ततः स तद्रयाद्त्वा रक्षन्ती गर्भमास्मनः । तस्थौ कुमारदत्तस्य पितृमित्रस्य वश्मनि ॥
तत्र तस्याश्च जातोऽहं साया वृत्तिनिबन्धनम् । ततश्चावर्धयत्सा मां ऋच्कर्माणि कुर्वती ॥
उपाध्यायमथाभ्यर्थं तयाकिंचन्यदीनया । क्रमेण शिक्षितश्चाहं लिपिं गणितमेव च ॥
वणिक्पुत्रोऽसि तत्पुत्र वाणिज्यं कुरु सांप्रतम् । विशाखिलाख्यो देशेऽस्मिन्वणिचास्ति महाधनः ॥
दरिद्राणां कुलीनानां भाण्डमूल्यं ददाति सः । गच्छ याचस्व तं मूल्यमिति माताब्रवीच्च माम् ॥
ततोऽहमगमं तस्य सकाशं सोऽपि तत्क्षणम् । इत्यत्रोचङ्धा कंचिद्वणिक्पुत्रं विशाखिकाः ॥
मूषकोदृश्यते योऽयं गतप्राणोऽत्र भूतले । एतेनापि हि पण्येन कुशलो धनमर्जयेत् ॥
दत्तास्तव पुनः पाप दीनारा बहवो मया । दूरे तिष्ठतु तच्छुद्धिस्त्वया तेऽपि न रक्षिताः ॥
तच्छुत्वा सहसैवाहं तमवोचं विशाखिलम् । गृहीतोऽयं मया त्वत्तो भाण्डमूल्याय मूषकः ॥
इत्युक्त्वा मूषकं इस्ते गृहीत्वा संपुटे च तम् । लिखित्वास्य गतोऽभूद्ममहं सोऽप्यसद्वाणि ॥
चणकाञ्जलियुग्मेन मूल्येन स च मूषकः । मार्जारस्य कृते दत्तः कस्यचिद्वणिजो मया ॥
कृत्वा तांश्चणकान्धृष्टन्गृहीत्व जलकुम्भिकाम् । अतिष्टं चस्वरे गस्वा छायायां नगराद्वहिः ॥
तत्र अन्तगतायाम्भः शीतलं चणकांश्च ताम् । काष्टभारिकसंघाय सप्रश्रयमदामहम् ॥
एकैकः काष्ठिकः प्रीत्या काटे द्वे द्वे ददौ मम । विक्रीतवानहं तानि नीला काष्ठानि चपणे ॥
ततः स्तोकेन मूल्येन क्रीत्वा तांश्चणकांस्ततः। तथैव काष्ठिकेभ्योऽ हमन्येद्युः काष्ठमाहरम् ॥
एवं प्रतिदिनं कृत्वा प्राप्य मूल्यं क्रमान्मया । काष्ठिकेभ्योऽखिलं दारु क्रीतं तेभ्यो दिनत्रयम् ॥
अकस्मादथ संजाते कष्टच्छेदेऽतिवृष्टिभिः । मया तद्दरु विक्रीतं पणानां बहुभिः शतैः ॥
तेनैव विपणिं कृत्वा धनेन निजकौशलात् । कुर्वन्वाणिज्यां क्रमशः संपन्नोऽस्मि महधनः
॥
सौवर्णं मूषकः कृत्वा मया तस्मै समर्पितः । विशाखिलाय सोऽपि स्वां कन्यां मह्यमदात्ततः ॥
अत एव च लोकेऽस्मिन्प्रसिद्धो मूषकाख्यया । एवं लक्ष्मीरियं प्राप्त निर्धनेन सता मया ॥
तच्छुत्वा तत्र तेऽभूवन्वणिजोऽन्ये सविस्मयाः । धीर्न चित्रीयते कस्मादभित्तौ चित्रकर्मणा ॥
कचित्प्रतिग्रहप्राप्तहेममाषाष्टको द्विजः । छन्दोगः कश्चिदित्युक्तो विटप्रायेण केनचित् ॥
श्रावण्याद्भोजनं तावस्ति ते तत्त्वयामुना । लोकयात्रा सुवर्णेन वैदग्ध्यायेह शिक्ष्यताम् ॥
को मां शिक्षयतीत्युक्ते तेन मुग्धेन सोऽब्रवीत् । यैषा चतुरिका नाम वेश्या तस्या गृहं व्रज ॥
तत्र किं करवाणीति द्विजेनोक्तो विटोऽब्रवीत् । स्वर्णं दत्त्वा प्रयुञ्जीथा रञ्जयन्साम किंचन ॥
श्रुत्वेत्यगच्छच्छन्दोगो द्रुतं चतुरिकागृहम् । उपाविशत्प्रविश्यात्र कृतप्रत्युद्गतिस्तया ॥
मामद्य लोकयात्रां त्वं शिक्षयैतेन सांप्रतम्। इति जल्पन्स तत्तस्यै स्वर्णमर्पितवान्द्विजः ॥
प्रहसत्यथ तत्रस्थे जने किंचिद्विचिन्त्य सः । गोकर्णसदृशौ कृत्वा करावाबद्धसारणं ॥
तारस्वरं तथा साम गायति स्म जडाशयः । यथा तत्र मिलन्ति स्म विटा हास्यदिदृक्षवः ॥
तेचावोचङ्गारोऽयं प्रविष्टोऽत्र कुतोऽन्यथा । तच्छीघ्रमर्धचन्द्रोऽस्य गलेऽस्मिन्दीयतामिति ॥
अर्धचन्द्रं शरं मत्वा शिरश्छेदभयाद्भुतम् । शिक्षिता लोकयात्रेति गर्जन्स निरगात्ततः ॥
तत्सकाशं ततोऽगच्छद्येनासौ प्रेषितोऽभवत् । वृत्तान्तं चावदत्तस्मै सोऽपि चैनमभाषत ॥
साम सान्त्वं मयोक्तं ते वेदस्यावसरोऽत्र कः। किं वा धारधिरूढं हि जाड्यं वेदजडे जने ॥
एवं विहस्य गत्वा च तेनोक्ता सा विलासिनी । द्विपस्य पशोरस्य तत्सुवर्णतृणं त्यज ॥
हसन्त्या च तया त्यक्तं सुवर्णं प्राप्य स द्विजः । पुनर्जातमिवात्मानं मन्वानो हमागतः ॥
एवंप्रायाण्यहं पश्यन्कौतुकानि पदे पदे । प्राप्तवान्राजभवनं महेन्द्रसदनोपमम् ॥
ततश्रान्तः प्रविष्टोऽहं शिध्यैनं निवेदितः । आस्थानस्थितमद्राक्षे राजानं सातवाहनम् ॥
शर्ववर्मप्रभृतिभिर्मन्त्रिभिः परिवारितम् । रत्नसिंहासनासीनममरैरिव वासवम् ॥
विहितस्वस्तिकारं मामुपविष्टमथासने । राज्ञा कृतादरं चैव शर्ववर्मादयोऽस्तुवन् ॥
पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२२
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६
[ आदितस्तरङ्गः
कथासरित्सागरः।