पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३८८
[ आदितस्तरङ्ग
कथासरित्सागरः

इति संकरण्य' संबोध्य सचिवाननुजाय सः । सुनन्दनाभिधानाय राज्यं नन्दनो ददौ ॥
त्यक्तराज्यश्च स ययौ पादन्यासोद्भवं हरेः। तीर्थं क्रमसरो नम त्रिबिक्रमुद्धृतं पुरा ॥
यदध्यासितमभ्यर्णपर्वताग्रनिवेशिभिः । शृङ्गाकारैस्त्रिभिर्देवैर्नेक्झविष्णुमहेश्वरैः ॥
येन विष्णुपदेनान्या कश्मीरेषु सुरापगा । सृष्टा विषुवती नाम वितस्ता मत्सरादिव ॥
तत्रासीत्स तपः कुर्वन्राजन्यरसनिःस्पृहः । क्याम्यन्नव्यरसाकाझी निदध इव चातकः ॥
व्यतीतद्वादशाब्दे च तस्मिस्तत्र तपःस्थिते । आगान्तेन पथा कोऽपि तपस्वी ज्ञानिनां वरः ॥
पिङ्गलाप्रजटीरवासाः शिष्यगणान्वितः । तत्तीर्थशैलशिखरावतीर्ण इवेश्वरः ॥
स तं दृष्ट्वैव राजानं जातप्रीतिरुपेत्य च प्रहः पृष्टा '। च वृत्तान्तं ध्यात्वा क्षणमिवाब्रवीत् ॥
राजन्सा दैत्यकन्या ते प्रिया पातालवासिनी । तदाश्वसिहि तस्यास्त्वामन्तिकं प्रापयाम्यहम् ॥
अहं हि दाक्षिणात्यस्य यज्ञसंज्ञस्य यज्वनः । पुत्रो भूतिवसुर्नाम ब्राह्मणो योगिनां गुरुः ॥
सोऽहं संक्रमितज्ञानः पित्रा पातालशास्त्रतः । शिक्षित्वा हाटकेशानमञ्जतश्रविधिक्रमम् ॥
गत्वा श्रीपर्वतेऽकार्ष त्र्यम्बकाराधनं तपः । तेन तुष्टोऽथ मां तत्र साक्षादित्यादिशच्छिवः ॥
गच्छ दैत्याङ्गनायुक्तो भुक्त्वा भोगान्रसातले । मागुपैष्यस्युपायं च तत्प्राप्तौ श्रुणु वच्मि ते ॥
सन्ति भूयांसि पातालविवराण्यत्र भूतले । प्रकाशं त्वस्ति कश्मीरेष्वेकं मयकृतं महत् ॥
येन प्रवेश्य गुप्तासु दानवोद्यानभूमिषु । उषा बाणसुता कान्तमनिरुद्धं व्यनोदयत् ॥
प्रद्युम्नश्च तदा पुत्रं रक्षितुं तं व्यधत्त यत् । प्रकटं गिरिशृङ्गण प्रकल्प्य द्वारमेकतः ॥
तद्ररक्षाहेतोश्च यत्र दुर्गा न्यवेशयत् । आराध्य स स्तुतिशतैः शारिकानमधारिणीम् ॥
येन प्रद्युम्नशिखरं शारिकाकूटमित्यपि । नामद्वयेन तत्तत्र स्थानमद्याभिधीयते ॥
गच्छ तेन बिलाग्रेण प्रविश्यानुचरैः सह । पतािलं मत्प्रसादाच्च सिद्धिस्तेऽत्र भविष्यति ॥
इत्युक्त्वान्तर्हिते देवे तत्प्रसादाप्रभावतः। उपम्नखिलविज्ञानः कश्मीरानगतोऽस्म्यमून् ॥
तस्माभिः समं राजञ्शारिकाकूटमेहि तत् । यावदिष्टाङ्गनापार्श्व पातालं त्वां नयाम्यहम् ॥
एवमुक्तवता तेन तथेति स' तपस्विना । समं तच्छारिकाकूटं यथैौ नन्दनो नृपः ॥
तत्र स्नात्वा वितस्तायामर्चयित्वा विनायकम् । संपूज्य शारिकां देवीं दिग्बन्धादिपुरःसरम् ॥
विधिवत्सर्षपक्षेपाद्धरनुग्रहशालिना । महातपस्विना तेन बियरे प्रकटीकृते ॥
प्रविश्य तेनैव समं सशिष्येण स भूपतिः। जगाम पाताळपथं पञ्चाहानि दिवानिशम् ॥
षष्ठेऽह्नि सर्वेऽप्युत्तीर्य गङ्गां पातालवाहिनीम् । भूमौ रजतमण्य ते दिव्यमैक्षन्त काननम् ॥
स्थलप्रफुल्लसौवर्णकमलामोदवासितम् । उद्यप्रवालकर्णीरचन्दनागुरुपादपम् ॥
तन्मध्ये महाभोगं रत्नसोपानसुन्दरम् । सौवर्णभित्ति माणिक्यस्तम्भसंभारभासुरम् ॥
चन्द्रकान्तशिलाबद्धविशालामलसारकम् । प्रहृष्टा दृशुः प्रांशु शैवमायतनं च ते ॥
ततश्च स तपस्वी तान्स्वशिष्यांस्तं च भूपतिम् । भूनन्नं ज्ञानिवरो जाताश्चर्यानभाषत ॥
अयं स देवः पातालनिलयो हाटकेश्वरः। गीयते त्रिषु लोकेषु तदसौ पूज्यतामिति ॥
ततः सर्वेऽपि ते तैस्तैः पुष्पैः पातालसंभवैः । तन्नङ्गाम्भःप्लुताः शंभु पूजयामासुरत्र तम् ॥
तत्पूजाक्षणविश्रान्ता गत्वा प्रापुस्ततश्च ते । पतत्पकफळं दिव्यमेकं जम्बूमहद्भयम् ॥
तं प्रेक्ष्य स तपस्वी तानवोचन्न फलानि वः । भक्ष्याण्येतस्य विन्नं हि भुक्तान्येतानि कुर्वते ॥
तच्छत्वापि चखादैकस्तच्छिष्यस्तत्फलं क्षुधा । खादित्वैव च संपेदे निश्चेष्टः स्थावराकृतिः ॥
ततस्तद्दर्शनत्रान्परित्यक्तफलस्पृहैः । स तपस्वी सहान्यैस्तैः शिष्यैर्गुनन्दनान्वितः ॥
क्रोशमात्रमतिक्रम्य हेमप्राकारमुच्छूितम् । सद्रत्नरचितद्वारमत्रावस्थितमैक्षत ॥
तझारपार्श्वयोर्लोहमयाझावुभयोरुभौ । प्रवेशरोधिनौ मेषौ दृष्टं शृङ्गप्रहारिणं ॥
हत्वा सपदि दुण्डेन न्यस्तमत्रेण मूर्धनि । विद्रावयामास स तौ कापि वजहताविव ॥