पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४३४
[ आदितस्तरङ्गः ८७ ।
कथासरित्सागरः

वं गच्छाथ पितुः स्थानं यास्याम्यहमपि स्वकम् । एतत्तद्वचनं मुग्धा तथेत्यङ्गीचकार सा ॥ १४७
ततोऽत्र रेमे स तया सहोद्यानेषु कान्तया । सजलोत्पलनेत्रासु वापीसु षडहं नृपः ॥ १४८
मा स्म यातं विहायास्मानिति पून्कुर्वतीष्विव । उत्क्षिप्तवीचिहस्तासु हंससारसनिःस्वनैः ॥ १४९
सप्तमेऽह्नि स युक्तया तां प्रियां तत्रानयबृहे । भूलोकप्रापिणी यत्र सा यत्रद्वारवापिका ॥ १५०
तत्र कण्ठे गृहीत्वा तां तस्यां वाप्यां निपत्य सः उत्तस्थौ स्वपुरोद्यानवापीमध्यात्तया सह ॥ १५१
तत्र कान्तासखं प्राप्तं तं दृष्ट्रोद्यानपालकाः । हृष्टास्तन्मत्रिणे गत्वा जगदुर्दीर्घदर्शिने ॥ १५२
सोऽप्येत्य पादपतितस्तमानीतेप्सिताङ्गनम् । दृष्टा प्रावेशयन्मन्त्री सपौरोऽभ्यन्तरं नृपम् ॥ १५३
अहो सैषा कथं प्राप्ता राज्ञा दिव्याङ्गनामुना । व्योम्नीव विद्युदिव या क्षणदृश्य मयेक्षिता ॥ १५४
यद्यस्य लिखितं धात्रा ललाटाक्षरपलिषु । तदवश्यमसंभाव्यमपि तस्योपतिष्ठते ॥ १५५
इत्यत्र मभिमुख्येऽस्मिन्ध्यायत्यन्यजनेऽपि च । दिव्यस्त्रीप्राप्तिसाश्चर्यं राजागमनसोत्सवे ॥ १५६
सा मृगाङ्कवती दृष्ट्वा तं स्वदेशागतं नृपम् । इयेष पूर्णसप्ताहा या वैद्याधरां गतिम् ॥ १५७
नाविरासीच्च विद्यास्याः स्मृता व्युत्पतनी तदा। ततः सा मुषितेवात्र विषादमगमत्परम् ॥ १५८
किमकस्माद्विषण्णेव दृश्यसे वद मे प्रिये । इत्युक्ता तेन राज्ञा सा विद्याधर्येवमब्रवीत् ॥ १५९
स्थिताहं शापमुक्तापि त्वत्स्नेहाद्यदियच्चिरम् । तेन विद्या मम भ्रष्टा नष्टा दिव्या च सा गतिः ॥ १६०
तच्छुत्वा हन्त सिद्धेयं मम विद्याधरीति सः। राजां ततो यशःकेतुः पूर्ण चक्रे महोत्सवम् ॥ १६१
तहृष्टा दीर्घदर्शी स मां गत्वा गृहं निशि । शयनीयगतोऽकस्माद्रूफोदेन व्यपद्यत ॥ १६२
ततोऽनुभूय तच्छोकं धृतराज्यभरः स्वयम् । यशःकेतुश्चिरं तस्थौ स मृगाङ्कवतीयुतः ॥ १६३
            इत्येतां कथयित्वा मार्गे तस्मै कथां स वेतालः।
            अवदत्पुनस्त्रिविक्रमसेनं नृपतिं तमंसगतः॥ १६४
            तहि भूपते ते संपने स्वामिनस्तथाभ्युदये ।
            हृद्यं सपदि स्फुटितं तस्य महमत्रिणः किमिति ॥ १६५
            दिव्यस्त्री न मया किं प्राप्तेति शुचास्फुटदृदयम्।
            किं वा राज्यमभीप्सो राजागमजेन दुःखेन ॥ १६६
            एतच्च यदि न वक्ष्यसि मठं जानन्नपीह तद्राजन् ।
            धर्मश्च तव विनङ्कयति यास्यति दलशश्च झटिति शिरः ॥ १६७
            श्रुत्वेति तु त्रिविक्रमसेनो राजा जगाद वेतालम् ।
            नैतत्तस्मिन्द्वयमपि शुभचरिते युज्यते हि मत्रिवरे ॥ १६८
            किं तु स्त्रीमात्ररसादुपेक्षितं येन भूभुजा राज्यम् ।
            तस्याधुना तु दिव्यस्त्रीरक्तस्यात्र का वार्ता ॥ १६९
            तन्मे कष्टेऽपि कृते प्रत्युत दोषो बताधिकीभूतः ।
            इति तस्य विभावयतो हृदयं तन्मत्रिणः स्फुटितम् ॥ १७०
            इत्युक्ते नरपतिना पुनः स मायी वेतालो निजपदमेव तज्जगाम।
            राजापि प्रसभमवानुमन्वधावदूयोऽपि द्रुतमथ तं स धीरचेताः ॥ १७१

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्बक एकोनविंशस्तरः ।


_____


विंशस्तरङ्गः।


( त्रयोदशो वेतालः।)


अथ गत्वा पुनः प्राप्य शिंशपातस्ततो नृपः। स त्रिविक्रमसेनस्तं स्कन्धे वेतालमाददे ॥ १
आयान्तं च स वेतालो भूयस्तं नृपमश्रबीत् । राजञ्शृणु कथामेकां संक्षिप्त वर्णयामि ते ॥ २