पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तरङ्गः ३ ।]
१२९
मदनमङ्कलबकः ६ ।

ततः श्लाघ्यसखी सङ्गहृष्टो मत्वाभिनन्द्य च । आहरं कारयामास जननी तां यथोचितम् ॥ २७
अथान्येद्युरुपागत्य विदितार्थं क्रमेण सा । कलिङ्गसेनां तामेवं रहः सोमप्रभाभ्यधात् ॥ २८
मया त्वत्सख्यमावेद्य त्वत्पार्श्वगमनेऽन्वहम् । अनुज्ञा ज्ञानिनो भर्तुगृहीता विदितार्थतः ॥ २९
तस्मात्त्वमप्यनुज्ञाता पितृभ्यां भव सांप्रतम् । येन स्वैरं भया संकं निःशङ्का विहरिष्यसि ॥ ३०
एवमुक्तवतीं हस्ते तां गृहीत्वैव तक्षणम् । कलिङ्गसेना स्वपितुर्मातुश्च निकटं ययौ ॥ ३१
तत्र नामान्वयाख्यानपूर्व चैतामदर्शयत् । पित्रे कलिङ्गदत्ताय राज्ञे सोमप्रभां सखीम् ॥ ३२
मात्रे च तारादत्तायै तथैवैतामदर्शयत् । तौ च दृष्ट्वा यथाख्यानमेनामभिननन्दतुः॥ ३३
ऊचतुश्चाकृतिप्रीतौ दंपती तावुभौ ततः । सत्कृत्य दुहितृस्नेहात्तां महासुरसुन्दरीम् ॥ ३४
वत्से क लिङ्गसेनेयं हस्ते तव समर्पिता । तदिदानीं यथाकाममुभे विहरतां युवाम् ॥ ३५
एतत्तयोर्वचो वे चाप्यभिनन्द्य निरीयतुः । समं कलिङ्गसेना च सा च सोमप्रभा ततः ॥ ३६
जग्मतुश्च विहाराय विहारं राजनिर्मितम् । आनिन्यतुश्च तां तत्र मायायञ्जकरण्डिकाम् ॥ ३७
ततो यत्रमयं यज्ञे गृहीत्वा प्राहिणोत्तदा । सोमप्रभा स्खप्रयोगार्युद्धार्थानयनाय सा ॥ ३८
स यक्ष नभसा गत्वा दूरमध्वानमाययौ । आदाय मुक्तासद्रत्नहेमाम्बुरुहसंचयम् ॥ ३९
तेनाभिपूज्य सुगतान्भासयामास तत्र सा । सोमप्रभा सनिलयान्सर्वाश्चर्यप्रयिना ॥ ४०
तद्दगत्य दृष्ट्वा च विस्मितो महिषीसखः । राज कलिङ्गदत्तस्तामपृच्छद्यत्रचेष्टितम् ॥ ४१
ततः सोमप्रभावादीद्राजन्नेतान्यनेकधा । माययत्रादिशिल्पानि पित्रा सृष्टानि मे पुरा ॥ ४२
यथा चेदं जगद्यत्रं पञ्चभूतात्मकं तथा । यत्राण्येतानि सर्वाणि शृणु तानि पृथक्पृथक् ॥ ४३
पृथ्वीप्रधानं यन्त्रं यह्रादि पिदधाति तत् । पिहितं तेन शक्नोति न चोद्धाटयितुं परः ॥ ४४
आकारस्तोययन्नोस्थः सजीव इव दृश्यते । तेजोमयं तु यद्यजं तजवालाः परिमुञ्चति ॥ ४५
वातयत्रं च कुरुते चेष्टा गत्यागमादिकाः । व्यक्तीकरोति चालापं यत्रभाकाशसंभवम् ॥ ४६
मया चैतान्यवाप्तानि तातािकि त्वमृतस्य यत् । रक्षकं चक्रयनं तत्तातो जानाति नापरः ॥ ४७
इति तस्या वन्यास्तद्वचः श्रद्दधतामिव । मध्याह्न पूर्यमाणानां शङ्कमानासुदभूदनः ॥ ४८
ततः स्वोचितमाहारं दा विज्ञाप्य तं नृपम् । प्राप्यानुज्ञां विमाने तां सानुगां यत्रनिर्मिते ॥ ४९
कलिङ्गसेनाभादाय प्रतस्थे गगनेन सा । सोमप्रभा पितृगृहं ज्येष्ठायाः स्वमुरन्तिकम् ॥ ५०
क्षणाच्च प्राप्य विन्ध्याद्रिवन्न तत्पितृमन्दिरम् । तस्याः स्वयंप्रभायाश्च पार्श्व तामनयस्वसुः ॥ ५१
तत्रापश्यज्जटाजूटमालिनीं तां स्वयंप्रभाम् । कलिङ्गसेना लम्बाक्षमालां सा ब्रह्मचारिणीम् ॥ ५२
सुसिताम्बरसंवीतां हसन्तीमिव पार्वतीम् । कामभोगमहाभोगगृहीतोषतपःक्रियाम् ॥ ५३
सापि समप्रभाख्यातां प्रणतां तां नृपात्मजाम् । स्वयंप्रभा कृतातिथ्या संविभेजे फलाशनैः ॥ ५४
सखि भुक्तैः फलैरेतैर्जर ते न भविष्यति । विनाशिन्यस्य रूपस्य पञ्चस्येव हिमाहुतिः ॥ ५५
एतदर्थमिह स्नेहदानीता भवती मया । इति सोमप्रभा चैतां राजपुत्रीमभाषत ॥ ५६
ततः कलिङ्गसेनात्र तान्यभुङ्ग फलानि सा । सद्योऽमृतरसासारसिक्ताङ्गीव बभूव च ॥ ५७
ददर्श च पुरोद्यानं भ्रमन्ती तत्र कौतुकात् । ससुवर्णाब्जवापीकं सुधास्वादुफलद्रुमम् ॥ ५८
हमचित्रखगाकीर्णं सन्मणिस्तम्भविभ्रमम् । भित्तिबुद्धिकरं शये भित्तौ शन्यप्रतीतिदम् ॥ ५९
जले स्थलधियं कुर्वत्स्थले च जलबुद्धिकृत् । लोकान्तरमिघापूर्व संयमायाविनिर्मितम् ॥ ६०
प्रविष्टपूर्वं प्लवगैः पुरा सीतागवेषिभिः । स्वयंप्रभाप्रसादेन चिरात्संप्राप्तनिर्गमैः ॥ ६१
ततस्तदद्भुतपुरप्रकामालोकविस्मिताम् । अजराभाजनीभूतां तामापृष्ट स्वयंप्रभम् ॥ ६२
कलिङ्गसेनामारोप्य यत्रे भूयो विद्या । सोमप्रभा तक्षशिलामानिनाय स्वमन्दिरम् ॥ ६३
तत्र सा तद्यथावस्तु पित्रोः सर्वमवर्णयत् । कलिङ्गसेना तौ चापि परं संतोषमीयतुः ॥ ६४
इत्थं तयोर्दूयोः सख्योर्गच्छत्सु दिवसेष्वथ । ऊचे कलिङ्गसेनां तामेवं सोमप्रभैकदा ॥ ६५