सामग्री पर जाएँ

पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ga <। शुकपाथ स७था मनसुन्दरी । कियत्क्षोभ्या नदीत्येव सोढेरेव जगाद च ॥
उत्तीर्य चाम्भसः प्रायात्तवस्त्रान्तरा रुषा । प्रियापराधं शंसन्ती तं सखीभ्यः स्वमन्दिरम् ॥
ततो ज्ञाताशयस्तस्या जलक्रीडां विमुच्य सः। राजा कनकघर्षोऽपि तद्वासगृहमाययौ ॥
वार्यमाणो रुषा तत्र पञ्जरस्थैः शुकैरपि । प्रविश्य स ददर्शान्तर्देवीं तां मन्युपीडितम् ॥
धामहस्ततलन्यस्तविषण्णवदनाम्बुजाम् । स्वच्छमुक्ताफलनिभैः पतद्भिर्बाष्पबिन्दुभिः ॥
‘जइ विरहो ण सहिज्जइ माणो L सुझ वि ] परिवजणीश्च ते ।
विरहो हिअअ सहिज्जइ माणो [ एव्व ] परिवहृणीओ ते ॥
इअ जाणिऊण णिउणं चिदृक्षु ओलम्विऊण इक्कदरम् ।
उहअतडदिण्णंपाओ मज्झणिवडिओ घुवं विणिस्सिहसि ॥
इतीमं द्विपदीखण्डं पठन्तीं साश्रुगद्गदम् । निर्यद्दन्तांशुहारिण्या गिरापभृशमुग्धया ॥
विलोक्य च तथाभूतां तां कोपेऽपि मनोरमाम् । उपाययौ सलज्जश्च सभयश्च स भूपतिः ॥
पराङ्मुखीमथाश्लिष्य वचोभिः प्रतिपेशलैः । प्रवृत्तोऽभूत्सविनयैस्तां प्रसादयितुं च ॥
वक्रोक्तिसूचितावदी परिवारे पपात च। तस्याश्चरणयोर्निन्दन्नात्मानमपराधिनम् ॥
ततस्तन्मन्युनेवाभुवारिणा गलितेन सा । सिध्यन्ती कण्ठलनस्य प्रससाद महीपतेः ॥
अथैष हृष्टो नीत्वा तद्दिनं कुपिततुष्टया । राजा तया सहसेव्य रतं निद्रामगान्निशि ॥
सुप्तो ददर्श चाकस्मास्वप्ने विकृतया स्त्रिया । हृतामेकावलीं कण्ठाचूडारत्नं च मूर्धतः ॥
ततोऽभ्यपश्यद्वैतानं नानाप्राण्यङ्गविग्रहम् । बाहुयुद्धे प्रवृत्तं च तं स भूमावपातयत् ॥
पृष्टोपविष्टश्चोड़ीय पक्षिणेव विहायसा । नीत्वा तेन नृपोऽम्भोधौ वेतालेन स चिक्षिपे ॥
ततः कथंचिदुत्तीर्णः परमेकावलीं गले । चूडामणिं च तं मून पूर्ववत्स्थितमैक्षत ॥
एतदृष्ट्वा प्रबुद्धः स प्रातः परिचयागतम् । अस्य क्षपणकं राजा फलं स्वप्नस्य पृष्टवान् ॥
। न वाच्यमप्रियं किं तु कथं पृष्टो न वच्मि ये ॥
या त्वयैकावली दृष्टा हृता चूडामणिस्तथा । सैष देव्या वियोगस्ते पुत्रेण च भविष्यति ॥
प्राप्ते चैकावलीरत्नं यदुत्तीर्णाब्धिता त्वया । दुःखान्ते सोऽपि भावी ते देवीपुत्रसमागमः ॥
इति क्षपणकेनोक्ते विमृश्य स नृपोऽब्रवीत् । पुत्रो मेऽद्यापि नास्येव स तावज्जायतामिति ॥
अथोपयतादभीषीत्स रामायणपाठकात् । पुत्रार्थं विहितक्लेशं राजा दशरथं नृपम् ॥
तेनोद्धृतसुतप्राप्तिचिन्तः क्षपणके गते । राज कनकवर्षस्तन्निनाय विमना दिनम् ॥
रात्रावकस्माच्चैकाकी विनिद्रः शयनस्थितः । द्वारेऽसुद्धाटितेऽप्यन्तः प्रविष्टां नियमैक्षत ॥
विनीता सौम्यरूपा च सा तं साश्चर्यमुत्थितम् । कृतप्रणामं दत्ताशीः क्षितीश्वरमभाषत॥
पुत्र मां विद्धि तनयां नागराजस्य वासुकेः । त्वत्पितुर्भगिनीं ज्येष्ठां नाना रत्नप्रभामिमाम् ॥
रक्षार्थं तेऽन्तिके शश्वद्दृष्टा च वसाम्यहम् । अद्य दृष्टा सचिन्तं त्वामामा ते दर्शितो मया ॥
न द्रष्टुमुत्सहे ग्लानिं तव तद्रहि कारणम् । इत्युक्तः स तया राजा पितृष्वस्र जगाद ताम् ॥
धन्योऽहमम्ब यस्यैवं त्वं प्रसादं करोषि से । अनिर्छत्तिं च मे विद्धि पुत्रासंभवहेतुकाम् ॥
अपि राजर्षयो यत्र पुरा दशरथाद्यः । स्वर्गार्थमैच्छंस्तत्रास्य कथं नेच्छन्तु मादृशाः ॥
एतत्कनकवर्षस्य नृपतेस्तस्य सा वचः । श्रुत्वा रत्नप्रभा नागी भ्रातुःपुत्रमुवाच तम् ॥
तfई पुत्र वदाम्येकं यमुपायं कुरुष्व तम् । गत्वा स्वामिकुमारं वमेतदर्थं प्रसादय ॥
कुमारधारां विनाय पतन्तीं मूनि दुःसहम् । शरीरान्तःप्रविष्टायाः प्रभावान्मे सहिष्यसे ॥



१ यदि विरहो न सह्यते मानः [ सुखादपि ] परिवर्जनीयस्ते