तस्य तद्वदनेन्द्रे च चन्द्रकान्तस्य पश्यतः । देवसेनस्य हृदयं चित्रं न गलति स्म यत् ॥ १८३
अथास्य कीर्तिसेनायामेवं प्रकटितात्मनि । किमेतदिति साध्ये स्थिते तस्मिश्च तत्पतौ ॥ १८४
विस्मिते च वणिग्ग्रामे तदुवैव सविस्मयः । स राजा वसुदत्तोऽत्र स्वयमेव किलाययौ ॥ १८५
तेन पृष्टा च सा कीर्तिसेना पत्युः पुरोऽखिलम् । श्वशूदुश्चरितोरपन्नं स्ववृत्तान्तमवर्णयत् ॥ १८६
देवसेनश्च तच्छुत्वा तद्भर्ता स स्वमातरि । पराङ्मुखोऽभवत्कोपक्षमाविस्मयहर्षवान् ॥ १८७
भर्तुभक्तिरथाडूढाः शीलसंनाहरक्षिताः । धर्मसारथयः साध्व्यो जयन्ति मतिहेतयः॥ १८८
इति तत्र स्थितोऽवादीदाकण्यैव तदद्भुतम् । चरितं कीर्तिसेनायाः सानन्दः सकलो जनः ॥ १८९
राजाप्युवाच पयर्थमाश्रितक्ॐशयानया । सीतादेव्यपि रामस्य परिक्लेशवहा जिता ॥ १९०
तदेषा धर्मभगिनी मम प्राणप्रदायिनी । इत्युक्तवन्तं तं भूपं कीर्तसेनाथ साब्रवीत् ॥ १९१
देव त्वदीतियो यस्तव हस्ते मम स्थितः । प्रा(महस्त्यश्वरनादिः स मे भन्नें समर्थताम् ॥ १९२
एवमुक्तस्तया राजा दबा प्रामादि तस्य तत् । तद्धर्देवसेनस्य प्रीतः पटुं बबन्ध सः ॥ १९३
अथ नरपतिदतैस्तैर्बणिज्याजितैश्च प्रसभभरितकोषो देवसेनो धनौधैः ।
परिहृतजननीकः संस्तुवन्कीर्ति सेनां कृतवसतिरमुष्मिन्नेव तस्थौ पुरे सः ॥ १९४
सुखमपगतपापश्वधृकं कीर्तिसेनप्यसमचरितलब्धव्यतिरासाद्य तत्र ।
न्यवसद खिळभोगैश्वर्यभागान्तिकस्था सुकृतफलसमृद्धिर्देहबद्धेव भर्तुः ॥ १९५
एवं विषय विधुरस्य विधेर्नियोगमापत्सु रक्षितचरित्रधना हि साध्यः ।
गुप्तः स्वसत्त्वविभवेन महत्तमेन कल्याणमादधति पत्युरथात्मनश्च ॥ १९६
इत्थं च पार्थिवकुमारि भवन्ति दोषाः श्वशूननन्तृविहिता बहवो वधूनाम् ।
तद्भर्तृवेश्म तव तादृशमर्थयेऽहं श्वशूने यत्र न च यत्र शठा ननन्दा ॥ १९७
इतीदमानन्दिकथाद्भुतं सा मुखनिशम्यासुरराजपुत्र्याः ।
सोमप्रभाया मनुजेन्द्रपुत्री कलिङ्गसन परितुष्यति स्म ॥ १९८
ततो विचित्रार्थकथावसानं दृष्ट्वा गन्तुं मिहिरे प्रवृत्ते।
सोत्कां समालिङ्ग्य कलिङ्गग्सेनां सोमप्रभा स्वं भवनं जगाम ॥ १९९
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे मदनमखुकालम्बके तृतीयस्तरङ्गः ।
_____
चतुर्थस्तरङ्गः ।
ततः स्वसद्म यातयाः पश्चान्मार्गमवेक्षितुम् । सोमप्रभायाः स्नेहेन मार्गहर्यांप्रमास्थिताम् ॥ १
कलिङ्गसेनामारात्तां ददर्श गगनागतः । दैवान्मनवेगाख्यो युवा विद्याधराधिपः ॥ २
स तां दृष्चैव रूपेण जगत्रितयमोहिनीम् । क्षोभं जगाम कमैन्द्रजालिकस्येव पिच्छिकाम् ॥ ३
अलं विद्याधरस्त्रीभिः का कथाप्सरसामपि । यत्रेदृगेतदेतस्या मनुष्या रूपमद्भुतम् ॥ ४
तदेषा यदि मे न स्यान्नय किं जीवितेन तत् । कथं च मानुषीसङ्गं कुर्यां विद्याधरोऽपि सन् ॥ ५
इत्यालोच्य स दध्यौ च विद्यां प्रज्ञप्तिसंज्ञिकाम् । सा चाबिभृय साकारा तमेवमवदत्तदा॥ ६
तत्रचतो मानुषी नेयमेषा शापच्युताप्सराः । जाता कलिङ्गदत्तस्य गृहे सुभग भूपतेः ॥ ७
इत्युक्ते विद्यया सोऽथ हृष्टो गत्वा स्वधमनि । विद्याधरोऽन्यविमुखः कामार्तः समचिन्तयत् ॥ ८
इठाद्यदि हराम्येतां तदेतन्मे न युज्यते । स्त्रीणां हठोपभोगो हि भम शापोऽस्ति मृत्युः ॥ ९
तदेतत्प्राप्तये शंभुराशध्यस्तपसा मया । तपोधीननि हि श्रेयांस्युपायोऽन्यो न विद्यते ॥ १०
इति निश्चित्य चान्येद्युर्गत्वा ऋषभपर्वतम् । एकपाद स्थितस्तेपे निराहारस्तपांसि सः ॥ ११
अथ तुष्टोऽचिरात्तीनैस्तपोभिर्दत्तदर्शनः । एवं मदनवेगं तमादिदेशाम्बिकापतिः ॥ १२
एषा कलिङ्गसेनाख्या रूल्याता रूपेण भूतले । कन्था नास्याश्च भर्तापि सदृशो रूपसंपदा ॥ १३