सामग्री पर जाएँ

पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४१८
[ आदितस्तरङ्गः ७
कथासरित्सागरः ।

ताभ्यां जातस्तु तद्रूप एव सत्त्ववरोऽपि सः । जायते पटः ॥
यादृशास्तन्तवः कामं तादृशो
येषां प्राणैस्तु भृत्यानां नृपैरास्माभिरक्ष्यते । तेषामर्थे त्यजन्देहं शूद्रकोऽत्र विशिष्यते ॥
इत्याकण्यं वचः स तस्य नृपतेरंस्रदसंलक्षितो
वेतालः सहसा ययौ निजपदं भूयोऽपि तन्मायया ।
राजाप्युच्चालितो बभूव पुनरष्यानेतुमेतं पथा
पूर्वेणैव सुनिश्चितः पितृवने तस्मिन्स तस्यां निशि ॥

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्घक एकादशस्तरः ।


_____


द्वादशस्तरङ्ग


( पञ्चमो वेतालः।)


ततस्तस्य पुनर्गत्वा शिंशपाशाखिनोऽन्तिकम् । तथैवोल्लम्यमानं तं दृष्ट्वा नरशरीरगम् ॥ १
वेतालमधतायैव कृत्वस्मै बहु वैकृतम् । स त्रिविक्रमसेनो द्रग्गन्तुं प्रववृते ततः ॥ २
आगच्छन्तं च तं तूष्णीं वेतालः पूर्ववत्पथि । रात्रौ महाश्मशानेऽत्र स्कन्धस्थो व्याजहार सः ॥ ३
राजन्नभिनिविष्टोऽसि कष्टेऽत्यन्तप्रियोऽसि च। तत्ते चेतविनोदय वर्णयामि कथां श्रुणु ॥ ४
उजयिन्यामभूद्विप्रः पुण्यसेनस्य भूपतेः। अनुजीवी प्रियोऽमात्यो हरिस्वामीति सङ्गणः ॥ ५
तस्यात्मनोऽनुरूपायां भार्यायां गृहमेधिनः । गुणवान्सदृशः पुत्रो देवस्वामीत्यजायत ॥ ६
तद्वच्चनन्यसामान्यरूपलावण्यविश्रुता । कन्या सोमप्रभा नाम तस्यान्वयेंदपद्यत ॥ ७
सा प्रदेया सती कन्या रूपोस्कर्षाभिमानिनी । मातुर्मुखेन पितरं भ्रातरं च जगाद तम् ॥ ८
शूरस्य ज्ञानिनो वाहं देया विज्ञानिनोऽपि वा । अन्यस्मै नास्मि दातव्या कार्यं सज्जीवितेन चेत् ॥ ९
तच्छुत्वा तादृशं तस्याश्चिन्वन्नेकतमं वरम् । तस्पिता स हरिस्वामी यावच्चिन्तां वहत्यलम् ॥ १०
तावद्द्यसार्जि राज्ञा स पुण्यसेनेन दूत्यया । संध्यर्थं विग्रहायातदाक्षिणात्यनृपान्तिकम् ॥ ११
कृतकार्यश्च तत्रासावेकेनाभ्येत्य तां सुताम् । याचितोऽभूद्दिजाश्रयेण श्रुततदूपसंपदा ॥ १२
विज्ञानिनो ज्ञानिनो वा शूराद्वा नापरं पतिम् । मत्पुत्रीच्छति तत्तेषां मध्यात्कथय को भवान् ॥ १३
इत्युक्तस्तेन भार्यार्थं स हरिस्वामिना द्विजः । अहं जानामि विज्ञानमिति तं प्रत्यभाषत ॥ १४
तर्हि तद्दर्शयस्वेति पुनरुक्तश्च तेन सः । विज्ञानी कल्पयामास स्वशक्त्या द्युचरं रथम् ॥ १५
मायायश्ररथे तत्र तं हरिस्वामिनं क्षणात् । आरोप्य नीत्वा स्वर्गादींल्लोकांस्तस्मायदर्शयत् ॥ १६
आनिनाय च तुष्टं तं तत्रैव कटकं पुनः । दाक्षिणात्यस्य नृपतेर्यत्रयातः स कार्यतः ॥ १७
ततः सोऽस्मै हरिस्वामी प्रतिशुश्राव तां सुताम् । विज्ञानिने विवाहं च निश्चिकायाहि सप्तमे ॥ १८
तत्कालमुजयिन्यामप्यन्येनैत्य द्विजन्मना । देवखामी स तत्पुत्रः स्वसारं तामयच्यत ॥ १५
ज्ञानविज्ञानिश्चरेभ्यो नान्यमिच्छति सा पतिम् । इति तेनापि सोऽप्युक्तः शमात्मानमभ्यधात् ॥ २०
ततो दर्शितशस्त्रास्त्रश्रिये तस्मै द्विजोऽनुजाम् । देवस्वामी स शूराय दातुं तां प्रस्यपद्यत ॥ २१
सप्तमेऽह्नि च तत्रैव विवाहं गणकोक्तितः । तस्यापि सोऽभ्यधान्मातुः परोक्षे कृतनिश्चयः ॥ २२
तन्मातापि हरिस्वामिभार्या तत्कालमेव सा । केनष्येत्य तृतीयेन सुतां तां याचिता पृथक् ॥ २३
ज्ञानी शूरोऽथ विज्ञानी भतस्मदुहितुर्मतः । इत्युक्तश्च तया मातरहं आनीति सोऽभ्यधात् ॥ २४
पृष्टा भूतं भविष्यच्च तस्मै तां ज्ञानिने सुताम् । प्रतिजज्ञे प्रदातुं साप्यहि तत्रैव सप्तमे ॥ २५
अन्येद्युश्चागतः सोऽत्र हरिस्वामी यथाकृतम् । पत्न्यै पुत्राय चाचख्यौ तं कन्यादाननिश्चयम् ॥ २६
तौ च स्वकृतं तस्मै भिन्नं भिन्नमवोचताम् सोऽपि तेनाकुलो जज्ञे वरत्रयनिमन्त्रणात् ॥ २७
तं ।
अथोद्वाहदिने तस्मिन्हरिस्वामिगृहे वराः। आययुर्जीनिविज्ञानिंशकरास्तत्र त्रयोऽपि ते ॥ २८
तत्कालं चात्र सा चित्रे कन्या सोमप्रभा वधूः । अशङ्कितं गता कापि न विचित्याप्यलभ्यत ॥ २९