सामग्री पर जाएँ

पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४६४
[ आदितस्तरङ्गः
कथासरित्सागरः ।

तत्र मध्याह्रतापार्तास्विव मूलानि शाखिनाम् । छायाखषि प्रविष्टासु शिशिराणि सहध्वगैः ॥
एकदेशेऽजसरसस्तीरेऽशोकतरोस्तः। शोकार्ता रुदती श्रान्ता ससुता समुपाविशत् ॥
तावत्तद्वनमभ्यर्णनिवासी मृगयाकृते । महमनुष्यः कोऽभ्यागादश्वारूढः सपुत्रकः ॥
स चण्डहिनामा तं पुत्रं सिंहपराक्रमम् । उवाच हg|त्र तयोः पांसूत्थे पदपद्धती॥
एते मुखे सुभगे अनुसृत्यानुवो यदि । स्त्रीयौ ते तत्तयोरेकां स्वीकुरुष्व यथारुचि ॥
इत्युक्तवन्तं तं स्माह पुत्रः सिंहपराक्रमः । यस्याः सूक्ष्माविमौ पादौ सा भार्या प्रतिभाति मे ॥
सा हि स्वल्पवया नूनं जाने समुचिता मम । बृहत्पादा तु योग्येयमेतज्ज्येष्ठवयास्तव ॥
इति सूनोर्वचः श्रुत्वा चण्डसिंहो जगाद तम् । केषा कथा भवन्माता प्रत्ययं हि गता दिवम् ॥
तादृशे सुकलत्रे च गते कान्यत्र वासना । तच्छुत्वा सोऽपि पुत्रस्तं चण्डसिंहमभाषत ॥
तात मैवमभार्यं हि शून्यं गृहपतेगृहम् । अन्यच्च मूलदेवोक्ता गाथा किं न श्रुता त्वया ॥
              यत्र घनस्तनजघना नास्ते मागवलोकिनी कान्ता ।
              अजडः कस्तदनिगडं प्रविशति गृहसंज्ञकं दुर्गम् ॥
तज्जीवितेन मे तात शापितोऽसि न तां यदि । द्वितीयां मदभीष्टाया भार्यार्थं स्वीकरिष्यसि ॥
एतत्पुत्रवचः श्रुत्वा प्रतिपद्य च तत्सखः । स चण्डसिंहोऽनुसरन्पदपङ्कि शनैर्ययौ ॥
प्राप्य तच्च सरःस्थानं मुक्तातारौघमण्डिताम् । श्यामां चन्द्रवतीं राज्ञीं तां दर्शावभासिताम् ॥
लावण्यवत्या सुतया ज्योत्सयेवावदतया । तैशीं द्यामिव मध्याहे तरुच्छायामुपाश्रिताम् ॥
उपाययौ च पुत्रेण साकं तां स सकौतुकः । सापि हड्डा तमुत्तस्थौ वित्रस्ता चौरशङ्किनी ॥
अलं त्रासेन नाम्बैतौ चौरौ सौम्याऊती इमौ। सुवेषौ कौचिदाखेटकृते नूनमिहागतौ ॥
इत्युक्ता सुतया राशी यावदोलायतेऽत्र सा । तावदश्वावतीर्णस्ते चण्डसिंहोऽब्रवीदुभे ॥
किं संभ्रमेण वामावां प्रणयाद्धुमागतौ । तद्विश्वस्य निरातङ्कं वदतं के युवामिति ॥
हरनेत्रानलज्वालाद्धमन्मथदुःस्थिते । रतिप्रीती इवारण्यमिदमेवमुपागते ॥
प्रविष्टे स्थः कथं चेह बत निर्मानुषे वने । रनम्रासादवासार्हमिदं हि युवयोर्वपुः ॥
कथं वराङ्गनोत्सङ्गयोग्यौ कण्टकिनीमिमाम् । भुवं वां चरणौ भ्रान्ताविति नौ मनसि व्यथा ॥
एषा च चित्रं युवयोः पतन्ती धूलिरानने । वातोदूता हतच्छायमावयोः कुरुते मुखम् ॥
भवत्योरेष चानेऽस्मिन्निपतन्पुष्पपेशले । किरणोष्मा दहत्यस्मानुच्चण्डश्चण्डदीधितेः ॥
तदूतमात्मवृत्तान्तं दूयते हृदयं हि नः । द्रष्टुं न शक्नुमोऽरण्ये स्थितिं वां श्वापदावृते ॥
इत्युक्ते चण्डसिंहेन राजी निःश्वस्य सा शनैः । ळज़शोकाकुला तस्मै स्वं वृत्तान्तमवर्णयत् ॥
ततो निःस्वामिकां मत्वा तामाश्वास्य च सात्मजाम् । स्वीचक्रे मधुरैर्वाक्यैश्चण्डसिंहोऽनुरञ्जयन् ॥
आरोप्य चाश्वयोः पृष्टं सपुत्रस्तां सपुत्रिकाम् । निनाय वित्तपपुरीसमृद्धां वसतिं निजाम् ॥
सापि जन्मान्तरगतेवावशाङ्गीचकार तम् । अनाथा कृच्छ्पतिता विदेशे स्त्री करोति किम् ॥
ततस्तां सूक्ष्मपादत्वाद्राज्ञीं सिंहपराक्रमः । चण्डसिंहसुतस्तत्र भार्या चन्द्रवतीं व्यधात् ॥
तत्सुतां तां च लावण्यवतीं नृपतिकन्यकाम् । शृइत्वापादयोर्भार्या चण्डसिंहश्चकार सः ॥
प्राग्घि सूक्ष्मबृहत्पादमुद्रापंकिद्वयेक्षणात् । प्रतिपन्नं तथा ताभ्यां सत्यं कश्चातिवर्तते ॥
एवं पादविपर्यासात्ते पितापुत्रयोस्तयोः । दुहितामातरौ भार्ये जाते श्वश्रूस्नुषे तदा ॥
कालेन च तयोस्ताभ्यां भर्तृभ्यां जज्ञिरे द्वयोः । पुत्रा दुहितरश्चैव तेषामन्येऽप्यथ क्रमात् ॥
इत्थं संप्राप्य तौ चण्ड(संदसिंहपराक्रमौ । तस्थतुस्तत्र लावण्यवतीं चन्द्रवतीं च ते ॥
इति व्यावर्यं वेतालस्तदा पथि कथां निशि । स त्रिविक्रमसेनं तं पप्रच्छ नृपतिं पुनः॥
तयोर्मातदुहित्रोर्चे पुत्रपित्रोस्तयोर्नुप । सकाशाज्जन्तवो जाताः क्रमादुभयपक्षयोः॥
ज्ञात्वेवं ब्रूहि मे तेषामन्योन्यं के भवृन्ति ते । पूवोंक्तः सोऽत्र शपते जानानवेन्न वक्ष्यसि ॥