त्वैवैतदसंभाव्यं तमवोचमहं रुषा । षद्भिर्मासैस्त्वया देवः शिक्षितश्चेत्ततो मया ॥ १४७
स्कृतं प्राकृतं तद्वद्देशभाषा च सर्वदा। भाषात्रयमिदं त्यक्तं यन्मनुष्येषु संभवेत् ॥ १५८
वैवर्मा ततोऽवादीन्न चेदेवं करोम्यहम् । द्वादशाब्दान्वहास्येष शिरसा तव पादुके ॥ १४९
युक्त्वा निर्गते तस्मिन्नहमध्यगमं गृहम् । राजाप्युभयतः सिद्धिं मत्वाश्वस्तो बभूव सः ॥ १५०
हस्तः शर्ववर्मा च प्रतिज्ञां तां सुदुस्तराम् । पश्यन्सानुशयः सर्वे स्वभार्यायै शशंस तत् ॥ १५१
पि तं दुःखितावोचत्संकटेऽस्मिस्तव प्रभो । विना स्वामिकुमारेण गतिरन्या न दृश्यते ॥ १५२
थेति निश्चयं कृत्वा पश्चिमे प्रहरे निशि । शर्ववर्मा निराहारस्तत्रैव प्रस्थितोऽभवत् ॥ १५३
च चारुमुखाद्वा मया प्रातर्निवेदितम् । राज्ञे सोऽपि तदाकण्यं किं भवेदित्यचिन्तयत् ॥ १५४
सस्तं सिंहगुप्ताख्यो राजपुत्रो हितोऽब्रवीत् । त्वयि खिने तदा देव निर्वेदो मे महानभूत् ॥ १५५
यः श्रेयोनिमित्तं ते चण्डिकामे निजं शिरः। छेतुं प्रारब्धवानस्मि गत्वास्मान्नगराद्वहिः॥ १५६
ग्रं कृथा नृपस्येच्छा सेत्स्यत्येवेत्यवारयत् । वागन्तरिक्षादथ मां तन्मन्ये सिद्धिरस्ति ते ॥ १५७
युक्त्वा नृपमामत्रय सत्वरं शर्ववर्मणः। पश्चाच्चरद्वयं सोऽथ सिंहगुप्तो व्यसर्जयत् ॥ १५८
पि वातैकभक्षः सन्कृतमौनः सुनिश्चयः । प्राप स्वामिकुमारस्य शर्ववर्मान्तिकं क्रमात् ॥ १५९
रीरनिरपेक्षेण तपसा तत्र तोषितः । प्रसादमकरोत्तस्य कार्तिकेयो यथेप्सितम् ॥ १६०
गत्याने ततो राज्ञे चारभ्यां स निवेदितः । सिंहगुप्तविसृष्टाभ्यामुदयः शर्ववर्मणः ॥ १६१
कृत्वा मम राज्ञश्च विषादप्रमदौ द्वयोः। अभूतां मेघमालोक्य हंस चातकयोरिव ॥ १६२
गत्य शर्ववर्माथ कुमारवरसिद्धिमान् । चिन्तितोपस्थिता राज्ञे सर्वा विद्याः प्रदत्तवान् ॥ १६३
दुरासंश्व तास्तस्य सातवाहनभूपतेः । तत्क्षणं किं न कुर्याद्धि प्रसादः पारमेश्वरः ॥ १६४
अथ तमखिळविद्यालाभमाकण्र्य राज्ञः प्रमुदितवति राष्ट्रे तत्र कोऽयुत्सवोऽभूत् ।
अषि पवनविधूतास्तत्क्षणोदास्यमानाः प्रतिवसति पताका बद्धनृत्ता इवासन् ॥ १६५
राजाहीरत्ननिचयैरथ शर्ववर्मा तेनार्चितो गुरुरिति प्रणतेन राज्ञा ।
स्वामीकृतश्च विषये भरुकच्छनानि ठूलोपकण्ठविनिवेशिनि नर्मदायाः ॥ १६६
योऽग्रे चारमुखेन षण्मुखबरप्रातिं समाकणेय
संतुष्यात्मसमं श्रिया नरपतिस्तं सिंहगुप्तं व्यधात् ।
राक्षीं तामपि विष्णुशक्तितनयां विद्यागमे कारणं
देवीनामुपरि प्रसह्य कृतवान्प्रीत्याभिषिच्य स्वयम् ॥ १६७
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथापीठलम्बके षष्ठस्तरङ्गः ।
*****
सप्तमस्तरङः
ओ गृहीतमौनोऽहं राजान्तिकमुपागमम् । तत्र च श्लोकमपठडूिजःकश्चियं कृतम् ॥ १
चचष्ट स्वयं राजा सम्यक्संस्कृतया गिरा । तत्रालोक्य च तत्रस्थो जनः प्रमुदितोऽभवत् ॥२
छः स शर्ववर्माणं राजा सविनयोऽब्रवीत् । स्वयं कथय देवेन कथं तेऽनुग्रहः कृतः ॥३
छुत्वानुग्रहं राज्ञः शर्ववर्माभ्यभाषत । इतो राजन्निराहारो मौनस्थोऽहं तदा गतः ॥४
शेऽध्वनि मनाक्छेषे जाते तीव्रतपः कृशः । क्लान्तः पतितवानस्मि निःसंज्ञो धरणीतले ॥५
तेष्ठ पुत्र सर्वे ते संपत्स्यत इति स्फुटम् । शक्तिहस्तः पुमानेत्य जाने मामब्रवीत्तदा ॥ ६
बाहममृतासारसंसिक्त इव तत्क्षणम् । प्रबुद्धः क्षुत्पिपासादिहीनः स्वस्थ इवाभवम् ॥ ७
थ देवस्य निकटं प्राप्य भक्तिभराकुलः । स्नात्वा गर्भगृहं तस्य प्रविष्टोऽभूवमुन्मानाः ॥ ८
जोऽन्तः प्रभुणा तेन स्कन्देन मम दर्शनम् । दत्तं ततः प्रविष्टा में मुखे मूर्ती सरस्वती ॥ ९
थास भगवान्साक्षात्षद्भिराननपङ्कजैः । सिद्धो वर्णसमाम्नाय इति सूत्रमुदैरयत् ॥ १०