पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०
[ आदितस्तरंङ्ग ७
कथासरित्सागरः।

तच्छुत्वैव मनुष्यत्वसुलभाचापलाद्त । उत्तरं सूत्रमभ्यूब स्वयमेव मयोदितम् ॥ ११

अथात्रवीत्स देवो मां नावदिष्यः स्त्रयं यदि । अभविष्यदिदं शास्त्रं पाणिनीयोपमर्दकम् ॥ १२

अधुना स्खल्पतश्रत्वकातत्राख्यं भविष्यति । मद्वाहनकलापस्य नान्न कलापकं तथा ॥ १३

इत्युक्त्वा शब्दशास्त्रं तत्प्रकाश्याभिनवं लघु । साक्षादेव स मां देवः पुनरेवमभाषत ॥ १४

युष्मदीयः स राजापि पूर्वजन्मन्यभूदृषिः । भरद्वाजमुनेः शिष्यः कृष्णसंज्ञो महातपाः ॥ १५

तुल्याभिलाषामालोक्य स चैकां मुनिकन्यकाम् । ययावकस्मात्पुष्पेषुशरघातरसज्ञताम् ॥ १६

अतः स शप्तो मुनिभिरवतीर्ण इहधुना । सा चावतीर्णा दैत्रीत्वे तस्यैव मुनिकन्यका ॥ १७

इत्थमृष्यवतारोऽयं नृपतिः सातवाहनः । दृष्टं त्वय्यखिला विद्या प्राप्स्यत्येव त्वदिच्छया ॥ १८

अक्लेशलभ्या हि भवन्त्युत्तमार्थं महात्मनाम् । जन्मान्तरार्जिताः स्फारसंस्काराक्षिप्तसिद्धयः ॥ १९

इत्युक्त्वान्तर्हिते देवे निरगच्छमहं बहिः। तण्डुला मे प्रदत्ताश्च तत्र देवोपजीविभिः ॥ २०

ततोऽहमागतो राजंस्तण्डुलास्ते च से पथि। चित्रं तावन्त एवासन्भुज्यमाना दिने दिने ॥ २१

एवमुक्त्वा स्ववृत्तान्तं विरते शर्ववर्मणि । उदतिष्ठन्नृपः नतुं प्रहृष्टः सातवाहनैः ॥ २२

ततोऽहं कृतमौनत्वाव्यवहारबहिष्कृतः । अनिच्छन्तं तमामद्य प्रणामेनैव भूपतिम् ॥ २३

निर्गत्य नगरात्तस्माच्छिष्यद्वयसमन्वितः । तपसे निश्चितो द्रष्टुमागतो विन्ध्यवासिनीम् ॥ २४

स्वप्नादेशेन देव्या च तयैव प्रेषितस्ततः । विन्ध्याटवीं प्रविष्टोऽहं त्वां द्रष्टुं भीषणामिमाम् ॥ २५

पुलिन्दवाक्यादसाद्य सार्थ दैवात्कथंचन । इह प्राप्तोऽहमद्राक्षी पिशाचान्सुबहूनमून् ॥ २६

अन्योन्यालापमेतेषां दूराद कण्थं शिक्षिता । मया पिशाचभाषेयं मौनमोक्षस्य कारणम् ॥ २७

उपगम्य ततश्चैतां त्वां श्रुत्वोज्जयिनीगतम् । प्रतिपालितवानस्मि यावदभ्यागतो भवान् ॥ २८

दृष्ट्वा त्वां स्वागतं कृत्वा चतुर्थी भूतभाषया । मया जातिः स्मृतेत्येष वृत्तान्तो मेऽत्र जन्मनि ॥ २९

एवमुक्ते गुणाढ्येन कातिरुवाच तम् । त्वदागमो मया ज्ञातो यथाद्य निशिं तच्छुणु ॥ ३०

राक्षसो भूतिवर्माख्यो दिव्यदृष्टिः सखास्ति मे । गतवानस्मि चोद्यानमुज्जयिन्यां तदस्पदम् ॥ ३१

तत्रासौ निजशापान्तं प्रति पृष्टो मयाघ्रवीत् । दित्र नास्ति प्रभावो नस्तिष्ठ रात्रौ बदाम्यतः ॥ ३२

तथेति चाहं तत्रस्थः प्राप्तायां निशि बल्गताम् । तमपृच्छं प्रसङ्गन भूतानां हर्षकारणम् ॥ ३३

पुरा विरिञ्चसंवादे यदुक्तं शंकरेण तंत् । श्रुणु बमीति मामुक्त्वा भूतिवर्माथ सोऽब्रवीत् ॥ ३४

दिवा नैषां प्रभावोऽस्ति ‘घस्तानमर्कतेजसा । यक्षरक्षःपिशाचानां तेन हृष्यन्त्यमी निशि ॥। ३५

न पूज्यन्ते सुरा यत्र न च विप्रा यथोचितम् । भुज्यतेऽविधिना वापि तत्रैते प्रभवन्ति च ॥ ३६

अमांसभक्षः साध्वी वा यत्र तत्र न यान्त्यमी । शुचीञ्शूरान्प्रबुद्धांश्च नाक्रामन्ति कदाचन ॥ ३७

इत्युक्त्वा मे स तत्कालं भूतिवर्माब्रवीत्पुनः । गच्छागतो गुणाढयस्ते शापमोक्षस्य कारणम् ॥ ३८

श्रुत्वैतद्गतश्चास्मि त्वं च दृष्टो मया प्रभो । कथयाम्यधुना तां ते पुष्पदन्तोदितां कथाम् ॥। ३९

किं त्वेकं कौतुकं मेऽस्ति कथ्यतां केन हेतुना । स पुष्पदन्तस्त्वं चापि माल्यवानिति विश्रुतः ॥ ४०

काणभूतेरिति श्रुत्वा शुणाढ्यस्तमभाषत । गङ्गातीरेऽप्रहरोऽस्ति नाम्ना बहुसुवर्णकः ॥ ४१

तत्र गोविन्ददत्ताख्यो ब्राह्मणोऽभूद्हुश्रुतः । तस्य भार्याग्निदत्ता च बभूध पतिदेवता ॥ ४२

स कालेन द्विजस्तस्य पञ्च पुत्रानजीजनत् । ते च मूढः सुरूपाश्च बभूवुरभिमानिनः ॥ ४३

अथ गोविन्ददत्तस्य गृहनतिथिरायणैौ । विप्रो वैश्वानरो नाम वैश्वानर इवापरः ॥ ४४

गोविन्ददत्ते तत्कालं झदपि बहिः स्थिते । तत्पुत्राणामुपागत्य कृतं तेनाभिवादनम् ॥ ४५

हासमात्रं च तैस्तस्य कृतं प्रत्यभिवादनम् । ततः स कोपान्निर्गन्तुं प्रारेभे तद्वहद्विजः ॥ ४६

आगतेनाथ गोविन्ददत्तेन स तथाविधः । क्रुद्धः पृष्टोऽनुनीतोऽपि जगादैवं द्विजोत्तमः ॥ ४७

पुत्रास्ते पतिता सूखस्तस्संपर्कोज़बानपि । तस्मान्न भोक्ष्ये त्वद्देहे प्रायश्चित्तं तु मे भवेत् ॥४८

अथ गोविन्ददन्तस्तमुवाच शपथोत्तरम् । न स्पृशाम्यपि जात्वेतानहं कुतनयानिति ॥ ४९