पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पश्येह किंनरीगीतैः कोकिलानां च कूजितैः। रुतैरलीनां संगीतमृतुराजस्य तन्यते ॥
इत्यादि देवपुत्रास्ते ब्रुवाणास्ता मदर्शयन् । नरवाहनदत्ताय तस्मै स्वोपवनावलीम् ॥
तपुरेष्वपि चिक्रीड पश्यन्वत्सेश्वरात्मजः। स वसन्तोत्सवोद्दमप्रनृत्यत्पौरचर्चरीः ॥
बुभुजे साखरस्कश्च भोगानत्रामरोचितान्। सुकृतो यत्र गच्छन्ति तत्रैषामृद्धयोऽग्रतः ॥
एवं स्थित्वा त्रिचतुरान्दिवसान्देवपुत्रकान् । नरवाहनदन्तस्तान्सुहृदो निजगाद सः ॥
गच्छाम्यहं स्वनगरीं तातसंदर्शनोत्सुकः। तयूयं तां पुरीमेत्य कृतार्थयत पश्यत ॥
तच्छुत्वा तेऽब्रुवन्हृष्टः सारस्तस्याः पुरो भवान् । किमन्यत्प्राप्तविचेन स्मर्तव्यास्तु वयं त्वया ॥
इत्युक्त्वा प्रतिमुक्तस्तैरुपनीतेन्द्रसद्रथम्। नरवाहनदत्तोऽसौ मातङि तमभाषत ॥
यत्र दिव्यसरस्तीरे स्थिता मे गोमुखादयः । तेन मार्गेण कौशाम्बीं पुरीं प्रापय मामिति ॥
ततस्तथेति तेनोक्तः साप्सरस्कः स तद्रथे । आरुह्य तत्सरः प्राप गोमुखादीन्ददर्श च ॥
आयात स्वपथा शीघ्र सर्वे वक्ष्यामि वो गृहे । इत्युक्त्वा तांश्च कौशाम्बीं ययौ शक्ररथेन स॥
तत्रावतीर्य नभसः पूजितं प्रेक्ष्य मातलिम् । अप्सरोभिर्युतस्ताभिः स विवेश स्वमन्दिरम् ॥
स्थापयित्वा च तास्तत्र गत्वा वसेश्वरस्य सः । तद्गमनहृष्टस्य ववन्दे चरणौ पितुः ॥
मातुर्वासवदत्तायाः पद्मावत्यास्तथैव च । अभ्यनन्दंश्च तेऽप्येनं दर्शनातृप्तचक्षुषः ॥
तावच्च स रथारूढो गोमुखोऽत्र ससारथिः। प्रलम्बबाहुना तेन विप्रेण सममाययौ ॥
अथ स्थिते मन्त्रिवर्गे पित्रा पृष्टः शशंस सः नरवाहनदत्तस्तं स्ववृत्तान्तं महाव्रतम् ॥
ददाति तस्य कल्याणमित्रसंयोगमीश्वरः । इच्छत्यनुग्रहं यस्य कर्तुं सुकृतकर्मणः ॥
इति शंसत्सु सर्वेषु राजा वत्सेश्वरोऽथ सः चकार तुष्टस्तनयस्याच्युतानुग्रहोत्सवम् ॥
ददर्श पादपतनायानीता गोमुखेन च । हरिप्रसादलब्धास्ताः सदरोऽप्सरसः दुषाः ॥
देवरूपां देवरतिं देवमालां तथैव च । देवप्रियां चतुर्थं च चेटीभिः पृष्टनामकाः ॥
काहं क सय्यप्खरसो दिष्याहं राजसूनुना । नरवाहनदत्तेन भुवि स्वनगरी कृता ॥
इतीववकिरन्ती सा सिन्दूरं विततोस । चलद्रक्तपताकाभिः कौशाम्बी ददृशे तदा ॥
नरवाहनदत्तश्च पित्रोर्घत्तरसवो दृशोः। अन्याः संभावयामास भार्या मार्गान्मुखीर्निजाः ॥
ताश्चतुर्भिर्दिनैर्वणैरिव तं च कृशीकृताः । अनन्दयन्वर्णयन्त्यस्तां तां विरहवेदनाम् ॥
गोमुख वनवासे च रक्षत रथवाजिनः । प्रलम्बबाहोः सिंहादिवधशौर्यमवर्णयत् ॥
एवं श्रुतिसुखाश्रुण्वन्कथालपानयत्रणान् । निर्वर्णयंश्च कान्तानां रूपं स नयनामृतम् ॥
कुर्वंश्रादूनि च पिबन्मधूनि सचिवैर्युतः । नरवाहनदत्तोऽत्र तं कालमवसत्सुखी ॥
एकदन्तरलंकारवतीवासगृहे स्थितः । सवयस्यः स शुश्राव तूर्यकोलाहलं बहिः॥
ततो हरिशिखं सेनापतिं निजमुवाच सः। अकस्मात्कुत एतस्यासूर्यनादो महानिह ॥
एतच्छुत्वैव निर्गत्य प्रविश्य च स तं क्षणात् । व्यजिज्ञपद्धरिशिखो वत्सराजसुतं प्रभुम् ॥
रुद्रो नाम वणिग्देव नगर्यामिह विद्यते । इतः सुवर्णद्वीपं च स जगाम वणिज्यया ॥
आगच्छतो निजस्तस्य संप्राप्तोऽप्यर्थसंचयः । अब्धौ वहनभन निमनो नाशमागतः ॥
उत्तीर्णश्चात्मनैवैको देव जीवन्स वारिधेः । प्राप्तश्चद्य दिनं षष्टमिहापन्नो निजं गृहम् ॥
दिनानि कतिचिद्यवदिह तिष्ठति दुःखितः। तावरस्वारमतो दैवाप्राप्तस्तेन निधिर्महान् ॥
तद्रोत्रजानां च मुखाज्ज्ञातं वसेश्वरेण तत् । ततोऽद्यगत्य तेनासौ विज्ञनो वणिजा प्रभुः ॥
सरत्नौघा मया लब्धाश्चतस्रो हेमकोटथः । तदादिशति देवश्चेदर्पयिष्यामि ता इति ॥