एत क्रुत्वा दमनकः प्राह मा मैवमादिश । यस्तुल्यः क्रियते राज्ञा न तद्वच्छीः प्रसर्पति ॥
द्वयोर्दत्तपदा सा च तयोरुच्छूितयोश्चला । न शक्नोति चिरं स्थातुं ध्रुवमेकं विमुञ्चति ॥
प्रभुश्च यो हितं द्वेष्टि सेवते चाहितं सद् । स वर्जनीयो विद्वद्भिर्वेदैर्जुष्टातुरो यथा ॥
अप्रियस्य प्रथमतः परिणामे हितस्य च। वक्ता श्रोता च यत्र स्यात्तत्र श्रीः कुरुते पदम् ॥
न शृणोति सतां मञ्जम सतां च श्रुणोति यः। अचिरेण स संप्राप्य विपदं परितप्यते ॥
तदस्मिनुक्ष्णि कः स्नेहस्तव देव किमस्य वा । दुह्यतोऽभयदानं तच्छरणागतता च का ॥
किं चैतस्य भवत्पार्ये नित्यसंनिहितस्य.गोः। देव कीटाः प्रजायन्ते ये तन्मूत्रपुरीषयोः ॥
ते चेद्विशन्ति मत्तेभदन्ताघातत्रणावृते । शरीरे भवतः किं न वृत्तः स्याद्युक्तितो वधः ॥
दुर्जनश्चेत्स्वयं दोषं विपश्चितं करोति तत् । उत्पद्यते स तत्सङ्गवत्र च धूयतां कथा ॥
राज्ञः कस्यापि शयने चिरमासीदलक्षिता। यूका कुतश्चिदागत्य नाम्ना मन्दविसर्पिणी ॥
अकस्मात्तत्र चोपेत्य कुतोऽपि पवनेरितः । विवेश शयनीयं तद्वीटिभो नाम मत्कुणः ॥
मन्निवासमिमं कस्मादागतस्त्वं व्रजान्यतः । इति मन्दविसर्पिण्या स दृष्ट्वा जगदे तया ॥
अपीतपूर्व पास्यामि राजास्सृक्तत्प्रसीद मे । देहीह वस्तुमिति तामवादीत्सोऽपि टीटिभः ॥
ततोऽनुरोधादह स्म सा तं यद्येवमास्व तत् । किं त्वस्य राज्ञो नाकाले दंशो देयस्त्वया सखे ॥
देयोऽस्य दंशः सुप्तस्य रतासक्तस्य वा लघु। तच्छुत्वा टीटिभः सोऽत्र तथेत्युक्त्वा व्यतिष्ठत ॥
नक्तं शय्याश्रितं तं च नृपमाशु ददंश सः । उत्तस्थौ च ततो राजा हा दष्टोऽस्मीति स ब्रुवन ॥
ततः पलायिते तस्मिस्त्वरितं मत्कुणे शठे । विचित्य राजभृत्यैः सा लब्धा यूका व्यपाद्यत ॥
एवं टीटिभसंपर्कान्नष्टा मन्दविसर्पिणी । तसंजीवकसङ्गस्ते न शिवाय भविष्यति ॥
न मे प्रत्येषि चेत्तत्त्वं स्वयं द्रक्ष्यस्युपागतम् । शिरो धनानं दर्पण ४ङ्गयोः शूलशातयोः ॥
इत्युक्त्वा विकृतिं तेन नीतो दमनकेन सः। सिंहः पिङ्गलकश्चक्रे वध्यं संजीवकं हृदि ॥
लब्ध्वा तस्याशयं स्वैरं क्षणाद्दमनकस्ततः । तस्य संजीवकस्य(गात्स विषण्ण इवान्तिकम् ॥
क्रिमीदृगसि किं मित्र शरीरे कुशक्रे तव । इति पृष्टश्च तेन(त्र वृषेण स जगाद तम् ॥
किं सेवकस्य कुशलं कश्च राज्ञां सदा प्रियः । कोऽर्थी न लाघवं यातः कः कालस्य न गोचः ॥
इत्युक्तवन्तं पप्रच्छ तं स संजीवकः पुनः । किमुद्विग्न इवैवं त्वं वयस्याद्योच्यतामिति ॥
ततो दमनकोऽवदीच्छूणु प्रीत्या वदामि ते । मृगराजो विरुद्धोऽसौ जातः पिङ्गलको ॥
निरपेक्षोऽस्थिरस्नेहो हत्वा त्वां भोक्तुमिच्छति । हिंस्र परिच्छदं चास्य पश्यामि प्रेरकं सदा ॥
वचो दमनकस्यैतत्स पूर्वप्रत्ययादृजुः । सत्यं विचिन्त्य वृषभो विमना निजगाद तम् ॥
धिक्सेवाप्रतिपन्नोऽपि क्षुद्रः क्षुद्रपरिग्रहः। प्रभुबैरिस्वमेवैति तथा चेमां कथां णु ॥
आसीन्मद्स्कटो नाम सिंहः कापि वनान्तरे । त्रयस्तस्यानुगाश्चासन्द्वीपिवायसजम्बुकः॥
स संहोऽत्र वनेऽद्राक्षीददृष्टचरमे कद । करभं सार्थविभ्रष्टं प्रविष्टं हसनाकृतिम् ॥
कोऽयं प्राणीति साश्चर्यं वदत्यस्मिन्मृगाधिपे । उष्ट्रोऽयमिति वक्ति स्म देशद्रष्टात्र वायसः ॥
ततो दत्ताभयस्तेन सिंहेनानाय्य कौतुकात् । उष्ट्रः सोऽनुचरीकृत्य स्वान्तिके स्थापितोऽभव ॥
एकदा भणितोऽस्वस्थः स सिंहो गजयुद्धतः। उपवासान्बहूंश्चक्रे स्वस्यैस्तैः सहितोऽनुगैः॥
ततः क्लान्तः स भक्ष्यार्थे भ्रमन्सिहोऽनवाप्य तत् । किं कर्यमित्यपृच्छत्तानुष्ठं मुक्वानुग ॥
ते तमूचुः प्रभो वाच्यमस्माभिर्युक्तमपदि । उष्ट्रेण साकं किं सख्यं किं नासावेव भक्ष्यते ॥
तृणाशी चायमस्माकं भक्ष्य एवामिषाशिनाम् । बहूनामामिषस्यार्थं किं चैकस्त्यज्यते न वि ॥
पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२१८
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति