पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तरङ्गः २ ।]
१२७
मदनमद्युकालम्बकः ६ ।

तत्र विह्वलया पल्या तस्य प्रक्षाल्य शोणितम् । आश्वास्य तस्य जङ्घायां निबद्धो व्रणपट्टकः ॥ १५९
ततश्चिकित्स्यमानः सन्त्रणस्तस्य दिने दिने । न परं न रुरोहैव यावन्नाडीवमाययौ । १६०
ततो नाडीव्रणाखिन्नो दरिद्रो मरणोद्यतः। अभ्येत्य सख्या विप्रेण केनापि जगदे रहः ॥ १६१
सखा मे यज्ञदत्ताख्यश्चिरं भूत्वातिदुर्गतः । पिशाचसाधनं कृत्वा धनं प्राप्य सुखी स्थितः ॥ १६२
तच्च तत्साधनं तेन ममाप्युक्तं त्वमप्यतः । पिशाचं साधय सखे स ते रोपयिता व्रणम् ॥ १६३
इत्युक्त्वाख्यातमत्रोऽसावुवाचास्य क्रियामिमाम् । उत्थाय पश्चिमे यामे मुक्तकेशो दिगम्बरः ॥ १६४
अनाचान्तश्च मुष्टी द्वौ तण्डुळानां यथाक्षमम् । द्वाभ्यामादाय हस्ताभ्यां जपन्गच्छेश्चतुष्पथम् ॥१६५
तत्र तण्डुलमुष्टी द्वौ स्थापयित्वा ततः सखे । मौनेनैव त्वमागच्छेर्मा वीक्षिष्ठाश्च पृष्ठतः ॥ १६६
एवं कुरु सदा यावत्पिशाचो व्यक्ततां गतः । अहं हि हन्मि ते व्याधिमिति त्वां वक्ष्यति स्वयम् ॥ १६७
ततोऽभिनन्देतं सोऽथ तव रोगं हरिष्यति । इत्युक्तस्तेनं मित्रेण स द्विजस्तत्तथाकरोत् ॥ १६८
ततः सिद्धः पिशाचः स तस्यार्तस्य महौषधीः। हिमाचलेन्द्रादानीय रोपयामास तं व्रणम् ॥ १६९
जगाद च प्रहृष्टं तं सोऽथ लग्नग्रहो द्विजम् । देहि व्रणं द्वितीयं मे यावत्तं रोपयाम्यहम् ॥ १७०
न चेत्तृजाम्यनर्थं ते शरीरं संहरामि वा । तच्छुत्वा स द्विजो भीतः सद्यो मुक्त्यं तमभ्यधात् ॥ १७१
व्रणं द्वितीयं दास्यामि सप्तभिस्ते दिनैरिति । ततस्तेनोज्झितः सोऽभून्निराशो जीविते द्विजः ॥ १७२
इत्युक्त्वा विरता मध्यादश्लीलाख्यानलजया । कलिङ्गसेना भूयः सावादीसोमप्रभमिदम् ॥ १७३
तो व्रणान्तरालाभादातं विप्रमुवाच तम् । दृष्ट्वा पृष्टश् च दुहिता विदग्धा मृतभर्तृका ॥ १७४
वञ्चयेऽहं पिशाचं तं गच्छ त्वं ब्रूहि तं पुनः । नाडीव्रणो मदुहितुर्भवता रोप्यतामिति ॥ १७५
तच्छुत्वा मुदितो गत्वा तथैवोक्त्वा च स द्विजः । अनैषीदुहितुस्तस्याः पिशाचं तं ततोऽन्तिकम् ॥ १७६
सा च तस्य पिशाचस्य वराङ्गं स्वमदर्शयत् । रोपयेमं व्रणं भद्र ममेति ब्रुवती रहः ॥ १७७
स च मूढः पिशाचोऽस्या वराङ्गं सततं ददौ । पिण्डीलेपादि न त्वासीत्स तं रोषयितुं क्षमः ॥ १७८
दिनैश्व खिन्नस्तस्याः स कृत्वा जठं निजांसयोः । किंस्विन्न रोहतीत्येवं तद्वराङ्गं व्यलोकयत् ॥ १७९
यावद्वितीयं तस्याधः स पापुत्रणमैक्षत । तं दृष्टुंब च संभ्रान्तः स पिशाचो व्यचिन्तयत् ॥ १८०
एको न रोपितो यावदुत्पन्नोऽयं व्रणोऽपरः । सत्यः प्रवादो यच्छिद्रेष्वनौ यान्ति भूरिताम् ॥ १८१
प्रभवन्ति यतो लोकाः प्रलयं यान्ति येन च । संसारवर्म विवृतं कः पिधानं तदीश्वरः ॥ १८२
इत्याछोच्य विरुद्धार्थसिद्ध्या बन्धनशङ्कया । स पिशाचस्ततो मूर्छः पलाय्यादर्शनं ययौ ॥ १८३
एवं च वञ्चयित्वा तं पिशाचं मोचितस्तया । दुहित्रा स द्विजस्तस्थौ रोगोत्तीर्णा यथासुखम् ॥ १८४
इत्थं पिशाचस्ततुल्या बाळ राजसुताश्च ये । ते सिद्धा अप्यनर्थाय सखि रक्ष्यास्तु बुद्धिभिः ॥ १८५
राजपुत्र्यः कुळीनास्तु नैतादृश्यः श्रुताः कचित् । अतोऽन्यथा न भाव्यं ते सखि मत्संगतं प्रति ॥ १८६
एवं कलिङ्ग सेनाया मुखाच्छुवा कथाक्रमम् । सहासचित्रमधुरं तोयं सोमप्रभा ययौ ॥ १८७
इतो में षष्टियोजन्यां गृहं याति च वासरः। चिरं स्थितास्मि तत्तन्वि यामीत्येतामुवाच च ॥ १८८
ततोऽस्तगिरिशेखरं व्रजंति वासरेशे शनैः
सखीं पुनरुपागमप्रणयिनीं समापृच्छय ताम् ।
क्षणं जनितबिस्मथा गगनमार्गमुत्पत्य सा
जगाम वसतिं निजां प्रसभमेव समप्रभा ॥ १८९
विलोक्य च तदद्भुतं बहुवितर्कमत्यद्भुतं
प्रविश्य समचिन्तयस्किल कलिङ्गरसेना च सा ।
न वेद्मि किमसावहो मम सखी हि सिद्धाङ्गना
भवेत्किमथवाप्सराः किमथवापि विद्याधरी ॥ १९०