पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३०
[ आदितस्तर
कथासरित्सागरः ।

यावन्न परिणीता त्वं तावत्सख्यं मम त्वया । त्वद्भर्तृभवने पश्चान्मम स्यादगमः कुतः ॥
न दृश्यो हि सखीभर्ता नाङ्गीकांर्यः कथंचन । अवेर्नुकीव स्नुषायाः श्वभूमीसानि खादति ॥
तथा च शृणु वच्म्येतां कीर्तिसेनाकथां तव ।
पुरे पाटलिपुत्राख्ये धुर्यो धनवतां वणिक्। नाम्ना यथार्थेन पुरा धनपालित इत्यभूत् ॥
कीर्तिसेनाभिधाना च तस्यजायत कन्यका। रूपेणानन्यसदृशी प्राणेभ्योऽप्यधिकप्रिया ॥
सा च तेन समानाय मगधेषु महद्भये । देवसेनाभिधानाय दत्ताद्वणिजे सुता ॥
तस्य चातिसुवृत्तस्य देवसेनस्य दुर्जनी । विपन्नजनकस्यासीज्जननी स्वामिनी गृहे ॥
सा स्नुषां कीर्तिसेनां तां पश्यन्ती पतिसंमताम् । क्रुधां ज्वलन्ती पुत्रस्य परोक्षभकदर्थयत् ॥
कीर्तसेना च सा पत्युर्वक्तुं नैव शशाक तत् । कष्टा हि कुटिलाश्वध्रुपरतत्रवधूस्थितिः ॥
एकदा स पतिस्तस्या देवसेनो वणिज्यया । गन्तुं प्रववृते बन्धुप्रेरितो वलभीं पुरीम् ॥
ततः सा कीर्तिसेना तं पतिमेवमभाषत । इयचिरं मया नैतदार्यपुत्र तवोदितम् ॥
कदर्थयति मामेषा तवास्या त्वय्यपि स्थिते । त्वयि तु प्रोषिते किं मे कुर्यादिति न वेड्यहम् ॥
तच्छुत्वा स समुद्रान्तस्तत्स्नेहात्सभयः शनेः । देवसेनस्तदा गत्वा मातरं प्रणतोऽब्रवीत् ॥
कीर्तिसेनाधुना हस्ते तत्रस्व प्रस्थितस्य मे । नास्या निःस्नेहता कार्या कुलीनतनया ह्यसौ ॥
तच्छुत्वा कीर्तिसेनां तामाहूयोद्वर्तितेक्षणा । तं देवसेनं माता सा तत्कालं समभाषत ॥
कृतं मया किं पृच्छेतामेवं स्वां प्रेरयत्यसौ । गृहभेदकरी पुत्र मम तु द्वौ युवां समौ ॥
श्रुत्वैतच्छान्तचित्तोऽभूतकृते स वणिग्वरः । व्याजसप्रणयैर्वाक्यैर्जनन्या यो न वक्ष्यते ॥
कीर्तिसेना तु सा तूष्णीमासीदुद्वेगसस्मिता । देवसेनस्तु सोऽन्येद्युः प्रतस्थे वलभीं वणिक् ॥
ततस्तद्विरहछेशजुषस्तस्याः क्रमेण सा । तन्माता कीर्तिसेनाया दासीः पार्श्वयवारयत् ॥
कृत्वा च गृहचारिण्या स्वचेव्या सह संविदम्। आनाय्याभ्यन्तरं गुप्तं तां विवस्त्रां चकार सा ॥
पापे हरसि मे पुत्रमित्युक्त्वा स कचग्रहम् । पादैर्दन्तैर्नखैश्चैतां चेट्या सममपाटयत् ॥
चिक्षेप चैनां भूगेहे सपिधाने दृढार्गले । तत्रत्येऽभ्युद्धृताशेषपूर्वजातार्थसंचये ॥
न्यधाच्च तस्यास्तत्र(न्तः प्रत्यहं सा दिनात्यये। पापा तादृगवस्थाया भक्तस्यार्धशरावकम् ॥
अचिन्तयच्च दूरस्थे पत्यावेवं मृता स्वयम् । इमां व्युत्थाप्य यातेति वक्ष्यामि दिवसैरिति ॥
इत्थं भूमिगृहे क्षिप्ता श्वश्वा पापकृता तया । सुखाहीं रुदती तत्र कीर्तिसेना व्यचिन्तयत् ॥
आढ्यः पतिः कुले जन्म सौभाग्यं साधुवृत्तता। तदप्यहो मम श्वभूप्रसादादीदृशी विपत् ॥
एतदर्थं च निन्दन्ति कन्यानां जन्म बान्धवाः । श्वधूननन्दृसंत्रासमसौभाग्यादिदूषितम् ॥
इति शोचन्त्यकस्मात्सा कीर्तिसेना खनित्रकम् । लेभेऽस्माद्भगृहाद्धात्रामनःशल्यमिवोद्धृतम् ॥
अयोमयेन तेनात्र सुरुङ्गां निचखान सा । तावद्यावत्तयोत्तस्थे वात्स्वाद्वासवेश्मनः ॥
ददर्श च प्रदीपेन प्राक्तनेनाथ तबृहम् । अक्षीणेन कृतालोका धर्मेणेव निजेन सा। ॥
आदायातश्च वस्त्राणि स्वं स्वर्गे च निशाक्षये । निर्गत्यैव ततो गुनं जगाम नगराद्वहिः ॥
एवंविधाया गन्तुं मे न युक्तं पितृवेश्मनि । किं वक्ष्ये तत्र लोकश्च प्रत्येष्यति कथं मम ॥
अतः स्वयुक्त्या गन्तव्यं पत्युरेवान्तिकं मय। इहामुत्र च साध्वीनां पतिरेका गतिर्यतः ॥
इत्यालोच्य चकारात्र तडागाम्बुकृताप्लवा। राजपुत्रस्य वेषं सा कीर्तिसेना सुचूंहितम् ॥
ततो गत्वापणे दत्त्वा किंचिन्मूल्येन काञ्चनम् । कस्यापि वणिजो गेहे दिने तस्मिखुवास स ॥
अन्येद्युस्तत्र चक्रे च वलभीं गन्तुमिच्छता । समुद्र सेननाम्ना सा वणिजा सह संस्तवम् ॥
न साकं सभृत्येन प्राप्तुं प्राक्प्रस्थितं पतिम् । सद्राजपुत्रवेषा सा प्रतस्थे वलभीं प्रति ॥
जगाद च वणिजं गोत्रजैरस्मि बाधितः। तत्वया सह गच्छामि वलभीं स्वजनान्तिकम् ॥

तच्छुत्वा स वणिक्पुत्रो मार्गे पर्यचरच ताम् । राजपुत्रो ध्रुवं भव्यः कोऽप्यसाविति गौरवात् ॥