तस्यां तृषाभिभूतौ तौ स्थापयित्वा स दारकौ । चन्द्रस्वामी ययौ दूरमन्वेष्टुं चरि तत्कृते ॥
तत्र तस्याययावगै सानुगः शबराधिपः । अकस्मात्सिहदंष्ट्राख्यः कार्याय प्रस्थितः कचित् ॥
स तं दृष्ट्वात्र पृष्ट्' च बुट्टा भिल्लो जळार्थिनम् । संज्ञां कृत्वाब्रवीद्धृत्यानीत्वाम्भः प्राप्यतामयम् ॥
तच्छुत्वा तस्य भृत्यास्ते द्वित्रा लब्धाशया त्रभुम् । ते चन्द्रस्वामिनं पल्लीं नीत्वा बद्धमकुर्वत ॥
नरपहाशयात्मानं तेभ्यो बुद्धा स संयतम् । चन्द्रस्वामी शुशोच स्वौ दारकावटवीगतौ ॥
हा महीपाल हा वसे चन्द्रवत्यपदे कथम् । मयारण्ये युवां त्यक्त्वा सिंहव्याघ्रामिषीकृतौ ॥
आत्मा च घातितौरैर्न चास्ति शरणं मम । इत्याक्रन्दन्स विप्रोऽर्क व्योम्नयपश्यदस्मत् ॥
हन्त मोहं विहायैतं स्वं प्रभु , शरणं श्रये । इत्यालोच्य द्विजः सूर्यं स स्तोतुमुपचक्रमे ॥
तुभ्यं परापराकाश शायिने ज्योतिषे विभो । आभ्यन्तरं च बाहुं च तमः प्रणुदते नमः ॥
त्वं विष्णुस्त्रिजगद्यपी त्वं शिवः श्रेयसां निधिः । सुप्तं विचेष्टयन्विधं परमस्त्वं प्रजापतिः ॥
अप्रकाशौ प्रकाशेतामेतावित्यग्निचन्द्रयोः । न्यस्तास्मतेजा ययेवान्तधिं यासि यामिनीम् ॥
विद्रवन्यपि रक्षांसि प्रभवन्ति न दस्यवः । प्रमोदन्ते च गुणिनो भास्वन्नभ्युदिते त्वयि ॥
तद्रक्ष शरणापन्नं त्रैलोक्यैकप्रदीप माम् । इदं दुःखान्धकारं मे विदारय दयां कुरु ॥
इत्यादिभिस्तदा बाक्यैर्भक्त्या स्तुतवतो रविम् । चन्द्रस्वामिद्विजस्यास्य गगनादुच्चचार ॥
तुष्टोऽस्मि चन्द्रस्वामिंस्ते न त्वं वधमवाप्स्यसि । मत्प्रसादाच्च पुत्रादिसंगमस्ते भविष्यति ॥
इत्युक्तो दिव्यया वाचा जातास्थस्तत्र तस्थिवान् । चन्द्रस्वामी स शबरोपाहृतनानभोजनः ॥
तावच्च तं महीपलं स्वस्रा युक्तमरण्यगम् । पितर्यनायत्याक्रन्दविधुरं शङ्किताशुभम् ॥
ददर्श तेन मार्गेण सार्थवाहः समागतः । महान्सार्थधरो नाम वृत्तान्तं पृच्छति स्म च ॥
स तमाश्वास्य क्रुपया शिक्षु दृष्ट्वा सुलक्षणम् । सार्थवाहो निनाय स्वं देशं स्वसृसखं ततः ॥
तत्रासीत्स महीपालो बाल्येऽप्यग्निक्रियारतः। सदने तस्य वणिजः पुत्रस्नेहेन पश्यतः ॥
एकदा नृपतेर्मनी तारापुरनिवासिनः। तारधर्माभिधानस्य कार्यातेनागतः पथा ॥
विवेश सार्थवाहस्य तस्य मित्रं द्विजोत्तमः । गृह्यननन्तस्वामीति सहस्त्यश्वपदा तिकः ॥
स विश्रान्तोऽत्र तं दृष्ट्वा महीपाठं शुभाकृतिम् । जपाग्निकार्याविरतं वृत्तान्तं परिपृच्छय च ॥
अनपत्यो विदित्वा च सवर्ण सार्थवाहतः । तस्माद्ययाचेऽपत्यार्थी मी तद्भगिनीं च ताम् ॥
ततस्तौ तेन वैश्येन दत्तवाद य दारकौ । सार्थवाहेन सोऽनन्तस्वामी तारापुरं ययौ ॥
तत्र पुत्रीकृतस्तेन महीपालः स मत्रिणा । तस्थौ तद्भवनेऽव्यस्य विद्याविपुलसंपदि ॥
अत्रान्तरे च बढं तं चन्द्रस्वामिनमेत्य सः । भिल्लाधिपः सिंहदंष्ट्र: पल्लयां तस्यामभाषत ॥
ब्रह्मन्स्वप्नेऽहमादिष्टस्तथा देवेन भानुना । यथा संपूज्य मोक्तव्यो न हन्तव्यो मया भवान् ॥
तदुत्तिष्ठ व्रज स्वेच्छमित्युक्त्वा स मुमोच तम् । प्रत्तमुक्तामृगमदं तृप्तारण्यानुयात्रिकम् ॥
सोऽथ मुक्तस्ततश्चन्द्रस्वामी तमनुजायुतम् । अप्राप्यरण्यतः पुत्रं महीपालं गवेषयन् ॥
भ्रमन्नद्धेस्तटे प्राप्य नाम्ना जल्पुरं पुरम्। प्रविवेशातिथिर्भूत्वा गृहं विप्रस्य कस्यचित् ॥
तत्र भुक्तोत्तराख्यातस्ववृत्तान्तं प्रसङ्गतः । तं स विप्रो गृहपतिश्चन्द्रस्वामिनमभ्यधात् ॥
वणिकनकवर्माख्योऽतीतेष्वागाद्दिनेष्विह । तेनाटव्यां स्वसृसखः प्राप्तो ब्राह्मणदारकः। ॥
तौ चाद्यातिभव्यौ द्वौ दारकौ स इतो गतः। नारिकेलमहाद्वीपे नोक्तं तन्नाम तेन तु ॥
तच्छुत्वा मामकावेव नूनं ताविति चिन्तयन् । चन्द्रस्वामी मतिं चक्रे गन्तुं द्वीपवरं स तम् ॥
नीव च रात्रिमन्विष्य वणिजा विष्णुवर्मणा । स व्यधत्संगतिं द्वीपं नारिकेलं प्रयास्यता ॥
पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१९०
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति