पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२२०

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तस्मादत्यक्तधैर्येण भाव्यमापदि धीमता । उपस्थितमिदानीं तु युद्धे पिङ्गलकेन ते ॥
यदैवोरिक्षप्तलाङ्गलश्चतुर्भिश्चरणैः समम् । उत्थास्यति स ते विद्याः प्रजिहीर्थं तदैव तम् ॥
सज्जो नतशिरा भूत्वा भृङ्गाभ्यामुदरे च तम् । हत्वाभिपतितं कुर्याः कीर्णान्ननिकरं रिपुम् ॥
एवमुक्त्वा दमनकः संजीबकवृषं स तम्। गत्वा करटकायोभौ सिद्धभेदौ शशंस ौ ॥
ततः संजीवकः प्रायाच्छनैः पिङ्गलकान्तिकम् । जिज्ञासुरिङ्गिताकारैश्चित्तं तस्य मृगप्रभोः ॥
ददशोंक्षिप्तलाङ्गलं युयुत्सुं तं समाङ्गिकम् । सिंहं सिंहोऽप्यपश्यत्तं शङ्कचूतखमस्तकम् ॥
ततः प्राहरदुत्पत्य स सिंहोऽस्मिन्वृषे नवैः । वृषोऽपि तस्मिञ्जङ्गाभ्यां प्रावर्तष्टाहवस्तयोः ॥
तच दृष्ट्वा दमनकं साधुः करटकोऽब्रवीत् । किं स्वार्थसिद्ध्यै व्यसनं प्रभोरुत्पादितं त्वया ॥
संपत्प्रजानुतापेन मैत्री शाठ्येन कामिनी। पारुष्येणाहूता मित्र न चिरस्थायिनी भवेत् ॥
अलं वा यो बहु ब्रूते हितवाक्यावमानिनः । स तस्माल्लभते दोषं कपेः सूचीमुखो यथा ॥
पूर्वमासन्वने कापि वानरा यूथचारिणः । ते शीते जातु खद्योतं दृष्ट्वाग्निरिति मेनिरे ॥
तस्मिंश्च तृणपर्णानि विन्यस्याङ्गमतापयन् । एकस्तु तेषां खद्योतमधमत्तं मुखानिलैः ॥
तदृष्ट्वा तत्र तं प्राह पक्षी सूचीमुखाभिधः । नैषोऽग्निरेष खद्योतो मा छेशमनुभूरिति ॥
तच्छुत्वाप्यनिवृत्तं तं पक्षी सोऽभ्येत्य वृक्षतः । न्यवारयद्यन्निर्बन्धास्कपिस्तेन चुकोप सः ॥
क्षिप्तया शिलया तं च सूचीमुखमचूर्णयत् । तस्मान्न तस्य वक्तव्यं यः कुर्यान्नहितं वचः ॥
अतः किं वच्मि दोषाय भेदस्तावत्कृतस्त्वया । दुष्टया क्रियते यच्च बुद्धथा तन्न शुभं भवेत् ॥
तथा चाभवतां पूर्वं भ्रातरौ द्वौ वणिक्सुतौ । धर्मबुद्धिस्तथ दुष्टबुद्धिः क्वचन पत्तने ॥
तावद्यार्थं पितुर्गेहाद्वा देशान्तरं सह । कथंचित्स्वर्णदीनारसहस्रद्वयमापतुः ॥
तद्वहीत्वा स्वनगरं पुनराजग्मतुश्च तौ । वृक्षमूले च दीनारान्भूतले तान्निचख्नतुः ॥
शतमेकं गृहीत्वा च दीनाराणां विभज्य च । परस्परं समांशेन तस्थतुः पितृवेश्मनि ॥
एकदा दुष्टबुद्धिः स गत्वा तरुतलात्ततः । एक एवाग्रहीत्स्वैरं दीनारांस्तानसव्ययी ॥
मासमात्रे गते तं च धर्मबुद्धिमुवाच सः। एह्यार्यं विभजावस्तान्दीनारानस्ति मे व्ययः ॥
तच्छुत्वा धर्मबुद्धिस्तां गत्वा भूमिं तथेति सः । चखान तेनैव समं दीनारान्यत्र तत्रयधात् ॥
संप्राप्ता न यदा ते च दीनाराः खातकात्ततः । तदा स दुष्टबुद्धिस्तं धर्मबुद्धेि शठोऽब्रवीत् ॥
नीतास्ते भवता तन्मे स्वमर्थं दीयतामिति । न ते नीता मया नीतास्त्वयेत्याह स्म तं च सः ॥
एवं प्रवृत्ते कलहे सोऽश्मनाताडयच्छिरः। दुष्टबुद्धी राजकुलं धर्मबुद्धिं निनाय च ॥
तन्नोक्तखस्खपझौ तावनासादितनिर्णयैः । स्थाषितावा दिनच्छेदमुभौ राजाधिकारिभिः ॥
यस्य मूले न्यधीयन्त दीनारास्ते वनस्पतेः । स साक्षी वक्ति यन्नीतास्तेऽमुना धर्मबुद्धिना ॥
इत्युवाचाथ तान्दुष्टबुद्धी राजाधिकारिणः । प्रक्ष्यामस्तर्हि तं प्रातरित्यूचुस्तेऽतिविस्मिताः ॥
ततस्तैर्धर्मबुद्धिश्च दुष्टबुद्धिश्च तावुभौ । दत्तप्रतिभुवौ मुक्तौ विभिन्नौ जग्मतुर्रहम् ॥
दुष्टबुद्धिस्तु वस्तूक्त्वा दत्त्वार्थं पितरं रहः । भव मे वृक्षगर्भान्तः स्थित्वा साक्षीत्यभाषत ॥
बाढमित्युक्तवन्तं च नीत्वा महति कोटरे । निवेश्य तं तरौ तत्र रात्रौ स गृहमाययौ ॥
प्रातश्च राजाधिकृतैः सह तौ भ्रातरौ तरुम् । गत्वा पप्रच्छतुः कस्तान्दीनारान्नीतवानिति ॥
दीनरान्धर्मबुद्धिस्तान्नीतवानिति स स्फुटम् । तवृक्षकोटरान्तःस्थस्ततोऽभाषत तत्पिता ॥
तदसंभाव्यमाकण्यै निश्चितं दुष्टबुद्धिना । अत्रान्तः स्थापितः कोऽपीत्युक्त्वाधिकृतकाश्च ते ॥
तरुगमै ददुधैमं येनाध्मातः स निःसरन्। निपत्याधोगतः क्ष्मायां दुष्टबुद्धिपिता मृतः ॥