पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३८२
[ आदितस्तरङ्गः
कथासरित्सागरः ।

ततस्तदेव मे घा(त्यं किं च यद्यपकारतः । वध्या एते कथं नात्र रक्ष्याः स्युरुपकारतः ॥
नैते कुर्युरिदं चेन्मे क्षमां मोक्षफलामहम् । कस्य कुर्यां तदेतैमैं पूणैवोपकृतिः कृता ॥
इत्यादिभिः स बहुभिर्वाक्यैः क्षान्तिपरो मुनिः । प्रबोध्य तं नृपं चौरान्निग्रहात्तानमोचयत् ॥
तपसश्चास्य माहात्म्यात्तत्क्षणं प्राग्वदक्षतम् । शरीरमभवत्तस्य सिद्धिश्चाविरभूत्तदा ॥
एवं तरन्ति क्षमिणः संसारमिति वर्णिता । क्षमापारमिता तुभ्यं मैथुपारमितां श्रुणु ॥
आसीन्मालाधरो नाम पूर्वे ब्राह्मणपुत्रकः। सोऽपश्यदेक सिद्धकुमारं व्योमगामिनम् ॥
तस्पर्धयातृणमयान्पक्षानाबध्य पार्श्वयोः । उप्नुयोष्ठंख्य गगने गत्यभ्यासमशिक्षत ॥
प्रत्यहं च तथा कुर्वन्परिश्रममपार्थकम् । कशे स कुमारेण कदाचिध्व्योमचारिणा ॥
वैर्ययुक्तः परिश्राम्यदुष्प्रापेऽर्थेऽपि सोद्यमः । बालोऽयमनुकम्प्यो मे मम हेष परिग्रहः ॥
इति संचिन्त्य तुष्टेन नीत्वा तेन स्वशक्तितः । स्कन्देन द्विजमुख्योऽसाधारमनोऽनुचरः कृतः ॥
इत्थं धैर्येण तुष्यन्ति देवता अपि ते मया । धैर्यपारमिता प्रोक्ता ध्यानपारमितां श्रुणु ॥
आसीद्विजयमालीति कर्णाटेषु पुरा बणिच् । अभून्मलयमालीति महद्धेस्तस्य चात्मजः ॥
स तेन पित्रा सहितो जातु राजकुलं गतः । राज्ञस्तस्य युवापश्यदिन्दुकेसरिणः सुताम् ॥
सा तस्येन्दुयशा नाम मारवंशीव मोहिनी । वणिक्पुत्रस्य दृष्टैव विवेश हृदि कन्यका ॥
ततः स गृहमागत्य विनिद्रो निशि पाण्डुरः। दिवा संकुचित स्तस्थावालम्ब्य कुमुद्व्रतम् ॥
तामेव चान्वहं ध्यायन्नाहारादिपराङ्मुखः । पृष्टोऽपि स्वजनेनैव मूकवाकिंचिदभ्यधात् ॥
अथैकान्ते तथारूपं तमानो विरहातुरम् । सुहृन्मन्थरको नाम राजचित्रकरोऽब्रवीत् ॥
सखे किं भित्तिसक्तस्त्वं तिष्ठस्यालिखितो यथा । रूपैकसरोऽनाश्वासी न शृणोषि न पश्यसि ॥
इति निर्बन्धतस्तस्मै पृच्छते स वणिक्सुतः। सख्ये मलयमाली स्वमभिप्रायं शशंस तम् ॥
युक्ता न ते वणिक्पुत्र राजपुत्रीं प्रति स्पृहा । हंसो वाञ्छतु नामान्यसरोम्बुजसुखश्रियम् ॥
हरिनाभीह्रदम्भोजभोगलक्ष्म्या। स कः पुनः । इति ब्रुवन्स च यद चित्रछन्न शशाक तम् ॥
प्रतिषेद्वै तदा तस्मै तामुत्कण्ठाविनोदिनीम् । कालातिवाहयालिख्य राजपुत्रीं पटे ददौ ॥
सोऽपि चित्रस्थितां प्राप्य पश्यन्ननुनयन्स्पृशन् । आसीन्मल्यमाली तां भूषयंश्च वणिक्सुतः ॥
सेयमिन्दुयशा राजपुत्रीत्येवं ख भावयम् । क्रमातन्मयतां प्राप्य तया वृत्त्याकरोत्क्रियाः ॥
शनैश्च तामलपन्तीं चुम्बनादि च कुर्वतीम् । तद्भावनाभावितः सन्नपश्यदिखितामपि ॥
ततः स भावनासिद्धकान्तासंभोगसुस्थितः तथौ चित्रपटयैककृत्नसंसारनिर्युतः ॥
एकादाय तं चित्रपटं चन्द्रोदयेऽथ सः। निर्गत्योद्यानमगमद्विहतुं प्रियया सह ॥
तत्रैकस्य तरोर्मुले तं निवेश्य पटं च सः । विप्रकृष्टं ययौ पुष्पाण्यवचेतुं प्रियकृते ॥
तत्कालं विनयज्योतिर्जुमाम्बरतलान्मुनिः। दृष्ट्वा तं कृपया मोहदुद्धरिष्यन्नवातरत् ॥
सोऽत्र चित्रपटस्यैकदेशे तस्य स्वशक्तितः । सजीवं खर्पमालिख्य कृष्णं तस्थावळक्षितः ॥
तावन्मलयमाली च पुष्पाण्युचित्य तत्र सः । आगत्य कृष्णसर्प तं पटे दृष्ट्वा व्यचिन्तयत् ॥
सर्पः कुतोऽधुनामैषो विधिना किं नु निर्मितः । निधानभूतां रूपस्य रक्षितुं सुन्दरीमिमम् ॥
इति संचिन्त्य पुष्पैस्तामलंकृत्य प्रियां पडे । भावनोपनतां याचदालिङ्गयैतत्र पृच्छति ॥
तावद्ददर्श तस्यात्र सुनेर्मायाप्रभावतः। एतां कृष्णाहिना तेन दष्टां विगतजीविताम् ॥
ततः स विस्मृतपटो हाथेत्युवैव मोहितः। पपात पटसंसिद्धविद्याधर इव क्षितौ ॥
क्षणच संज्ञां संप्राप्य विलपन्मरणोन्मुखः। उस्थायारुह्य वृक्षाग्रातुङ्गदामानमक्षिपत् ॥
पतन्तमेव तस्माच्च पाणिभ्यां स तमग्रहीत् । मुनीन्द्रः प्रकटीभूय समाश्वास्य जगाद च ॥
मूढ वेरिस न किं यत्सा राजपुत्री स्वमन्दिरे। स्थिता चित्रपट चैषा निर्जीवा चित्रपुत्रिका ॥
तलिङ्गसि कां का व्र तव दृष्टा महहिना । रागिणस्ते स्वसंकल्पभावनाभ्रम एष कः ॥