पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४४२
[ आदितस्तरः
कथासरित्सागरः ।

एकः परोपकारस्तु संसारेऽस्मिन्ननश्वरः । यो धर्मयशसी सूते युगान्तशतसक्षिणी ॥
तत्तात क्षणिके ध्वेषु भोगेष्वस्माभिरीदृशः । एष कल्पतरुः कस्य कृते मोघोऽभिरक्ष्यते ॥
यैर्वा मम ममेत्येवमानहेगैप रक्षितः । पूर्वंस्ते कुत्र कुत्रायं तेषां कश्चैष कोऽस्य वा ॥
तस्मात्परोपकारैकफलसिद्ध्यै त्वदाज्ञया । ताहीनं विनियुजेऽहं कामदं कल्पपादपम् ॥
एवमस्त्विति पित्रा च दत्तानुज्ञोऽथ तेन सः। जीमूतवाहनो गत्वा कल्पद्रुममुवाच तम् ॥
अभीष्टाः पूरिताः कामाः पूर्वेषां देव नस्त्वया । तन्ममैकमिमं काममनन्यं परिपूरथ ॥
अरिद्रां यथा पृथ्वीमिमां द्रक्ष्ये तथा कुरु । भद्रं ते व्रज दत्तोऽसि लोकायार्थार्थिने मया ॥
इत्युक्तवति जीमूतवाहने रचिताजयौ । त्यक्तस्त्वयैष यातोऽस्मीत्युदभूद्वातरोस्ततः ॥
क्षणाचोत्पत्य स दिवं कल्पवृक्षस्तथा वसु । ववर्ष भुवि नैवासीत्कोऽप्यस्यां दुर्गतो यथा ॥
ततस्तस्य तया तीव्रसर्वसत्वानुकम्पया । जीमूतवाहनस्यात्र त्रैलोक्ये पप्रथे यशः ॥
तेन तद्भोत्रजाः सर्वे मात्सर्यादसहिष्णवः। तं लोकसात्कृतार्तिनकल्पवृक्षविनाकृतम् ॥
जेयं सपितृकं मत्वा संभूय कृतनिश्चयाः । युद्धाय समनह्यन्त तद्राज्यापजिहीर्षया ॥
तद्दृष्ट्वा प्राह पितरं स्वं स जीमूतवाहनः। तात कस्यापरस्यास्ति शक्तिस्स्वयि धृतायुधे ॥
किं त्वस्य पापकस्यार्थं शरीरस्य विनाशिनः । हत्वा बन्धूनकृपणो राज्यं को नाम वाञ्छति ॥
तकि राज्येन नः कार्य गरवान्यत्र कश्चिद्वयम् । धर्ममेव चरिष्यामो लोकद्वयसुखावहम् ॥
मोदन्तां कृपणा एते दायादा राज्यलोलुपाः। इत्युक्तवन्तं जीमूतकेतुस्तं स पिताब्रवीत् ॥
अहं त्वदर्थमिच्छामि राज्यं पुत्र त्वमेव चेत् । तज्जहासि कृपाविष्टस्तन्मे वृद्धस्य तेन किम् ॥
एवं कृताभ्यनुज्ञेन पित्रा मात्रा च सोऽन्वितः। मलयाद्रिमगात्त्यक्तराज्यो जीमूतवाहनः ॥
तत्र चन्दनसंछन्नवहन्निीरकंदरे । शुश्रूषमाणः पितरं स तस्थौ कल्पिताश्रमः ॥
मित्रं चास्यात्र संपेदे मित्रावसुरिति श्रुतः । विश्वावसोः सुतः सिद्धराजस्यैतन्निवासिनः ॥
एकदा चात्र स भ्राम्यन्विवेशोपवनस्थितम् । द्रष्टुमायतनं देव्या गौर्या जीमूतवाहनः ॥
तत्रोपवीणयन्तीं च ददर्श वरकन्यकाम् । सखीजनान्वितां शैलतनयाराधनोद्यताम् ॥
आकण्थैमानसंगीतमजुवीणारवां मृगैः । दृष्टरोचनळवण्यज्जितैरिव निश्चलैः ॥
दधता तारकं कृष्णमर्जुनेन स्वचक्षुषा । पाण्डवीयामिव चरुं कर्णमूलं विविक्षतीम् ॥
परस्परविमर्देन मुखेन्दोरिव दर्शनम् । अतृप्ताविव वाञ्छन्तौ बिभ्रतीं संमुखौ स्तनौ ॥
धातुर्घटयतो मुष्टिप्रहेणेव निपीडिते । वलीमग्नाङ्गुलीमुद्रे मध्ये क्षाममनोरमाम् ॥
दृष्टया च तया सद्यः सोऽभूज्जीमूतवाहनः । तन्व्या मुषितचित्तोऽन्तर्दष्टिमार्गप्रविष्टया ॥
सापि तं भूषितोद्यानं दृष्ट्वोत्कण्ठाविकारम् । कामाङ्गदाहवैराग्याद्वनं मधुमिवाश्रितम् ॥
तथानुरागविवशा भेजे कन्या विहस्तताम् । यथा सखीव वीणास्या व्याकुललापतां ययौ ॥
ततः स पप्रच्छ सखीं तस्या जीमूतवाहनः। किं धन्यं नाम सख्यास्ते को वंशोऽलंकृतोऽनया ॥
तच्छुत्वा सा सखी प्राह नाना मळयवत्यसौ । मित्रावसुस्वसा सिद्धराजविश्वावसोः सुता ॥
एवमुक्त्वा सहृदया सा तं जीमूतवाहनम् । नामान्वयौ च पृष्टस्य मुनिपुत्रं सहागतम् ॥
तां ब्रवीति स्म मलयवतीं स्मितमिताक्षरम् । सखि विद्याधरेन्द्रस्य नास्यातिथ्यं करोषि किम् ॥
जगत्पूज्योऽतिथिर्दैष प्राप्त इत्युदिते तया । साभूद्विद्याधरसुता तूष्णीं ळजानतानना ॥
लज्जावतीयं मत्तोऽर्चा गृह्यतामिति वादिनी । एकाश्च तत्सर्वं तस्मै सार्या माळामुपानयत् ॥
स चादायैव जीमूतवाहनः प्रेमनिर्भरः । कण्ठे मलयवत्यास्तां मालां तस्याः समर्पयत् ॥
सापि तिर्यक्प्रवृतया पश्यन्ती निग्धया दृश। नीलोत्पलमयीं मालामिव तस्मिन्यवेशयत् ॥
इत्यन्योन्यकृताशब्दस्वयंवरंविशेषयोः । तयोरेत्य जगादैका चेटी तां सिद्धकन्यकाम् ॥
जननी राजपुत्रि त्वां स्मरत्यागच्छ माचिरम् । तच्छुवाछुष्य कामेषुकीलितामिव कृच्छूतः ॥