पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तरङ्गः २।]
[१२३
मदनमद्युकालम्बकः ६ ।

जज्ञे च तस्या न चिरादनन्यसदृशी सुता । वेधसः सर्वसौन्दर्यसर्गवर्णकसंनिभा ॥ ३
ईदृक्पुत्रो न किं जात इतीव स्नेहशालिनः । रक्षाप्रदीपास्तत्कान्तिजिता विच्छायतां ययुः ॥ ४
पिता कलिङ्गदत्तश्च जातां तां तादृशीमपि । दृष्ट्वा तपपुत्राशावैफल्यविमना अभूत् ॥ ५
दिव्यां तमपि संभाव्य स पुत्रेच्छ्रदूयत । शोककन्दः क कश्या हि कानन्दः कायवान्सुतः ॥ ६
सतश्चेतोविनोदाय खिन्नो निर्गत्य मन्दिरात् । ययौ नानजिनाकारं विहरं स महीपतिः ॥ ७
तत्रैकदेशे शुश्राव धर्मपाठकभिक्षुणा । जनमध्योपविष्टेन कथ्यमानमिदं वचः ॥ ८
अर्थप्रदानमेवाहुः संसारे सुमहत्तपः । अर्थदः प्राणदः प्रोक्तः प्राणा यथेषु कीलिताः ॥ ९
बुद्धेन च परस्यार्थे करुणाकुलचेतसा। आत्मापि तृणवद्दत्तः का वराके धने कथा ॥ १०
तादृशेन च धीरेण तपसा स गतस्पृहः । संप्राप्तदिव्यविज्ञानो बुद्धो बुद्धत्वमागतः ॥ ११
आ शरीरमतः सर्वेष्विष्टेष्व(शानिवर्तनात् । प्राज्ञः सत्त्वहितं कुर्यात्सम्यक्संबोधलब्धये ॥ १२
सथा च पूर्वं कस्यापि कृतनाम्नो महीपतेः । अजायन्तातिसुभगाः क्रमात्सप्त कुमारिकाः ॥ १३
आला एव च तास्त्यक्स्वा वैराग्येण पितुहम् । श्मशानं शिश्रियुः पृष्टा जगदुश्च परिच्छदम् ॥ १४
असारं विश्वमेवैतत्तत्रापीदं शरीरकम् । तत्राप्यभीष्टसंयोगसुखादि स्वप्नविभ्रमः ॥ १५
एकं परहितं त्वत्र संसारे सरमुच्यते । तदनेनापि देहेन कुर्मः सत्त्वहितं वयम् ॥ १६
क्षिपामो जीवदेवैतच्छरीरं पितृकानने । क्रव्याद्भणोपयोगाय कान्तेनापि ह्यनेन किम् ॥ १७
तथा च राजपुत्रोऽत्र विरक्तः कोऽप्यभूपुरा । स युवापि सुकान्तोऽपि परिव्रज्याभशिश्रियत् ॥ १८
स जातु भिक्षुः कस्यापि प्रविष्टो वणिजो गृहम् । दृष्टस्तरुण्या तपन्या पद्मपत्रायतेक्षणः ॥ १९
सा तल्लोचनलावण्यहृतचिन्ता तमब्रवीत् । कथमत्तमिदं कष्टमीदृशेन स्वया व्रतम् ॥ २०
सा धन्या स्त्री तवानेन चक्षुषा या निरीक्ष्यते । इत्युक्तः स तया भिक्षुश्चक्षुरेकसपाटयत् ॥ २१
ऊचे च हस्ते कृत्वा तन्मातः पश्येदमीदृशम्। जुगुप्सितमवृक्षासं गृह्यतां यदि रोचते ॥ २२
दृगेव द्वितीयं च वद रम्यं किमेतयोः । इत्युक्ता तेन तदृष्टा व्यषीदत्सा वणिग्वधूः ॥ २३
उवाच च हहा पपं मया कृतमभख्यया । यदहं हेतुतां प्राप्ता लोचनोपटने तव ॥ २४
तच्छुत्वा भिक्षुरवदन्मा भूदस्व तव व्यथा । मम त्वया झुपकृतं यतः श्रुणु निदर्शनम् ॥ २५
आसीकोऽपि पुरा कान्ते कुत्राण्युपवने यतिः । अनुजाह्नवि वैराग्यनि:शेषनिक्षेच्छया ॥ २६
तपस्यतश्च कोऽप्यस्य राजा तत्रैव दैवतः । विहर्तुमागतः साकमवरोधत्रधूजनैः ॥ २७
विहृत्य पानसुप्तस्य पार्श्वदुस्थाय तस्य च । नृपस्य चापलाद्रादयस्तदुद्याने किलाभ्रमन् ॥ २८
दृष्ट्वा तत्रैकदेशे च तं समाधिस्थितं मुनिम् । अतिष्ठन्परिचायैनं किमेतदिति कौतुकात् ॥ २९
चिरस्थितासु तास्वत्र प्रबुद्धः सोऽथ भूपतिः । अपश्यन्दयिताः पाश्र्वे तत्र बभ्राम सर्वतः ॥ ३०
ददर्श चात्र राजंस्ताः परिवार्य मुनिं स्थिताः । कुपितश्चेष्टैया तस्मिन्खङ्गन प्राहरन्मुनौ ॥ ३१
ऐश्वर्यमीष्र्या नैर्गुण्यं क्षीबत्वं निर्विवेकिता। एकैकं किं न यत्कुर्यात्पञ्चाग्नित्वे तु का कथा ॥ ३२
ततो गते नृपे तस्मिन्कृत्ताङ्गमपि तं मुनिम् । अक्रुद्धे प्रकटीभूय काष्युवाचात्र देवता ॥ ३३
महात्मन्येन पापेन क्रोधेनैतत्कृतं त्वयि । स्वशक्त्या तमहं हन्मि मन्यते यदि तद्भवान् ॥ ३४
तच्छुत्वा स जगाधिर्देवि मा स्मैवमादिशः । स हि धर्मसहायो मे न विप्रियकरः पुनः ॥ ३५
तत्प्रसादाक्षमाधर्म भगवल्याप्तवानहम् । कस्य क्षभेय किं देवि नैवं चेदख समाचरेत् ॥ ३६
कः कोपो नश्वरस्यास्य देहस्यार्थं मनस्विनः। प्रियाप्रियेषु साम्येन क्षमा हि ब्रह्मणः पदम् ॥ ३७
इत्युक्ता मुनिना साथ तपसा तस्य तोषिता । अङ्गानि देवता कृत्वा निर्बणानि तिरोदधे ॥ ३८
तद्यथा सोऽपि तस्यर्षेरुपकारी मतो नृपः। नेत्रोरस्खननहेतोस्त्वं तपोवृद्धया तथाम्ब मे ॥ ३९
इत्युक्त्वा स वशी भिक्षुर्विनम्र तां वणिग्वधूम् । कान्तेऽपि वपुषि स्वस्मिन्ननास्थः सिद्धये ययौ ॥ ४०
तस्माद्वलेऽपि रम्येऽपि कः काये गवरे प्रहः । सत्रघोपकारस्तस्मादेकः प्राज्ञस्थ शस्यते ॥ ४१