पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३२
[ आदितस्तरः
कथासरित्सागरः ।

शिरः पूर्वं घृताश्थतं तस्य न्यस्तोष्णसर्पिषा । कृत्वा मध्याह्नकठिने स्थापितस्यातपे चिरम् ॥
निवेश्य कर्णकुहरे सुषिरां वंशनाडिकाम् । शीताम्बुघटपृष्ठथशराबच्छिद्रसङ्गिनीम् ॥
तेन स्वेदातपक्लान्ता निर्गत्यास्य शिरोन्तरात् । कर्णरन्भेण तेनैव वंशनाडीं प्रविश्य ताम् ॥
घटे शीताभिलाषिण्यः शतपद्यः पतन्ति ताःन एवं स नृपतिस्तस्मान्महारोगाद्विमुच्यते ॥
इत्युक्त्वा राक्षसी पुत्रान्वृक्षस्थान्विरराम सा । कीर्तिसेना च तत्सर्वमथुणोकोटरस्थिता ॥
श्रुत्वा च चिन्तयामास निस्तरिष्यामि चेदितः । तद्वैवैतया युक्त्या जीवयिष्यामि तं नृपम्॥
एतामेवाटवीं सोऽल्पशुल्कः प्रान्तस्थितोऽवति । तत्सौकर्याच वणिजः सर्वे यान्यमुना पथा ॥
एतत्समुद्रसेनोऽपि स्वर्गामी सोऽब्रवीदृणिछ । तदेतेनैव मार्गेण स मे भर्तागमिष्यति ॥
अतो गत्वाटवीप्रान्ते वसुदत्तपुरे नृपम् । रोगादुत्तार्य तत्रस्था प्रतीक्षे भर्तुरागमम् ॥
एवं विचिन्तयन्ती सा ऋकातामनयन्निशाम्। प्रातर्नटेषु रक्षःसु निरगात्कोटरात्ततः ॥
क्रमात्ततोऽटवीमध्ये यान्ती पुरुषवेषभृत् । प्राप्तेऽपराहे गोपालमेकं साधं ददर्श सा ॥
तत्सौकुमार्यदूराध्वदर्शनाद्रीकृतं च तम् । पप्रच्छोपेत्य सा कोऽयं प्रदेशः कथ्यतामिति ॥
सोऽपि गोपालकोऽवादीद्वसुदत्तस्य भूपतेः । वसुदत्तपुरं नाम पुरमेतत्पुरः स्थितम् ॥
राजापि स महात्मात्र मुमूर्धव्याधितः स्थितः । तच्छुत्वा कीर्तिसेना तं गोपालकमभाषत ॥
यदि मां नयते कश्चिद्राज्ञस्तस्यान्तिकं ततः । अहं तं तस्य जानामि निवारयितुमामयम् ॥
तच्छुत्वैवावदद्पः पुरेऽत्रैव व्रजाम्यहम् । तदायाहि मया साकं यावद्यत्नं करोमेिं ते ॥
तथेत्युक्तवतीं तां च कीर्तिसेनां तदैव सः । वसुदत्तपुरं गोपः पुंवेषां नयति स्म तम् ॥
तच्च तत्र तथा वस्तु निबेद्यातीय तत्क्षणात् । प्रतीहाराय कल्याणलक्षणं तां समर्पयत्॥
प्रतीहारोऽपि राजानं विज्ञायैव तदाज्ञया । प्रवेशयामास स तां तस्यान्तिकमनिन्दिताम् ॥
राजा च सोऽन्न रोगर्तस्तां दृष्टैवाद्भुताकृतिम् । आश्वस्तो वसुदत्तोऽभूद्वेत्त्यात्मैव हिताहितम् ॥
उवाच चैतां पुंवेषां यदीमामपनेष्यसि । रुजमेतत्प्रदास्यामि राज्यार्ध ते सुलक्षण ॥
जाने जहर पृष्ठान्मे स्वप्ने स्त्री कृष्णकम्बद्धम्। तन्निश्चितमिमं रोगं हरिष्यति भवान्मम ॥
तच्छुत्वा कीर्तिसेना तं जगाद च दिनं गतम् । देव श्वस्तेऽपनेष्यामि रोगं मा स्माधृतिं कृथाः ॥
इत्युक्त्वा मूत्रं राज्ञोऽस्य गव्यं घृतमद्यपयत् । तेन तस्याययौ निद्र ययौ सा चातिवेदना ॥
भिषगूपेण देवोऽयं पुण्यैर्नः कोऽप्युपागतः । इति तत्र च तां सर्वे कीर्तिसेनां ततोऽस्तुवन् ॥
महादेवी च तैस्तैस्तामुपचौरैरुपाचरत् । नक्तं वेश्म पृथक्चास्याः सदासीकमकल्पयत् ॥
अथापरेद्युर्मध्याहे मञ्जिष्वन्तःपुरेषु च । पश्यत्सु तस्य भूपस्य कीर्तिसेना चकर्ष सा ॥
शिरसः कर्णमार्गेण सार्ध शतपदीशतम् । राक्षस्युदितया पूर्वं युक्त्यात्यद्भुतया तया ॥
स्थापयित्वा च घटके सा ताः शतपदीस्ततः। घृतक्षीरादिसेकेन तं नृपं समतर्पयत् ॥
क्रमात्तस्मिन्समाश्वस्ते रोगमुक्ते महीपतौ । घटे तान्प्राणिनो दृष्ट्वा को न तत्र विसिस्मिये ॥
राजा च स विलोक्यैतान्कुकीटान्मूर्धनिर्गतान् । तत्रास दध्यौ मुमुदे मेने जन्म निजं पुनः ॥
कृतोत्सवश्च स ततः कीर्तिसेनामपूजयत् । तामनादृतराज्याधी प्रासहस्त्यश्वकाञ्चनैः ॥
देवी च मत्रिणश्चैतां हेम्ना वगैरपूरयन् । प्रभुप्राणप्रदोऽस्माकं पूज्यो भिषगसाविति ॥
सा च तस्यैव राज्ञस्तान्हस्तेऽर्थान्संप्रति न्यधात् । कंचित्कालं प्रतस्थोऽहमित्युक्त्वा भर्नापेक्षिणी ॥
ततः संमान्यमानात्र सवैः कान्यप्यहानि सा। यावत्पुरुषवेषेण कीर्ति सेनावतिष्ठते ॥
तावच्छुश्राव लोकान्तं वलभीतः समागतम् । सार्थवाहं पथा तेन देवसेनं निजं पतिम् ॥
पुरि तत्राथ ही साथं प्राप्तं बुद्धे व साभ्यगात्। भतरं तमपश्यच्च भयूरीव नवाम्बुदम् ॥
चित्तेनेव चिरौत्सुक्यसंतापप्रविलायिना। दत्ताधीनन्दबाष्पेण पादयोस्तस्य चापतत् ॥
सोऽपि प्रत्यभ्यजानाच वेषच्छन्नां निरूप्य ताम् । भर्ता भास्वत्करालक्ष्यां दिवा मूर्तिमिवैन्दवीम् ॥