पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४२
[आदित
कथासरित्सागरः ।

किं तु कृत्वेदृशं कर्म यदनेनात्र सुप्यते । विस्रब्धं तदहो चित्रं वीर्यमुद्रिक्तचेतसम् ॥
इत्यत्र चिन्तयत्येव विष्णुदन्ते प्रयुध्य सा । कुस्त्री ददर्श जारं स्वं हतं सुतं च तं पतिम् ॥
उस्थय च गृहीत्वा तस्कन्धे जारकबन्धकम् । हस्तेनैकेन चाद्य तच्छिरः सा विनिर्ययौ ॥
गत्वा बहिश्श्व निक्षिप्य भस्मकूटान्तरे द्रुतम्। कबन्धं सशिरस्कं तमययौ निभृतं ततः ॥
विष्णुदत्तश्च निर्गत्य सर्वे दूराद्विलोक्य तत् । मध्ये सखीनां सुप्तानां प्रविश्यासीत्तथैव सः ॥
सा चागत्य प्रविश्यान्तः पत्युः सुप्तस्य दुर्जनी । तेनैव तत्कृपाणेन तस्य मूर्धानमच्छिनत् ॥
निर्गत्य अवयन्ती च भृत्याशब्दं चकार सा । हा हतास्मि हतो भर्ता ममैभिः पथिकैरिति ॥
ततः परिजनाः श्रुत्वा प्रधाव्यालोक्य तं प्रभुम् । हतं तान्विष्णुदत्तादीनभ्यधावनुयुधाः ॥
एतैश्चाहन्यमानेषु तेषु त्रस्तोत्थितेष्वथ। अन्येषु तरसहयेषु विष्णुदत्तोऽब्रवीद्भुतम् ॥
अलं वो ब्रह्महत्याभिनैवास्माभिरिदं कृतम् । एतयैव कृतं तत्कुस्त्रियान्यप्रसक्तया ॥
मया चापावृतद्वारमार्गेणा मूलमीक्षितम् । निर्गत्य च बहिर्वटं क्षमध्वं यदि वच्मि तत् ॥
इयुक्त्वा तान्स शबरान्विष्णुदत्तो निवार्य च । तेभ्यो निःशेषमा मूळाडूतान्तं तमवर्णयत् ॥
नीत्वा चादर्शयत्तेषां कबन्धं तं शिरोन्वितम् । सद्यो हतं तया क्षिप्तं स्त्रिया तस्मिन्नवस्करे ॥
ततः स्वेन विवर्णेन मुखेनाङ्गीकृते तया । कुलटां तां तिरस्कृत्य सर्वे तत्रैवमब्रुवन् ॥
स्मराकृष्टा तनोत्येव या साहसमशङ्किता । सा परस्वीकृता कुस्त्री कृपाणीव न हन्ति कम् ॥
इत्युक्त्वा विष्णुदन्तादीन्सर्वास्ते मुमुचुस्ततः । विष्णुदत्तं च सप्तान्ये सहायास्तेऽथ तुष्टुवुः ॥
रक्षारत्नप्रदीपस्त्वं जातो नः स्वपतां निशि। त्वत्प्रसादेन तीर्णाः स्मो मृत्युमद्यानिमित्तजम् ॥
स्तुत्वैवं विष्णुदत्तं तं शमयित्वा च दुर्वचः प्रणतास्ते ययुः प्रातः स्वकर्थायैव तद्युतः ॥
इथं कलिङ्गसेनायाः कथयित्वा कथां मिथः । सोमप्रभा सा कौशाम्ब्यां सखीं पुनरुवाच तम् ॥
एवं कार्यप्रवृत्तानामनिमित्तमुपस्थितम् । विलम्बाद्यप्रतिहतं सख्यमिष्टं प्रयच्छति ॥
ततश्चात्रानुतप्यन्ते प्राज्ञवाक्यावमानिनः । प्रवर्तमान रभसपयेन्ते मन्दबुद्धयः ॥
अतोऽशुभे निमित्ते यो बरसेशं प्रति यत्त्वया । आत्मग्रहाय प्रहितो दूतो युक्तं न तत्कृतम् ॥
तदविनं विवाहं च विधातु विधिस्तव । कुलनेनागता गेहाद्वित्रहस्तेन दूरतः ॥
देवा अपि च लुभ्यन्ति त्वयि रक्ष्यभिदं ततः। चिन्त्यश्च नीतिनिपुणो मन्त्री यौगन्धरायणः ॥
जव्यसनशी सन्सोऽत्र विन्नं समाचरेत् । विहितेऽपि विवाहे वा दोषमुत्पादयेत्तव ॥
धार्मिकः सन्न कुर्याद् दोषं तदपि ते सखि। सपत्नी सर्वथा चिन्या कथां बच्म्यत्र ते श्रुणु ॥
अस्तीहेसुमती नाम पुरी तस्याश्च पार्श्वतः । नदी तदभिधानैव विश्वामित्रकृते उभे ॥
तत्समीपे महच्चास्ति वनं तत्र कृताश्रमः । ऊर्ध्वपादस्तपश्चक्रे मुनिर्मङ्कणकाभिधः ॥
तपस्यता च तेनान्न गगनेनागताप्सराः । अदर्शि मेनका नाम वातेन चलितस्बरा ॥
ततो लब्धावकाशेन कामेन क्षोभितात्मनः । नूतने कीगमें वीर्यं तस्यापतन्मुनेः ॥
जज्ञे ततश्च कन्या सा सद्यः सर्वाङ्गसुन्दरी । अमोघं हि महर्षीणां वीर्यं फलति तस्क्षणम् ॥
संभूता कदलीगर्भ यस्मात्तस्माञ्चकार ताम् । नाम्ना स कदलीगर्भा पिता मङ्कणको मुनिः ॥
तस्याश्रमे सा ववृधे गौतमस्य कृपी यथा । द्रोणभार्या पुरा रम्भादर्शनच्युतवीर्यजा ॥
एकदा च विवेशैतमाश्रमं मृगयारसत् । दृढवर्मा हृतोऽश्वेन मध्यदेशभवो नृपः ॥
स तां ददर्श कदलीगर्भ प्रावृतवल्कलाम् । मुनिकन्योचितेनात्र वेषेणात्यन्त शोभिताम् ॥
सा च हृष्टास्य नृपतेः स्वीचक्रे हृदयं तथा। यथावकाशोऽपि हृतस्तत्रान्तःपुरयोषिताम् ॥
अपीमां प्राप्नुयां भार्यां कस्यापीह सुतामृषेः । दुष्यन्त इव कण्वस्य मुनेः कन्यां शकुन्तलाम् ॥
इति संचिन्तयन्नेव संगृहीतसमित्कुशम्। सोऽत्रापश्यत्तमायान्तं मुनिं ॥
ववन्दे चैतमभ्येत्य पादयोर्मुक्तवाहनः। पृष्टश्चास्मानमेतस्मै सुनये स न्यवेदयत् ॥