पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तरङ्गः ७ ।]
१४७
मदनमझुकालम्बकः ६ ।

तथापि कथनीयोऽयंमुदन्तः स्वामिने मया। उन्मादिनीदेवसेनवृत्तान्तो ह्यन्यथा भवेत् ॥ ६१
देवसेनस्य नृपतेः पुरा राष्ट्र वणिक्सुता । उन्मादिनीत्यभूकन्या जगदुन्मादकारिणी ॥ ६२
आवेदितापि सा पित्रा न तेनात्त महीभृता । विप्रैः कुलक्षणेत्युक्ता तस्य व्यसनरक्षिभिः ॥ ६३
परिणीता तदीयेन मत्रिमुख्येन सा ततः । वातायनाप्रादात्मानं राज्ञेऽस्मै जात्वदर्शयत् ॥ ६४
तया भुजंग्या राजेन्द्रो दूरादृष्टिविषाहतः । मुहुर्मुमूर्छ न रतिं लेभे नाहारमाहरत् ॥ ६५
प्रार्थितोऽपि च तद्भर्तृप्रमुखैः सोऽथ मन्त्रिभिः। धार्मिकस्तां न जग्राह तत्सक्तश्च जशवसून् ॥ ६६
तदीदृशे प्रामादेऽत्र वृत्ते द्रोहः कृतो भवेत् । इत्यालोच्य मयोक्तं ते चित्रमेत्य ततोऽद्य तत् ॥ ६७
श्रुत्वैतत्स द्विजात्तस्मान्मदनाज्ञानिभं वचः। विद्युयोताहृतमनाः श्रुतसेननृपोऽभवत् ॥ ६८
तत्क्षणं च विसृज्यैव तत्र विप्रं तमेव सः। तथाकरोथथानीय शीतुं तां परिणीतवान् ॥ ६९
ततः सा नृपतेस्तस्य विद्युद्दयोता नृपात्मजा । शरीराव्यतिरिक्तासीद्भास्करस्य प्रभा यथा ॥ ७०
अथ स्वयंवरायागात्तं नृपं रूपगर्धिता । कन्यका मातृदत्ताख्या महधनवणिक्सुता ॥ ७१
अधर्मभीत्या जग्राह स राजा तां वणिक्सुताम् । विद्युद्दयोताथ तद्भुङ हृत्स्फोटेन व्यपद्यत ॥ ७२
राजाप्यागत्य तां कान्तां पश्यन्नेव तथा गतम् । अहे कूव स विलपन्सद्यः प्राणैर्ययुज्यत ॥ ७३
ततो वणिक्सुता वर्हि मातृदत्ता विवेश सा । इत्थं प्रणष्टं सर्वं तदपि राष्ट्री सराजकम् ॥ ७४
अतो राजन्प्रकृष्टस्य भङ्गः प्रेम्णः सुदुःसहः। विशेषेण मनस्विन्य देव्या वासवदत्तया ॥ ७५
तस्मात्कलिङ्ग सेनैषा परिणीता यदि त्वया। देवी वासवदत्ता तत्प्रणश्जह्यान्न संशयः॥ ७६
देवी पद्मावती तद्वत्तयोरेकं हि जीवितम् । नरवाहनदत्तश्च पुत्रस्ते स्यात्कथं ततः ॥ ७७
तच्च देवस्य हृदयं सोढं जाने न शत्रुयात् । एवमेकपदे सर्वमिदं नश्येन्महीपते ॥ ७८
देब्योरेंचोक्तिगाम्भीर्यं तदेव कथयत्यलम् । हृदयं जीवितत्यागगाढनिश्चितनिःस्पृहम् ॥ ७९
तस्वार्थं रक्षणीयस्ते तिर्यञ्चोऽपि हि जानते । स्वरक्षां किं पुनर्देव बुद्धिमन्तो भवादृशाः ॥ ८०
इति मत्रिवराच्छुत्वा स्वैरं यौगन्धरायणात् । सम्यग्विवेकपदवीं प्राप्य वत्सेश्वरोऽब्रवीत् ॥ ८१
एवमेतन्न संदेहो नश्येत्सर्वमिदं मम । तस्मात्कलिङ्गसेनायाः कोऽर्थः परिणयेन मे ॥ ८२
उक्तो यमश्च दूरे यत्तद्युक्तं गणकैः कृतम् । स्वयंवरागतात्याराधर्मो वा कियान्भवेत् ॥ ८३
इत्युक्तो वत्सराजेन हृष्टो यौगन्धरायणः । चिन्तयामास कार्यं नः सिद्धप्रायं यथेप्सितम् ॥ ८४
उपायरससंसिक्ता देशकालोपचूंहिता । सेयं नीतिमहवल्ली किं नाम न फलेत्फलम् ॥ ८५
इति संचिन्त्य स ध्यायन्देश की प्रणम्य तम् । राजानं प्रययौ मी गृहं यौगन्धरायणः ॥ ८६
राजापि रचितातिथ्यगूढाकारामुपेत्य सः । देवीं वासवदत्तां तां सान्त्वयन्नेवमब्रवीत् ॥ ८७
किमर्थं वच्मि जानासि त्वमेव हरिणाक्षि यत् । वरि बारिरुहस्येव त्वत्प्रेम मम जीवितम् ॥ ८८
नमापि हि किमन्यस्य ग्रहीतुमहमुत्सहे । कलिङ्गसेना तु हठादुपायाता गृहं सम ॥ ८९
प्रसिद्धं चात्र यद्रम्भां तपःस्थेन निराकृता । पार्थेन षण्ढताशापं ददौ तस्यै हठागता ॥ ९०
स शाषस्तिष्ठता तेन वर्ष वैराटवेश्मनि । स्त्रीवेषेण महाश्वयरूपणाप्यतिवाहितः ॥ ९१
अतः कळिङ्गसेनैषा निषिद्ध न तदा मया । विना त्वदिच्छयाहं तु न किंचिद्वकुमुत्सहे ॥ ९२
इत्याश्वास्योपलभ्याथ हृदयेनेव रोगिणा । मुखर्पितेन मवेन सत्यं कूरं तदाशयम् ॥ ९३
तयैव सह रात्रिं तां राज्ञां वासवदत्त या। मञ्जिमुख्यमतिप्रौढितुष्टो वत्सेश्वरोऽवसत् ॥ ९४
अत्रान्तरे च यं पूर्व दिवारात्रौ प्रयुक्तस्रान् । कलिङ्गसेनावृत्तान्तज्ञस्यै यौगन्धरायणः ॥ ९५
स ब्रह्मराक्षसोऽभ्येत्य सुहृद्योगेश्वराभिधः। तस्यमेव निशि स्वैरं तं मत्रिवरमभ्यधात् ॥ ९६
कलिझसेनासने स्थितोऽस्म्यन्तर्बहिः सदा। दिव्यानां मानुषाणां वा पश्यामि न तथागमम् ॥ ९७
अद्याठ्यक्तो मया शब्दः श्रुतोऽकस्मान्नभस्तले। प्रच्छन्नेनात्र हयप्रसंनिकर्षे निशामुखे ॥ ९८
प्रभवं तस्य विज्ञातुं प्रयुक्तापि ततो मम । विद्या न प्राभवत्तेन विमृश्याहमचिन्तयम् ॥ ९९