पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४२८
[ आदितस्तरङ्ग
कथासरित्सागरः ।

यावत्तन्निकटं गत्वा क्षणेनोपैमि तेऽन्तिकम् । नहि शक्नोम्यतिक्रान्तुं सस्यमाबाल्यसेवितम् ॥
इति तस्या वचोवषपातेन सहसा हतः । समुद्रदत्तः सत्येन बद्धः क्षणमचिन्तयत् ॥
अहो धिगन्यरक्तेयं गन्तव्यं ध्रुवमेतया । तत्सत्यं हन्मि किं यातु कोऽस्याः परिणयग्रहः ॥
इत्यालोच्यानुमेने तां यथेष्टगमनाय सः । साप्युत्थाय ततस्तस्मान्निर्ययैौ पतिवेश्मनः ॥
तावदत्रोदयाद्रीन्द्रहणं हिमदीधितिः । आरुरोह कराक्रान्तहसत्पूर्वदिगङ्गनः ॥
ततस्तमःस्वप्याश्लिष्य स्थितेष्वद्रिदीप्रियाः । सेवमानेषु शूद्रेष्वष्यपरं कुमुदाकरम् ॥
यान्ती मदनसेना सा मागें हरौकका निशि । चौरेणाधाव्य केनापि रुरुधे वसनाञ्चले ॥
त्वं ब्रूहि क यासीति तेनोक्तता बिभ्यती च सा । उवाच किं तवानेन मुच कार्यमिहास्ति से ॥
ततश्चौरोऽब्रवीन्मन्तश्चौरात्वं मुच्यसे कथम् । तच्छुत्वा साबदतं च गृह्णाभरणानि मे ॥
अथ चौरोऽभ्यधान्मुग्धे किमेभिरुपलैर्मम । चन्द्रकान्तननां तादर्थरत्नसितशिरोरुहम् ॥
वजमध्यां सुवर्णाङ्ग पझरागाङ्गिहारिणीम् । जगदाभरणं नैव मोक्ष्यामि भवतीमहम् ॥
इत्युक्ता तेन चौरेण विवशा सा वणिक्सुता । आख्याय निजवृत्तान्तमेवं प्रार्थयते स्म तम् ॥
क्षमस्व मे क्षणं यावत्कृत्वा सत्यानुपालनम् । इहस्थस्यैव ते पार्श्वमागमिष्यामि सत्वरम् ॥
नाहमुलबरयिष्यामि भद्र सत्यामिमां गिरम् । श्रुत्वैतत्सत्यसंधां तां मत्वा चौरो मुमोच सः ॥
तस्थौ प्रतीक्षमाणश्च तत्रैव स तदागमम् । खाषि तस्यान्तिकं धर्मदत्तस्य बणिजो ययौ ॥
स चाभीष्टामपि प्राप्तां तथा तां विजने स्थिताम् । दृष्ट्वा पृष्ट्वा यथावृत्तं विचिन्त्य क्षणमब्रवीत् ॥
सत्येन तव तुष्टोऽस्मि किं त्वया मे परस्त्रिया । यावत्वां नेक्षते कश्चित्तावद्गच्छ यथागतम् ॥
इति तेन परित्यक्ता स तथेत्याययौ ततः । चौरस्य निकटं तस्य प्रतिपालयतः पथि ॥
ब्रूहि कस्तेऽत्र वृत्तान्तो गताया इति पृच्छते । तस्मै स तेन वणिजा यथा मुक्ता तथाश्रवीत् ॥
ततः स चौरोऽवादीतां यद्ययं तन्मयष्यसि । विमुक्ता सत्यतुष्टेन गृहं साभरणा व्रज ॥
एवं तेनापि सा त्यक्ता रक्षिता चानुयायिना । अलुप्तशीला मुदिता पत्युरेवाययौ गृहम् ॥
तत्र गुप्तं प्रविष्टा सा प्रहृष्टोपागता सती । दृष्ट्वा पृष्टवते तस्मै पत्ये सर्वमवर्णयत् ॥
सोऽप्यतृप्तमुखच्छायां तामसंभोगलक्षणाम् । संभाच्याभरुचरित्रां सत्यलाभरतां सतीम् ॥
अदृष्टमनसं भार्यामभिनन्द्य कुलोचितम् । तस्थौ समुद्रदत्तेऽथ तया सह यथासुखम् ॥
इति तत्र कथामुक्त्वा पितृवनभूमौ तदा स वेतालः ॥
वदति स्म तं त्रिविक्रमसेनं वसुधाधिपं भूयः ॥
तद्वहि चौरवणिजामेषां मध्यान्नरेन्द्र कस्यागी ।
जानन्यदि न वदिष्यखि विदलिष्यति ते शिरः शतध ॥
तच्छुत्वा स महीपतिरुज्झितमौनसमाह वेतालम् ।
एषां चौरस्यागी न पुनर्वणिजावुभावपि तौ ॥
यो हि पतिस्तामजहदत्याज्यां तादृशी विवाह्यापि ।
कुलजः सोऽन्यासक्तां भार्यां जानन्कथं वहतु ॥
योऽप्यपरः स भयात्तामस्याक्षीत्कालजीर्णसंवेगः।
विदितार्थो भर्तास्याः प्रातर्मुया भूपायेति ॥
चौरस्तु गुप्तचारी निरपेक्षः पापकर्मकृदप्राप्तम् ।
स्त्रीरत्नं यदमुश्चत्साभरणं तेन स त्यागी ॥
एतच्छुत्वैवसतस्तस्य राज्ञो वेतालोऽगारपूर्ववरस्त्वं पदं सः ।
राज भूयोऽप्यत्र संप्राप्तुमेतं प्रायादेचाखण्डित्तोदमथैर्युः ॥

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्बके सप्तदशस्तरङ्गः ।


_____