अवन्तिष्वस्ति नगरी युगादौ देवनिर्मिता । शैवी तनुरिबोदामभोगिभूतिविभूषिता ॥
पद्मावती भोगवती या हिरण्यवतीति च । कृतादिषु त्रिषु ख्याता कलावुज्जयिनीति च ॥
तस्यां च वीरदेवाख्यो राजाभूद्मभृतां वरः । तस्य पद्मरतिर्नाम महदेवी बभूव च ॥
सोऽथ राजा तया साकं गवा मन्दाकिनीतटे । हरमाराधयामास तपसा पुत्रकाम्यया ॥
चिरं तपःस्थितश्चात्र परितुष्टेश्वरोदिताम् । कृतस्नानार्चनविधिः शुश्रावेमां गिरं द्विः ॥
राजमुत्पत्स्यते पुत्रः शूरस्तव कुलोद्भवः । कन्या चानन्यसामान्यलावण्यन्यताप्सराः ॥
श्रुत्वैतां नाभसीं वाणीं सिद्धाभीष्टः स भूपतिः । वीरदेवः स्वनगरीमाययौ महिषीसखः ॥
तत्रास्य शूरदेवाख्ये जाते प्रथममात्मजे । तस्यां पद्मरतौ देव्यां क्रमादजनि कन्यका ॥
अनङ्गस्यापि रूपेण रतिमुपादयेदियम् । इत्यनङ्गतिर्नाम्ना पित्रा तेन व्यधायि सा ॥
वृद्धिं गतायास्तस्याश्च स पिता सदृशं वरम् । प्रेप्सुरान्नाययत्पृष्ठ्यां पटेषु लिखिताबृपान् ॥
तेष्वेकोऽपि न यत्तस्य तन्तुल्यः प्रत्यभासत । तेन राजा स वात्सल्यातां सुतां प्रत्यभाषत ॥
अहं तावन्न पश्यामि सदृशं पुत्रि ते वरम् । तस्कुरुष्व नृपान्सर्वान्मेलयित्वा स्वयंवरम् ॥
एतत्पितृवचः श्रुत्वा राजपुत्री जगाद सा । तात खौघरं कर्तुं पणान्नाहस्रसहे ॥
किं त्वेकं वेत्ति योऽपूर्व विज्ञानं खाकृतिर्युवा । तस्मै त्वयाहं दातव्या नार्योऽन्येनाधिकेन मे ॥
इत्यनङ्गरतेस्तस्याः श्रुत्वा स्वदुहितुर्वचः। तादृशं तद्वरं याबदन्विष्यति स भूपतिः ॥
तावत्तल्लोकतो बुद्ध चत्वारस्तमुपाययुः। वीरा विज्ञानिनो भु–याः पुरुषा दक्षिणापथात् ॥
ते राज्ञा पूजितास्तस्मै स्वं स्वं विज्ञानमेकशः । शशंसुः संनिधौ तस्या राजपुत्र्यास्तदर्थनः ॥
एको जगाद यद्रोऽहमाख्यया पञ्चपट्टिकः । पञ्चम्यवस्त्रयुग्मानि करोम्येकोऽहमन्वहम् ॥
तेभ्य एकं प्रयच्छामि देवायैकं द्विजन्मने । एकं च परिगृह्वामि वास सोरात्मनः कृते ॥
एकं ददामि भार्यायै यदि सा भवतीह मे । एकं विक्रीय चाहारपानादि विदधाम्यहम् ॥
एवंविज्ञानिनेऽनङ्गरतिमें दीयतामिति । इत्येकेनोदिते तेन द्वितीयः पुरुषोऽब्रवीत् ॥
भाषाज्ञो नाम वैश्योऽहं सर्वेषां मृगपक्षिणाम् । रुतं वेद्मि तदैषा मे राजपुत्री प्रदीयताम् ॥
एवमुक्ते द्वितीयेन तृतीयः प्रोक्तवांस्ततः । अहं खङ्गधरो नाम दोःशाली क्षत्रियो नृप ॥
न खङ्गविद्याविज्ञाने प्रतिमल्लोऽस्ति मे क्षितौ । तदेषा तनया राजंस्वया मह्नां वितीर्यताम् ॥
इत्युक्ते तु तृतीयेन चतुर्थ इदमभ्यधात् । विप्रोऽहं जीवदत्ताख्यो विज्ञानं च ममेदृशम् ॥
जन्तून्मृतानष्यानीय दर्शयाम्याशु जीवतः । तद्वीरचर्यासिद्धे मां पतिमेषा प्रपद्यताम् ॥
एवंवक्तृन्स तान्पश्यन्दिव्यवेषाकृतीबृपः। वीरदेवः सुतायुक्तो दोलारूढ इवाभवत् ॥
इत्याख्याय कथामेतां वेतालः पृष्टवानृपम् । स त्रिविक्रमसेनं तं दन्तपूर्योक्तशापभीः ॥
तद्भवान्वक्तु तावन्मे कस्मै देया विशांपते । तेषां चतुर्णा मध्यात्सा कन्यानङ्गरतिर्भवेत् ॥
एतच्छुत्वा स राजा तं वेतालं प्रत्यभाषत । मौनं त्याजयति प्रायः कालक्षेपाय मां भवान् ॥
अन्यथा गहनः कोऽयं प्रश्नो योगेश्वरोच्यताम् । शुद्राय हि कुविन्दाय क्षत्रिया दीयते कथम् ॥
वैश्यायापि कथं देया क्षत्रिया यच्च तद्तम् । मृगादिभाषाविज्ञानं कार्यं तत्कोपयुज्यते ॥
योऽपि विप्रस्तृतीयोऽत्र तेनापि पतितेन किम् । स्खकर्मप्रच्युतेनेन्द्रजालिना वीरमानिना ॥
तस्मात्तस्मै क्षत्रियाय चतुथीय समय सा । देय खङ्गधरायैव स्वविद्यवीर्यशलिने ॥
एतत्तस्य वचो निशम्य नृपतेरंसस्थळापूर्वव
वेतालः स जगाम योगबलतः स्वस्थानमेवाशु तत् ।
भूपालोऽपि स तं तथैव पुनरप्यानेतुमन्वग्यय।
उत्साहैकधने हि वीरहृदये नाप्नोति खेदोऽन्तरम् ॥
ईति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्बके षोडशस्तरङ्गः ।
_____