सामग्री पर जाएँ

पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्योन्यं प्रत्यभिज्ञाथ समेत्य रुदतः स्म तt । तथा यथात्र राज्ञा सा सुबाहुस्तदयुध्यत ॥
यावचनाय्य सा देवी तौ यथावस्तु पृच्छति । बुबुधे दमयन्तीं तां तावत्स्वभगिनीसुताम् ॥
ततः सा भर्तुरवेद्य तां संमान्य पितुगृहम् । रथेऽधिरोप्य व्यसृजत्ससुषेणां ससैनिकाम् ॥
तत्र सा दमयन्त्यासीत्प्राप्तापत्यद्वया ततःन। पित्रापि दृश्यमाना सा भर्तुर्वाती विचिन्वती ॥
तत्पिता व्यसृजच्चारानन्वेष्टुं तं च तत्पतिम् । सूदयन्नविद्याभ्यां दिव्याभ्यामुपलक्षितम् ॥
बालां वने प्रसुप्तां नृशंस संत्यज्य कुमुदिनीकान्तम् ।
प्राप्यैवाम्बरखण्डं चन्द्रादृश्यः क्क यातोऽसि ॥
एंवं भवद्भिर्वक्तव्यं स्थितः शङ्कथेत यत्र सः । इत्यादिदेश चरांस्तान्स च भीमो महीपतिः ॥
अत्रान्तरे स राजा च नलस्तस्मिन्वने निशि । प्रावृतार्धपटो दूरं गत्वा दावाग्निमैक्षत ॥
भो महसत्स्व यावन्न दक्षेऽहमबलोऽमुना । अपसारय मां तावद्दवातेर्निकटाद्वित्तः ॥
इत्यत्र तद्वचः श्रुत्वा दत्तदृष्टिर्ददर्श सः । आबद्धमण्डलं नागं नलो दावानलान्तिके ॥
फणारत्नप्रभाजालजटिलं वनवह्निना । गृहीतमिव तेनोग्रहेतिहस्तेन मूर्धनि ॥
उपेत्य कृपयांसे तं कृत्वा नीत्वा च दूरतः त्यक्तुमिच्छति यावत्स तवन्नागोऽब्रवीत्स तम् ॥
गणयित्वा दशान्यानि पदानि नय मामितः। ततः स प्रययावेवं पदानि गणयन्नलः ॥
एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त ऋण्वहे । अष्टौ नव दशेत्युक्तवन्तमुक्तिश्छलेन तम् ॥
नलं स्कन्धस्थितो नागो ललाटन्ते ददंश सः । तेन ह्रस्वभुजः कृष्णो विरूपः सोऽभवन्नृपः ।॥
ततोऽवतार्य स्कन्धात्तं स राजा पृष्टवानहम् । को भवान्का कृता चेयं त्वया मे प्रत्युपक्रिया ॥
एतन्नलचचः श्रुत्वा स नागः प्रत्युवाच तम् । राजन्कार्कीटनामानं नागराजमवेहि माम्। ॥
दंशो गुणाय च मया दत्तस्ते तच्च वेत्स्यसि । गूढवासे च वैरूप्यं महतां कार्यसिद्धये ॥
गृहाण चाग्निशौचाख्यमिदं वस्त्रयुगं सम । अनेन प्रावृतेनैव स्वं रूपं प्रतिपत्स्यसे ॥
इत्युक्त्वा दत्ततद्वस्त्रयुगे कार्कोटके गते । नलस्तस्माद्वनद्रुत्वा क्रमेण प्राप कोशलान् ॥
कोशलाधिपतेरतत्र तुपर्णस्य भूपतेः । स ह्रस्वबाहुनामा सन्सूदत्वं शिश्रिये गृहे ॥
भोजनानि च यत्तस्य चक्रे दिव्यरसानि सः । तेन प्रसिद्धिं प्रापात्र रथविज्ञानतस्तथा ॥
तत्रस्थे ह्रस्वबाह्ख्ये नले तस्मिन्कदा चन । विदर्भराजचारेषु तेष्वेकोऽत्र किलाययैौ ॥
ह्रस्वबाहुरितीहास्ति स्वविद्यारथचिद्ययोः । नलतुल्यो नवः सूद इति चुरोऽग्र सोऽष्टणोत् ॥
नलं संभाव्य तं बुद्ध्या चास्थाने नृपतेः स्थितम् । युक्त्या स तत्र गत्वैतां पपाठ्य प्रभूदिता ॥
बालां वने प्रसुप्तां नृशंस संत्यज्य कुमुदिनीकान्ताम् ।
प्राध्यैवाम्बरखण्डं चन्द्रादयः क्क यातोऽसि ॥
तच्छुत्वोन्मत्तवाक्याभं तत्रस्था अवजज्ञिरे । सूदुच्छद्मस्थितस्त्वत्र स नलः प्रत्युवाच तम् ॥
क्षीणोऽम्बरैकदेशं चन्द्रः प्राप्यान्यमण्डलं प्रविशन् ।
कुमुदिन्या यद्दृश्यो जातस्तका नृशंसता तस्य ॥
एतत्तदुत्तरं श्रुत्वा सत्यं संभाव्य तं नलम् । विपदुद्धृतवैरूप्यं चारः सोऽथ ययौ ततः ॥
विदर्भान्प्राप्य भीमाय राज्ञे भार्यायुतस्य सः । दमयन्यै च तत्सर्वं दृष्टश्रुतमवर्णयत् ॥
ततोऽत्र दमयन्ती सा पितरं स्वैरमब्रवीत् । निःसंदेहं स एवार्यपुत्रः सूदमिषं श्रितः ॥
तत्तदानयने युक्तिर्मन्मता क्रियतामिह । वतुपर्णस्य नृपतेस्तस्य दूतो विसृज्यताम् ॥
प्राप्तमात्रश्च तं भूपमेवं तत्र ब्रवीतु सः। गतः कापि नलो राजा प्रवृत्तिर्नास्य बुध्यते ॥
  र निरस्य समागम्यतामिति ।।