पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३८०
[ आदितस्तर
कथासरित्सागरः ।

तत्क्षणं राजसंबन्धी भन्नालानो महाद्विपः। मत्तो व्यापादयजन्तूस्तदेव स्थानमागमत् ॥
तत्रासान्मां कापि वधका गताः। अहं च तुमुले तस्मिन्पलाय्यैव ततो गतः ॥
परित्यज्य ते
वधाय नीयमानं मां श्रुत्वैवोक्रान्तजीवितम् । पितरं लोकतोऽश्रेषं मात्रा मेऽनुगतं ततः ॥
अथ शोकातुरो भ्राम्यन्खिन्नो देहव्ययोन्मुखः। क्रमादिदमहं प्राप्तो विजनं काननं महत् ॥
इह प्रविष्टमात्रं मामकस्मादत्तदर्शना । उपेत्य कापि दिव्या स्त्री ऋताश्वासभ्यभाषत ॥
त्वं विनीतमतेः पुत्र राजर्षेरिममाश्रमम् । प्राप्तो गतं च ते पापं ज्ञानं तस्माच्च लप्स्यसे ॥
इदमुक्त्वा तिरोऽभूत्सा भ्राम्यंश्चाहमनाप्नुवन् । राजर्षे तं शुचात्मानं त्यक्तुमिच्छंस्त्वयेक्षितः ॥
इत्युक्तवन्तं नीत्वा तं सोमश्रं निजोटजम् । आवेद्यात्मानमतिथिं स राजर्षिरपूजयत् ॥
कृताहारश्च तं प्रहं नानाधर्मकथान्तरे । निवारयिष्यन्नज्ञानात्स राजमुनिरब्रवीत् ॥
अज्ञानं वत्स हातव्यं विपर्यस्तधियां हि तत् । लोकद्वयेऽपि दोषाय शृणु चात्रागमश्चतिम् ।॥
पाथलेषु पुरा देवभूतिनामाभवद्विजः । तस्याभूद्भोगवत्याख्या भार्या ॥
गृहीतलगुडा तं च सभ्यधावत्खरश्च सः । पलायमानः पूतितः धर्मे भग्न ॥
तद्वद्वा सोऽत्र तत्स्वामी क्रोधादागत्य धावकः । लगुडै: पादघातैश्च ब्राह्मणीं ॥
तेन साकाण्डविभ्रष्टगर्भाभूद्भर्भिणी सती । ततः स खरमादाय धावकः स्वगृ*ि/ ॥
नवागतोऽथ तद्भर्ता तद्रुद्धा वीक्ष्य तां च सः। भार्यं विप्रः पुराध्यक्ष-गत्वनेन व्यजिज्ञपत् ॥
स बलासुरनामानं तदैशनीय धावकम् । श्रुत्वा तयोर्दूयोर्वादं सूख विवृतवानिदम् ॥
खुरभङ्गखरस्यास्य धावकस्य वहत्वयम् । खरभारं द्रिज यावदप्रकृतिस्थो भवेत्खरः ॥
धावकोऽप्ययमेतस्य भार्यायामत्रजन्मनः । गर्भ प्रजनयत्वन्यं तस्य तद्र्भपातनात् ॥
एषोऽनयोर्दूयोर्दण्ड इत्युक्ते तेन स द्विजः संतापाद्भक्षितविषः सभार्योऽपि जहवसून् ॥
तद्वद्वा तत्र निहतो राज्ञा दुरवधारकः । ब्रह्महा स पुरध्यक्षस्तिर्यग्योनिं गतश्चिरम् ॥
इत्यज्ञानतमश्छन्नः स्वदोषोन्मार्गगामिनः अपुरस्कृतसच्छास्त्रदीप भ्रश्यन्ति निश्चितम् ॥
एवमुक्त्वा स राजर्षिरुपदेशार्थिनं पुनः । सोमशरं विनेतुं तं विनीतमतिरभ्यधात् ॥
वत्स पारमितार्थं ते वच्मि तावत्क्रमच्छुणु । पूर्व राजा कुरुक्षेत्रे मलयप्रभ इत्यभूत् ॥
तं कदाचित्प्रजाभ्योऽर्थ दुर्भिक्षे ददतं नृपम् । मन्त्रिभिर्वारितं लोभागादेन्दुप्रभः सुतः ॥
उपेक्षसे प्रजास्तात कथं दुर्मन्त्रिणां गिरा । त्वं हि कल्पद्रुमस्तासां ताश्च ते कामधेनवः ॥
निर्बन्धादिति जल्पन्तं पुत्रं मत्रिवशो नृपः। खेदात्तं सोऽब्रवीद्वत्स किं मेऽस्ति धनमक्षयम् ॥
विना तेन प्रजाकल्पपादपश्चेद्भवाम्यहम् । तत्वमेव किमेतासां न धत्से कल्पवृक्षतम् ॥
एतच्छुत्वा पितुश्चक्रे प्रतिज्ञां स नृपारमजः । मर्तव्यं ॥
कल्पवृक्षत्वं साध्यं वा तपस मया ॥
इति निश्चित्य स प्रायान्महासत्वस्तपोवनम् । आरूढ एव तमिश्च स दुर्भिक्षो न्यवर्तत ॥
ततोऽर्थितवरस्तीव्रतपस्तुष्टान्महेन्द्रतः । स्वस्मिन्नेव स संजज्ञे नगरे कल्पपादपः ॥
आकर्षन्निव दूरस्थान्नाद्यन्निव चार्थिनः । प्रसारिताभिः शाखाभिर्दिक्षु शब्दैश्च पक्षिणाम् ॥
ददौ च कामानर्थभ्यो दुष्प्रापानपि सोऽन्वहम् । चक्रे च ता निराकाङ्काः प्रजा स्वर्गस्थिता इव ॥
कालेन च महेन्द्रस्तमागत्योवाच लोभयन् । पूर्णः परोपकारस्ते स्वर्गयागम्यतामिति ॥
ततः कल्पद्रुमीभूतस्तं स राजसुतोऽभ्यधात् । यत्र पुपैः फलै रम्यैरष्यन्यतरवोऽप्यमी ॥
पारार्थमेव सततं भजन्ति स्वार्थनिःस्पृहः । तत्र कल्पतरुर्भूत्वा स्वसुखाय कथं दिवम् ॥
इयतऽस्य व्रजाम्यहम् श्रुत्वा शकोऽब्रवीत्पुनः ॥
जनस्याशाछेदं कृत्वा । इत्युदारं वचस्तस्य ॥
तर्हि प्रजापि ते कृत्न स्वर्गमायात्वसाविति । ततस्तमवद्राजसूनुः कल्पद्रुमोऽपि सः ॥
तुष्टोऽसि वेन्नय स्वर्गं प्रजा नार्योऽस्ति तेन मे । अहं परोपकारैकसिद्ध्यै तप्स्ये तपो महत् ॥