पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१२८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२४
[आदितस्तरङ्गः
कथासरित्सागरः ।

तदिमा वयमेतस्मिन्निसर्गसुख सद्मनि । श्मशाने प्राणिनामथै विन्यस्यामः शरीरकम् ॥ ४२
इत्युक्त्वा परिवारं ताः सप्त राजकुमारिकाः । तथैव चक्रुः प्रापुश्च संसिद्धिं परमां ततः ॥ ४३
एवं निजे शरीरेऽपि ममत्वं नास्ति धीमताम् । किं पुनः सुतदारादिपरिग्रहतृणोस्करे ॥ ४४
इत्यादि स नृपः श्रुत्वा विहारे धर्मपाठकात् । कलिङ्गदत्तो नीत्वा च दिनं प्रायात्स्वमन्दिरम् ॥ ४५
तत्रानुबाध्यमानश्च कन्याजन्मशुचा पुनः । स राजा गृहवृद्धेन केनाप्यूचे द्विजन्मना ॥ ४६
राजनिक कन्यकारनजन्मना परितप्यसे । पुत्रेभ्योऽप्युत्तमाः कन्याः शिवाश्चेह परत्र च ॥ ४७
शज्यलुब्धेषु का तेषु पुत्रेष्वास्था महीभुजाम् । ये भक्षयन्ति जनकं बत सर्कटका इव ॥ ४८
नृपास्तु कुन्तिभोजाद्याः कुन्यादितनयागुणैः। तीर्णा दुःसहदुर्वासःप्रभृतिभ्यः पराभवम् ॥ ४९
फलं यच्च सुतादानात्कुतः पुत्रान्परत्र तत् । सुलोचनाकथामत्र किं च वचिम निशम्यताम् ॥ ५०
आसीद्राजा सुषेणाख्यश्चित्रकूटाचले युवा । कामोऽन्य इव यो धात्रा निर्मितस्रयम्बकेय्या ॥ ५१
स च दिव्यमारामं मूले तस्य महागिरेः। सुराणां नन्दनोद्यानवासवैरस्यदायिनम् ॥ ५२
तन्मध्ये च चकारैकां वपीमुत्फल्लपङ्कजाम् । लक्ष्मीलीलारविन्दानां नवाकरमहीमिव ॥ ५३
तस्यास्तस्थौ स सद्रत्नसोपानायास्तटे सदा। पत्नीनां स्वानुरूपाणामभावाद्वधूसखः ॥ ५४
एकदा तेन मार्गेण नभसा सुरसुन्दरी। रम्भा जम्भारिभवनादाजगाम यदृच्छया ॥ ५५
सा तं ददर्श राजानं तत्रोद्याने विहारिणम् । क्षान्मधुमिवोस्फुल्लपुष्पकाननमध्यगम् ॥ ५६
वापिकापद्मपतितां दिवोऽनु पतितः श्रियम् । चन्द्रः किमेष नैतद्वा श्रीरस्य ह्यनपायिनी ॥ ५७
नूनं पुष्पेषुरुद्यानं पुष्पेच्छुः सोऽयमागतः । किं तु सा रतिरेतस्य क गता सहचारिणी ॥ ५८
इत्यौत्सुक्यकृतोल्लेखा सावतीर्य नभोन्तरात् । रम्भा मानुषरूपेण राजानं तमुपागमत् ॥ ५९
उपेतां तां च सहसा दृष्ट्वा राजा सविस्मयः। अचिन्तयत्हो केयमसंभाव्यवपुर्भवेत् ॥ ६०
न तावन्मानुषी येन पादौ नास्य रजःस्पृशौ । न चक्षुः सनिमेषं वा तस्माद्दिव्यैव काव्यसौ ॥ ६१
प्रष्टव्या तु मया नेयं पलायेत हि जातुचित् । रतिभेदासहाः प्रायो दिव्याः कारणसंगताः ॥ ६२
इति ध्यायन्स नृपतिः कृतसंभाषणतया । तक्रमेणैव तत्कालं तकण्ठाश्लेषमाप्तवान् ॥ ६३
चिक्रीड च चिरं सोऽत्र सकमप्सरसा तया । दिवं सषि न सस्मार रम्यं प्रेम न जन्मभूः ॥ ६४
तत्सखीयक्षिणीधृतैरपूरि स्वर्णराशिभिः। सास्य भूमिर्नरेन्द्रस्य द्यौर्मेरुशिखरैरिव ॥ ६५
कलेन चास्य राज्ञः सा सुषेणस्य वराप्सराः । असूतानन्यसदृशीं धृतगर्भा सती सुताम् ॥ ६६
प्रसूतमात्रैव च सा जगावैनं महीपतिम् । राजञ्शापोऽयमीदृढने क्षीणो जातः स चाधुना॥ ६७
अहं हि रम्भा नाकस्सी एंवयि दृष्टेऽनुरागिणी । जाते च गमें मुक्त्वा तं गच्छामस्तत्क्षणं वयम् ॥ ६८
समयो हीदृशोऽस्माकं तद्रक्षेः कन्यकामिमाम् । एतद्विवाहान्नाके नौ भूयो भावी समागमः ॥ ६९
एवमुक्त्वाप्सरा रम्भा विवशा सा तिरोदधे । तदुःखाच स राजाभूत्तदा प्राणव्ययोद्यतः ॥ ७०
निरास्थेनापि किं त्यक्तं विश्वामित्रेण जीवितम् । मेनकायां प्रयातायां प्रसूयैव शकुन्तलाम् ॥ ७१
इत्यादि सचिवैरुक्तो ज्ञातार्थः स नृपो धृतिम् । शनैरादत्त कन्यां च पुनः संगमकारणम् ॥ ७२
तां च बालां तदेकाग्रः पिता सर्वाङ्गसुन्दरीम् । सोऽतिलोचनसौन्दर्यान्नाम्ना चक्रे सुरोचनाम् ॥ ७३
कालेन यौवनप्राप्तामुद्यानस्थां ददर्श ताम् । युवा यदृच्छया भ्राम्यन्वत्साख्यः काश्यपो मुनिः ॥ ७४
स तपोराशिरूपोऽपि दृष्टैवैतां नृपात्मजाम् । अनुरागरसज्ञोऽभूदिति चात्र व्यचिन्तयत् ॥ ७५
अहो रूपं किमप्यस्याः कन्यायाः परमाद्भुतम् । नमां प्राप्नोमि चेन्नार्या किमन्यत्तपसः फलम् ॥ ७६
इति ध्यायन्मुनियुवा स सुलोचनया तया । अदर्शि प्रज्वळतेजा विधूम इव पावकः ॥ ७७
तं वीक्ष्य सापि सप्रेमा साक्षसूत्रकमण्डछम् । शान्तश्च कमनीयश्च कोऽयं स्यादित्यचिन्तयत् ॥ ७८
वरणायेव चोपेत्य नयनोत्पलमालिकाम् । क्षिपन्ती तस्य वपुषि प्रणाममकरोन्मुनेः ॥ ७९
पतिं समामुद्दीत्याशीस्तस्यास्तेनाभ्यधीयत । सुरासुरदुरुल्लब्यमन्मथाज्ञावशात्मना ॥ ८०