृकेलबरात् । यथाभिरुचितं धाम वेतालो योगमायया ॥
ततस्तत्र सुरैः सार्ध राज्ञस्तस्य महेश्वरः । साक्षादाविरभूत्तुष्टः प्रणतं चादिदेश तम् ॥
साधु वत्स हतोऽद्यायं यत्त्वया कूटतापसः। विद्याधरमहाचक्रवर्तताइठकामुकः ॥
त्वमादौ विक्रमादित्यः सृष्टोऽभूः स्वांशतो मया । म्लेच्छरूपावतीर्णानामसुराणां प्रशान्तये ॥
अद्य चोदामदुधैतदमनाय मया पुनः । त्वं त्रिविक्रमसेनाख्यो वीरः सृष्टोऽत्र भूपतिः ॥
अतः सीपपातालां स्थापयित्वा महीं वशे। विद्यधरणामचिरादधिराजो भविष्यसि ॥
भुक्त्वा दिव्यांश्चिरं भोगनुद्विग्नः स्वेच्छयैव तान् । व्यक्वा ममैव सायुज्यमन्ते यास्यस्यसंशयम् ॥
अपराजितनामानं खङ्गी चैतं गृहाण मे । यस्य प्रसादात्सर्वं त्वं प्राप्स्यस्यैतद्यथोदितम् ॥
इत्युक्त्वा खञ्जरन्नं तद्दत्वा तस्मै महीभृते । वाक्पुष्पाभ्यर्चितस्तेन देवः शंभुस्तिरोदधे ॥
              अथ दृष्टॅव समाप्तं कार्यमशेषं निशि प्रभातायाम् ।
              प्रविवेश स त्रिविक्रमसेनः स्वपुरं नृपः प्रतिष्ठानम् ॥
          तत्र क्रमावगतरात्रिविचेष्टिताभिरभ्यचितः प्रकृतिभिर्विततोत्सवाभिः।
          स्नानप्रदानगिरिशार्चननृत्तगीतवाद्यादिभिस्तदखितुं स दिनं निनाय ॥
              अल्पैरेव च वासरैः स नृपतिः शार्वस्य वीर्यादसेः
              सद्वीपां सरसातलां च बुभुजे निष्कण्टकां मेदिनीम्॥
              संप्राप्याथ हराज्ञया सुमहतीं विद्याधराधीशतां
              भुक्त्वा तां सुचिरं जगाम भगवत्सायुज्यमन्ते कृती ॥
                      ( इति वेतालपञ्चविंशतिका ।)
          इति विक्रमकेसरी स मन्त्री चिरमिलितः पथि शापविप्रयोगात् ।
          अभिधाय पुनर्युगाझदत्तं प्रकृतार्थं निजगाद राजपुत्रम् ॥
              एवं देव स वृद्धो विप्रो वेतालपञ्चविंशतिकाम् ।
              एतामाख्याय कथां ग्रामे तस्मिन्नुवाच मां भूयः ॥
              तत्पुत्र स त्रिविक्रमसेनो राजा किलैवमीबः ।
              वेताळानुग्रहतः किमिव न यत्प्राप्तवानिष्टम् ॥
          तस्मादिह त्वमपि मत्रमिमं गृहीत्वा मत्तः प्रसाद्य विमुक्तविषादवृत्तिः ।
          वेतालमुख्यममुना प्रभुणा मृगाङ्कदत्तेन संगममवाप्स्यसि वीर येन ॥
          नष्टप्राप्यं किंचिदुत्साहभाजां भग्नोत्साहो वत्स को नावसीदेत् ।
          तत्ते प्रीत्या वच्मि यत्तत्कुरुष्व वं मे बन्धुः सर्षवंशातिहर्ता ॥