पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स एवास्मि नलः सत्यं पापः कुलिशकर्कशः। त्वां संतापयता येन व्यामाहनलायतम् ॥
इत्युक्तवान्स पृष्टोऽभूदमयन्त्या तया नलः । यद्येवं तद्वीरूपत्वं कथं प्राप्तो भवानिति ॥
ततः स तस्यै खोदन्तं नलः कुत्तमवर्णयत् । कार्कोटसरूयादारभ्य कलिनिर्गमनावधिम् ॥
तदैव चाग्निशौचं तद्दत्तं कार्कोटकेन सः ।‘प्रावृत्य वस्त्रयुगलं रूपं स्वं प्रत्यपद्यत ॥
दृष्ट्वा नलं पुनरवाप्तनिजाभिरामरूपं तमाशु विकसद्वदनारविन्दा ।
नेत्राम्बुभिः शमितदुःखद्वानलेच हर्ष कमप्यनुपमं दमयन्स्यवाप ॥
बुद्ध च तत्परिजनाप्रमप्रवृत्तादागस्य तत्र सहसा स विदर्भराजः ।
भीमो नलं समभिनन्द्य कृतानुरूपपूजं महोत्सवमयं स्वपुरं चकार ॥
इसता हृदि भीमभूभुजा कृतसंवृत्युपचारसस्क्रियः ।
त्ररतुपर्णनृपोऽपि तं नलं प्रतिपूज्याथ जगाम कोशलान् ॥
अथ निषधनरेश्वरो निजं कलिलैरात्म्यविधृम्भितं नलः।
श्वशुरय स तत्र वणयन्नवसत्प्राणसमासखः सुखम् ॥
गत्वाल्पैश्व दिनैस्ततः स निषधन्सैन्यैः सह श्वशुरै-
रक्षज्ञानजितं विधाय विनतं तं पुष्कराख्यं पुनः ।
धर्मात्मा कृतसंविभागमनुजं देहद्तद्वापरं
राज्यं स्वं मयन्त्यबाप्तिसुखितो भेजे यथावन्नलः ॥
इति स व्याख्याय कथां नगरे तारापुरे द्विजः सुमनाः ।
राजसुतां बन्धुमतीं श्रोषितपतिकामुवाच तां भूयः ॥
एवं देवि सहान्तो विषह्य दुःखं भजन्ति कल्याणम् ।
अनुभूयास्तमनं किल दिनकृत्प्रमुखा. ब्रजन्त्युदयम् ॥
तस्मात्त्वमपि तमाप्स्यसि पतिमनघे प्रोषितागतं न चिरात् ।
कुरु धृतिमरतिं परिहर विहर च पतिकामनालाभैः ॥
इति तं द्विजमुक्तयुक्तवाक्यं बहुनाभ्यर्थं धनेन सतृणं सा ।
अवलम्ब्य धृतिं प्रतीक्षमाणा दयितं बन्धुमती स्वमत्र तस्थौ ॥
अल्पैरेव च तस्या दिनैः स पतिराययौ महीपालः ।
देशान्तरे स्थितां तां जननीमादाय पितृसहितः ॥
आगत्य चामृतांशुः पार्वण इव वारिराशिजललक्ष्मीम् ।
जननयनोत्सवयी बन्धुमतीं नन्दयामास ॥
अथ तत्र तया सहितस्तत्पित्रा पूर्वदतराज्यधुरः ।
स महीपालो बुभुजे राजा सन्नीप्सितान्भोगान् ॥
इत्यात्ममत्रिमरुभूतिमुखान्निशम्य चित्रां कथामनुपमामनुरागरम्याम् ।
रामासखः स नरवाहनदत्तदेवो वत्सेश्वरस्य तनयो भृशमभ्यतुष्यत् ॥

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरेऽलंकारवतीलचके षष्ठस्तरङ्गः।


समाप्तश्चायमलंकरवतीलबको नवमः।