पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६२
* आदितस्तरङ्गः ३
कथासरित्सागरः ।

उत्तिष्ठ राजन्भावी ते वीरो वंशधरः सुतः । गौरीप्रसादात्कन्यापि भविष्यत्युत्तमा तव ॥ १०४
नरवाहनदत्तस्य युष्माकं चक्रवर्तिनः। भविष्यतो भवित्री या महिषी महसां निधेः॥ १०५
इत्युक्त्वान्तर्हिते शर्वं सोऽथ विद्याधरेश्वरः । हेमप्रभः प्रचुबुधे प्रहृष्टो रजनीक्षये ॥ १०६
आनन्द्यलंकारप्रभां स्वप्नं निवेद्य सः। गौर्या स्वप्ने तथैवोक्तां भार्या संवादशंसिनीम् ॥ १०७
उस्थाय च ततः स्नातः स राजाधितधूर्जटिः। चकार दत्तदानः सङरसवं कृतपारणः ॥ १०८
दिवसेष्वथ यातेषु देवी कतिपयेषु सा । अलंकारप्रभा तस्य राज्ञो गर्भमधारयत् ॥ १०९
आनन्दयामास च तं मुखेन मधुगन्धिना । लोलनेत्रालिना कान्तं पङ्कजेनेव पाण्डुना ॥ ११०
आख्यातश्लाघ्यजन्मानमुदीरैर्भदोहदैः। असूत तनयं काले द्यौरर्कमिव सा ततः ॥ १११
येन जातेन सहजैस्तेजोभिरवभासितम् । सिन्दूरारुणतां नीतमपि तज्ज्ञातवासकम् ॥ ११२
पिता च तं शिशू राजा शत्रुगोत्रभयावहम् । दिव्यवागुपदिष्टेन नाम्ना वञ्प्रभं व्यधात् ॥ ११३
ततः स ववृधे बालः पार्वणेन्दुरिव क्रमात् । कलाभिः पूर्यमाणः सन्वृद्धिहेतोः कुलाम्बुधे॥ ११४
अथाचिरात्पुनस्तस्य राज्ञो हेमप्रभस्य सा । अलंकारप्रभा राहुं सगर्भा समपद्यत ॥ ११५
सगर्भा चाश्रयोदूतसविशेषद्युतिस्तथा । सत्यं हेमासनारूढा भेजेऽन्तःपुररत्नताम् ॥ ११६
विद्याकल्पितसत्पञ्चविमानेन नभस्तले । बभ्राम च तथाभूतविलसद्भदोहदा ॥ ११७
प्राप्ते च समये तस्या देव्याः कन्याजनिष्ट सा । पर्याप्त वर्णनं यस्या जन्म गौरीप्रसादतः ॥ ११८
नरवाहनदत्तस्य भार्येयं भाविनीति वा । तदश्रावि हरादेशवचःसंवादिनी दिवः ॥ ११९
ततो राजा सुतोत्पत्तिनिर्विशेषकृतोत्सवः । तां स हेमप्रभोऽकार्षीन्नाम्ना रत्नप्रभां सुताम् ॥ १२०
स्वविद्यासंस्कृता सा च तस्य रत्नप्रभा पितुः। गृहे दिक्षु प्रकाशस्तूदपद्यत ॥ १२१
अवर्धत
ततः स राजा तं वर्महरं वनप्रभं सुतम् । कृतदारक्रियं कृत्वा यौवराज्येऽभिषिक्तवान् ॥ १२२
विन्यस्तराज्यभारश्च तस्मिन्नासीरस निर्दूतः । मुताविवाहचिन्ता तु तस्यैकाभूत्तदा हृदि ॥ १२३
एफ सोऽन्तिकासीनां प्रदेयां वीक्ष्य तां सुताम् । राजब्रवीदलंकारप्रभां देवीं समीपगाम् ॥ १२४
कुलालंकारभूतापि पश्य देवि जगत्रये । कन्या नाम महदुःखं धिगहो महतामपि ॥ १२५
विनीताप्याप्तविद्यापि रूपर्यंबनवत्यपि । रत्नप्रभा वरप्रास्य विनैषा यदुनोति माम् ॥ १२६
नरवाहनदत्तस्य भार्योक्ता दैवतैरियम् । तकि न दीयते तस्मै भाव्यस्रुचक्रवर्तने ॥ १२७
इति चोक्तस्तया देव्या स राजा पुनरब्रवीत् । बाढं सा कन्यका धन्या या तं वरमवाप्नुयात् ॥ १२८
स हि कामावतारोऽत्र किं तु नाद्यापि दिव्यताम् । प्राप्तस्तेन मया तस्य विद्याप्राप्तिः प्रतीक्ष्यते ॥ १२९
इत्येवं वदतस्तस्य सद्यस्तैर्वचनैः पितुः। कर्णप्रबिडैः कंदर्पमोहमश्रपदोपमैः ॥ १३०
भ्रान्तेवाविष्टचित्तेव सुप्तेव लिखितेव च। अभूद्रत्नप्रभा तेन हृतचित्ता वरेण सा ॥ १३१
ततः कथंचित्पितरौ प्रणम्यान्तःपुरं निजम् । गत्वा चिन्तातुरा निद्रां चिरेण कथमप्यगात् ॥ १३२
प्रातः शुभं दिनं पुत्रि तत्स बक्सेश्वरात्मजः द्रष्टव्यः स्ववरो गत्वा कैौशाम्बीं नगरी त्वर ॥ १३३
ततश्च स्वपुरेऽमुष्मिन्नानीय त्वत्पित स्वयम् । तत्र तस्य च कल्याणि विवाहं संविधास्यति ॥ १३४
इति स्वप्नेऽथ तं गैरी सानुकम्पा समादिशत् । प्रबुध्य सा च तं स्वप्नं प्रातर्मात्रे न्यवेदयत् ॥ १३५
ततः सा तदनुज्ञाता बुद्ध विद्यप्रभावतः । उद्यानस्थं वरं द्रष्टुं प्रावर्तात निजात्पुरात् ॥ १३६
तामार्यपुत्र प्रामेतां वेत्थ रत्नप्रभामिति । प्राप्तामुल्कां क्षणेनाद्य वित्थ यूयमतः परम् ॥ १३७
एतत्तस्या वचः श्रुत्वा । माधुर्यंन्यकृतामृतम् । विलोक्य नेत्रपीयूषं विद्याधर्या वपुश्च तत् ॥ १३८
नरवाहनदत्तोऽन्तर्विधातारं निनिन्द सः । श्रोत्रनेत्रमयं कृत्नमकरोकि न मामिति ॥ १३९
जगाद तां च धन्योऽहं जन्माद्य सफलं मम । योऽहमेवं स्वयं तन्वि स्नेहादभिसृतस्त्वया ॥ १४०
इत्यन्योन्यनबर्मकृतसंलापयोस्तयोः। अकस्माद्ददृशे तत्र विद्याधरबलं दिवि ॥ १४१
तातोऽयमागतोऽत्रेति द्राप्रत्नप्रभयोदिते । रजा हेमप्रभो व्योम्नः सपुत्रोऽवततार सः ॥ १४२