पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५८
कथासरित्सागरः।

यथा विवाहोत्सवतूर्यनादानपोथयन्दुन्दुभयोऽन्तरिक्षे ।
तथा वधूत्सारितहोमयाजाः सुरोज्झिताः कौसुमवृष्टयोऽत्र ॥
ततः कनकराशिभिर्मणिमयैश्च जामातरं समर्चयदुदारधीः किल कलिङ्गसेन
यथात्र चुबुधे जनैरपि सुदुर्गतोऽस्याः पुरः स काममलकापतिः कृपणभूद्यते ॥निष्पन्नताहशचिराभिमतानुरूपपाणिग्रहोत्सवविधी च वधूवरौ तं
अभ्यन्तरं विविशतुः प्रमदोपरुद्धं लोकस्य मानसमिवामलचित्रभ"
सद्वाहिनीपरिगतैरपि विश्ववन्द्यशौर्याश्रितैरपि जितावनतैर्नरेन्द्रेः
सा वारिराशिभिरिवाशु पुरी पुपूरे वसेश्वरस्य सदुपायनरत्नहस्तै
अनुजीविजनाय सोऽपि राजा व्यकिरद्धेम तथा महोत्सवे
यदि परमभवन्न जातरूपा जननीगर्भगता । यथास्य राष्ट्रे ॥
वरचारणनर्तकीसमूहैर्विविधदिगन्तसमागतैसदात्र ।
परितः स्तवनृत्तगीतवाथैर्युबुधे तन्मय एव जीवलोकः ॥
वातोद्धृतपताकाबाहुलता चोत्सवेऽत्र कौशाम्बी ।
सापि ननतैव पुरी पौरस्त्रीरचितमण्डनाभरणा ॥
एवं च स प्रतिदिनं परिवर्धमानो निर्वर्यते स्म सुचिरेण महोत्सवे
सर्वः सदैव च सुह्रस्वजनो जनश्च हृष्टस्ततः किमपि पूर्णमनोरथे
स च नरवाहनदत्तो युवराजो मदनमञ्चकासहितः
भजते स्म सुचिरकाङ्कितमुद्यैषी जीवलोकसुखम् ॥
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे मदनमझुकालम्बकेऽष्ट

क्समाप्तथायं मदनमथुकालम्बकः षष्ठः।