पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४१०
[आदितस्तरङ
कथासरित्सागरंः ।

पानमत्ता च सा हर्तु जपतो मेऽक्षमालिकाम् । प्रावर्तत महामाया विकारान्कुर्वती मुखे ॥
अतिप्रवृत्ता च मया क्रुद्धेन जघनस्थले । अङ्किता सा त्रिशलेन सत्रप्रज्वाळिताश्रिणा ॥
हृता मुक्ताबी चेयं तस्याः कण्ठान्मया तदा । सैषाद्य तापसानर्ह विज्ञेया मम वर्तते ॥
एतच्छुत्वा पुराध्यक्ष्यो गत्वा भूपं व्यजिज्ञपत् । भूपोऽप्याकर्यं तत्तां च युद्ध तन्मौक्तिकावलीम् ॥
प्रेक्षणप्रेषितायातवृद्धाप्तवनितामुखात् । श्रुत्वा च दृश्यशूळाक्कां जघने सत्यमेव ताम् ॥
ग्रस्तः सुतो मे डाकिन्या तयेत्युत्पन्ननिश्चयः । स्वयं तस्यान्तिकं गस्त्र मञ्जिपुत्रतपस्विनः ॥
दृष्ट्वा च निग्रहं तस्याः पद्मावत्याः स तद्भिरा। पितृभ्यां शोच्यमानायाः पुरान्निर्वासनं व्यधात् ॥
निर्वासिताटवीस्था सा विनापि न जहौ तनुम् । उपायं मन्त्रिपुत्रेण तं संभाव्य तथा श्रुतम् ॥
दिनान्ते तां च शोचन्तीमश्वारूढावुपेयतुः। त्यक्ततापसवेषौ तौ मन्त्रिपुत्रनृषमजौ ॥
आश्वस्यारोप्य तुरगे स्वराष्ट्री निन्यतुश्च ताम् । तत्र तस्थौ तया साकं राजपुत्रः स निर्युतः ॥
दन्तघाटस्त्वरण्ये तां क्रव्यादैर्भक्षितां सुताम् । मत्वा व्यपादि शोकेन भार्या चाजगाम तम् ॥
इत्याख्याय स भूयस्तं वेताछो नृपमब्रवीत् । तन्मेऽत्र संशयं छिन्द्धि दंपत्योरेतयोर्वधात् ॥
मत्रिपुत्रस्य किं पापं राजपुत्रस्य किं नु वा । पद्मावत्याः किमथवा त्वं हि बुद्धिमतां वरः ॥
जानानश्च न चेद्राजन्मम तन्त्रं वदिष्यसि । तदेष शतधा मूर्धा निश्चितं ते स्फुटिष्यति ॥
इत्युक्तवन्तं वेताखं विजानशापभीतितः। स त्रिविक्रमसेनस्तमेवं प्रत्यब्रवीद्मषः ॥
योगेश्वर किमज्ञेयमेतनैषां हि पातकम् । त्रयाणामपि राज्ञस्तु पपं कर्णात्पळस्य तत् ॥
वेतालोऽप्याह राज्ञः किं ते हि तत्कारिणस्त्रयः । काकाः किमपराध्यन्ति हंसैर्जग्धेषु शाळिषु ॥
राजा ततोऽब्रवीच्चैनं न दुष्यन्ति त्रयोऽपि ते । मब्रिसूनोर्हि तत्तावत्प्रभुकार्यमतकम् ॥
पद्मावतीराजपुत्रौ तौ हि कामशराग्निना । संतप्तावविचाराबदोषौ खर्थमुद्यतौ ॥
कणत्पळस्तु राजा स नीतिशास्त्रेष्वशिक्षितः। चारैः प्रजास्वनन्विष्यंस्तत्त्वशुद्धिं निंजास्वपि ॥
अजानन्धूर्तचरितानीङ्गिताद्यविचक्षणः। तथा तन्निर्विचारं यच्चक्रे तेन स पापभt ॥
इत्याकण्ये विमुक्तमौनमुदिते सम्यङ् , नृपेणोत्तरे
स्कन्धान्तस्य न दाढ्येमाकलयेतुं मायाबलतत्क्षणम् ।
वेतालो नृकलेवरान्तरगतः काप्यप्रतक्षं ययौ
निष्कम्पः स च भूपतिः पुनरमुं प्राप्तुं व्यधान्निश्चयम् ॥

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलयकेऽष्टमस्तरः


_____


नवभतरङ्ग


( द्वितीयो वेतालः ।)


ततोऽत्र पुनरानेतुं तं वेतालमगावृषः स त्रिविक्रमसेनस्तञ्छिशपाषादषान्सिक्षम् ॥
प्राप्नोऽत्र वीक्षते यावचितालोकवशान्निशि । तावद्ददर्श तं भूमौ कूजन्तं पतितं शवम् ॥
अथ तं मृतदेहस्थं वेतालं स महीपतिः । आरोप्य स्कन्धसानेतुं तूष्णीं प्रववृते जवात् ॥
ततः स्कन्धात्स वेतालो भूयस्तं नृपमत्रवीत् । राजन्महयनुचिते केशेऽस्मिन्पतितो भवान् ॥
अतस्तव विनोदाय कथयामि कथां श्रुणु । अस्यग्रहारः कालिन्दीकूले ब्रह्मस्थळाभिधः ॥
अग्निस्वामीति तत्रासीद्राह्मणो वेदपारगः। तस्यरतिरूपा मन्दारवतीयजनि कन्यका ॥
यां निर्माय नमोनर्यलावण्यां नियतं विधिः । स्वर्गस्त्रीपूर्वनिर्माणं निजमेबाजुगुप्त ॥
तस्यां च यौवनस्थायामाययुः कान्यकुब्जतः । समसर्वगुणास्त्र त्रयो ब्राह्मणपुत्रकाः ॥
तेषां चात्मार्थमेकैकस्तत्पितुस्तामयाचत । अनिच्छन्दानमन्यस्मै तस्याः प्राणव्ययादपि ॥
तत्पिता स तु तन्मध्यानैकस्मायपि तां ददौ। भीतोऽन्ययोर्वधात्तेन तस्थौ कन्यैव सा तसः ॥